कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 625, कुल 709 में से
संदर्भ में पढ़ें५८६ कादम्बरी- [ कथायाम्-
मुहुर्गलित-रशना-निगड॑-नियमितचरणतया संयम्यर्पितेव मन्मथेन, ^३मुहुश्चलितोरुविघट- दुकूला क्षितितलदोलायमानांशुकेकदेशाच्छादितकुचा, चकित-परिवर्त्तन-त्रुट्यत्रिवलीलत, ^४अंशस्रस्तचिकुरकला-सङ्कलनकुल-करकमला, कटाक्ष-क्षेप-धवलीकृतकर्णोत्पलं ^५विलक्ष- स्मितसुधाधूलि-धूसरितकपोलं साचीकृत्यं, वदनमनेकरस-भङ्गिमँङ्गुरं विलोकयन्ती, तावदवतस्थे यावदुपसंहृता^१० लोको दिवसो बभूव।
अथ हृदयस्थितकमलिनीरागेणेव रज्यमाने राजीवजीवितेश्वरे^ सकल-लोकचक्रवाल-
तस्या भावस्तया कारणेन, कथिता बोधिता कुसुमायुधशरप्रहारस्य कामबाणाघातस्य वेदना पीडा यया सेव । उक्तालंकारः ।
मुहुरिति । गलिता कटिप्रदेशात् त्रस्ता या रशना काञ्चीदाम सैव निगडः शृङ्खला तया नियमितौ बन्धनीकृतौ चरणौ पादौ यस्यास्तस्या भावस्तया कारणेन, मन्मथेन कामेन संयम्य बद्ध्वा चन्द्रापीडाय अर्पितेव दत्तेव । उक्तालंकारः ।
मुहुरिति । चलितौ कम्पितौ यौ ऊरू जङ्घे ताभ्यां विघटं दुकूलं च्युतप्रायवस्त्रं यया सा, क्षितितले भूतले दोलायमानेन सञ्चाल्यमानेन अंशुकेकदेशेन वसनाञ्चलेन पुनरुत्थापितेनेति तात्पर्यम् आच्छादितौ आवृत्तौ कुचौ पयोधरौ यया सा । कादम्बर्या विलासवशादुत्तरीयांशुकः स्वस्थानादपसृत्य भूतले लम्बितः भूयश्च सविभ्रमं स्वस्थानं स्थापितस्तेनाच्छादितकुचा जातेति सरलार्थः । चकितं ससम्भ्रमं यत्परिवर्त्तनं परावर्त्तनं तेन त्रुट्यन्ती चर्मविसरणाद् भ्रश्यन्ती त्रिवलीलत त्रिरखारूपवल्ली यस्याः सा । अंसयोः स्कन्धयोः त्रस्तो विच्युतो यः चिकुरकलापः केशपाशः तस्य सङ्कलने पुनरेकत्र सम्पादने आकुलं विह्वलं करकमलं हस्तपङ्कजं यस्याः सा । कटाक्षक्षेपेण तस्य कान्त्येत्यर्थः धवलीकृतं शुभ्रीकृतं कर्णोत्पलं श्रवणाभरणं यत्र कर्मणि तद्यथा स्यात्तथा । इह शुभ्रीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिरलंकारः । विलक्षेण त्रपया सहितं यत् स्मितम् ईषद्वहास्यमेव सुधाधूलिः श्वेतत्वसादृश्यात् गृहधवलीकरणद्रव्यचूर्णपरागः, विलक्षस्मितं सुधाधूलिरिवेति वा तया धूसरितौ श्वेतपाण्डुवर्णकृतौ कपोलौ गण्डौ यन्न कर्मणि तद् यथा स्यात्तथा । इह प्राग्वदतिशयोक्तिरलंकारः रूपकोपमयोः सन्देहसङ्करश्चेत्युभयोरङ्गाङ्गिभावसङ्करः । तथा अनेका नानाप्रकारा या रसभङ्गयः आसक्तारचनाविशेषाः ताभिर्भङ्गुरं कुटिलं यथा स्यात्तथा, वदनं मुख साचीकृत्य कुटिलं विधाय चन्द्रापीडं विलोकयन्ती पश्यन्ती सती तावद् अवतस्थे स्थितवती, यावद् उपसंहृतः सूर्येण सङ्कोचित आलोक आतपो यस्य स तथोक्तो लोहितो रक्तो दिवसो वासरो बभूव जातः । अनेन स्पष्ट एव सन्ध्यासमयो वर्णितः ।
प्रदोषसमयं वर्णयितुमुपक्रमते—अथेति । राजीवनां कमलानां जीवितेश्वरे निजतातपेनैवजीवनत्वात् प्राणनियन्तरि, सकलाः समस्ता ये लोका भुवनानि तेषां चक्रवालस्य मण्डलस्य चक्रवर्त्तिनि सार्वभौमे
हो; कितनी बार कटिदेशसे (कमरसे) चन्द्रहार (तागड़ी की लड़) खिसक जानेसे शृङ्खलारूपमें चरण बँध जानेके कारण मानो कामदेवद्वारा बाँधकर अर्पित की गई हो; कभी-कभी ऊरुयुगल कम्पित होनेसे उसका परिधान वस्त्र ढीला हो जाता था और भूतल पर लुण्ठित (लोटने) केवल वस्त्राञ्चल (दुपट्टे के एक किनारे) ही से स्तन आच्छादित (ढके) रहते थे। कभी-कभी चकित होकर पीछे मुड़नेसे उसकी त्रिवली-लता (उदरके ऊपर तीन थर) टूट जाती थी; कभी-कभी उसके हाथ स्कन्ध (कंधे) पर लटकने केशोंको एकत्र करने तथा उसे बाँधनेमें लग जाते थे; कभी-कभी कटाक्ष फेंकनेसे कर्ण-कमल श्वेतवर्ण हो जाता था और लज्जासे युक्त ईषद् हास्यरूप चूर्ण-रेणु उसके कपोलयुगलको धूसरवर्ण कर देती थी, इस प्रकार वह मुखमण्डल मोड़-मोड़ कर, अनुरागवश नानाविध भावभङ्गी उत्पन्न होनेके कारण कटाक्ष (तिरछी नजर) से देखती-देखती जब तक सूर्य-प्रकाश मन्द पड़ कर दिवस लाल-लाल दीखने लगा तब तक वह वहाँ खड़ी रही।
उसके बाद कमलोंके जीवितेश्वर और समस्त भूमण्डलके सम्राट् भगवान् सूर्यनारायण अपने हृदय-स्थित
१ ॰॰॰निबिट॰॰॰ । २ ॰॰॰पनित॰॰॰ । ३. मुहुर्मुहुर्विचिलित । ४. सनस्त॰॰॰ । ५. करनला । ६ ॰॰॰कर्णोत्वल॰॰॰ । ७. विलक्ष्यमागस्मितधूलिधूसरकपोलम् ; विलक्षस्मितनुधाधूलिधूसरितैककपोला, विलक्ष्य चास्मितसुधाधूलि॰॰॰ । ८. साचीकृतवदनम्॰॰॰ । ९. भ्रूभङ्गि॰॰॰ । १० ॰॰॰उपसंहृता॰॰॰ ।