कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
५८३] कादम्बरी [उत्तरभागः
के वा वयं ग्रहणस्याग्रहणस्य वा ? गतो वशित्वमसौ जनः। सौजन्यशालिनीभिर्गुणैर्निर्मूलमिवो- पकरणकृतोऽयं जनो यथेष्टमिष्टेष्वनिष्टेषु वा व्यापारेषु विनियुज्यताम्। अतिदक्षिणायाः खलु देव्याः कादम्बर्याः निर्दाक्षिण्यमपि गुणं न कश्चिन्न दासीकुर्यात्' इत्युक्त्वा च कादम्बरी- सम्बन्धानेव कथाभिः सुचिरं स्थित्वा विसर्जयाम्बभूव मदलेखाम्।
अनतिदूरे गतायां च तस्यां क्रीडापर्वतकारूढं तदुपशिरोवर्तिनं चन्द्रसमं चन्दनदु- कूलहारवन्तं चन्द्रापीडं द्रष्टुं समुत्सारितवेत्रच्छत्रचामरचिह्ना निर्वारिताशेषपरिजनानुगमना तमालिकाद्वितीया चित्ररथसुता पुनरपि तत्रैव सौधशिखरमारुरोह। तत्रस्था च पुनस्तस्यैव विविधविलासपरिक्लिन्नविकारिविलोकितेर् जहारस्य मनः। तथाहि- 'सुहृन्निमज्जनबिन्द-
मन समाधेयेत्यभिप्रायः। यद्यप्यत्र "अस्मदो द्वयोश्च" इत्यनेन बहुवचनम्। इयं कया, तस्याः के स्वतन्त्रतामहेतावः, तथा सति, युक्तान्तापादनं सर्वमेवायुक्तं कृतमिति भावः।
केनेति। सौजन्यशालिनीभिः सुजनतायुक्तिकर्त्रीभिः। उपकरणकृतः परिचारकीकृतः अयं महद्गतो जनः स्वद्रुवाह—यथेत्यादि। इष्टेष्वनिष्टेषु हिताहितेषु। विनियुज्यतां प्रेष्यताम्।
अतीति। अतिदक्षिणाया अतिउदारायाः देव्याः कादम्बर्या गुणाः सुशीलतासम्बन्धिदोषाः, निर्दा- क्षिण्यमपि अनुदारमपि कश्चिजनं न दासीकुर्यान्न इति, न, अपि तु सर्वमेवेत्यर्थः। अतएव ममोपायानां करणे किमपि न विप्लवायहेत्वित्याशयः। विसर्जयाम्बभूव गृहे गन्तुमनुज्ञामयाम्बभूव चन्द्रापीड इति शेषः।
अनतीति। गतायां प्राप्तायां तस्यां मदलेखायाम्। तदुपशिरोवदम् तदुपार्वडजातै चन्दनसमं शशिनमिव चन्दनेन मदलेखाद्वारा विहितमण्डनावलेपनेन दुकूलमयं धवलविद्योत्यानां दुकूलवस्त्राणां हारेण च शोभामकन घटयन्तमुज्वलयन्तं, पदान्तरे-चन्दनदुकूलहारवन्तम्। समुत्सारितानि दूरीकृतानि वेत्रच्छत्रचामराख्येषु देवतानुरूपवाक्यलक्षणानि विहितानि रूपाणि यथा सा, ताहशी, वेत्रयष्टिधारिणी द्वारपालिकां छत्रधारिणीं चामरधारिणीं च सेविकामानयताम् निर्वार्यन्तेयर्थः, निर्वारितं निवारितम् अशेषाणां समग्राणां परिवारानां परिचारिकाणाम् अनुगमनम् अनुब्रजनं यथा सा, तथा, तमालिकाद्वितीया कपरा यस्याः सा चित्ररथसुता गन्धर्वराजपुत्री कादम्बरी। पुनरपि द्वितीयवारमपि। आरोह आस्ता। इह श्लोकोपना।
तत्रस्थेति। तत्रैव प्रासादेव विविधा नानाप्रकारा ये विलासा शृङ्गारेक्षणलक्षाणैः तैराकुडितानि सपलीकृतानि तैः, विकारिभि विकारोत्पादकानि च यानि विलोकितानि दृष्टिपातादिति तैः, तस्य चन्द्रापीडस्य मनो हृदयं जहार हृतवती।
नानाविधिविलासानेव प्रतिपादयति—तथाहितीत्यादि। निमज्जनबिन्दो संक्रान्तः पश्चात् प्रतिविम्वन्ते तत्रस्थं
ही मैं कौन हूँ! मेरी स्वाधीनता की बात ही क्या उत्पादित हो गई! सौजन्य-युक्त सब सौन्दर्य-युक्त गुणावलियोंने मुझे अपना एक बार दास बना लिया है, अब यह अपना व्यक्ति जिस किसी कार्य में इस व्यक्तिको इच्छानुसार (जिस प्रकार चाहे वैसा ही) नियुक्त करें। अत्यन्त उदार प्रकृति कादम्बरी देवीके वशीकरण-कौतुकप्रधान चित्त सौन्दर्य-विहीन व्यक्तिको भी वशीभूत नहीं करते हैं—यह कहा नहीं जा सकता! यह कह कर कादम्बरी-सम्बन्धी वार्तालाप करने में बहुत समय तक रह कर, राजकुमारने मदलेखाको विदा कर दिया।
मदलेखाके कुछ दूर चले जानेके बाद क्रीडापर्वत पर—अट्टालक पर आए हुए चन्द्रके समान—चन्दन, दुकूल वस्त्र तथा हार धारण करनेसे शोभायमान दीखते हुए चन्द्रापीडको देखनेके लिए, प्रतीहारी, छत्रधारिणी और चामरधारिणी परिचारिकाओंको छोड़ कर, कल्याण सम्बन्ध परिजनोंको भी साथ आनेसे निषेध कर, केवल तमालिकाके साथ कादम्बरी फिरसे उसी अट्टालिका (महल) के शिखरपर चढ़ीं। वहीं रहकर फिरसे पहलेकी भाँति ही वह नानाविध रुचियुक्त चेष्टा और विकारजनक दृष्टिका से उनके मनका हरण करने लगी। जिनमें ही
१. ग्रहणस्याग्रहणस्य । २. गता । ३. इष्टेष्वनिष्टेषु वा । ४. निर्दाक्षिण्याद्यपि। ५. कश्चिदिति नेदम्। ६. क्रीडा- पर्वतकारूढम्। ७. तदुपगगनम् । ८. समाहारित... । ९. क्वचित् 'समुत्सार्य' इति दर्शनं दृश्यते। १०. परिक्लिन्न- तरविहितैर्विलोकितेः, विकारिभिर्विलोकितेः। ११. 'कुहूहृत' इति क्वचित्।
कादम्बरी निजविकारप्रशम० ६७ ] चन्द्रकला-विद्योतिनीसहिता । [ ५८५
न्यस्तवामहस्तपल्लवा प्रावृतांशुकानुसारिप्रसारित-दक्षिणकरा निश्चलतारका लिखितेव, मुहुर्जृम्भिकारम्भदत्तोत्तानकरतलतया तद्गोत्रस्खलनभिया निरुद्धवदनेव, मुहुरंशुकपल्लव-ताडित-निःश्वासामोद-लुब्ध-मधुकर-मुखरतया प्रस्तुताह्वानेव, मुहरनिलगलितांशुक-सम्भ्रम-द्विगुणीकृत-भुजयुगल-प्रावृत-पयोधरतया दत्तालिङ्गनसंज्ञेव, मुहुः केशपाशाकृष्ट-कुसुम-पूरिताञ्जलि-समाघ्राण-लीलया कृतनमस्कारेव, मुहुरुभय-तर्जनी-भ्रमित-मुक्ताप्रालम्बतया निवेदितहृदयोत्कलिकोद्गमेव, मुहुरुपहारकुसुमस्खलन-विधुत-करतलतया कथितकुसुमायुधशरप्रहारवेदनेव.
स्थापितं वामहस्तपल्लवं सव्यपाणिकिसलयं यया सा, प्रावृतस्य परिहितस्य अंशुकस्य सूक्ष्मवस्त्रस्य अनुसारेण पवनेनापहृतस्य तत्सज्जीकरणव्याजेनेत्यर्थः प्रसारितो विस्तारितो दक्षिणकरः अपसव्यहस्तो यया सा, तथा निश्चले निष्पन्दे तारके कनीनिकायुगलं यस्याः सा, लिखिता चित्रितेव सती कादम्बरी, 'विलोकयन्तो तावदवतस्थे' इत्यग्रिमेण सम्बन्धः। अग्रेऽपीत्थमेव सम्बन्धो ज्ञेयः। इह क्रियोत्प्रेक्षा।
मुहुरिति। जृम्भिका मुखाद्विविकाशः तस्य आरम्भे प्राङ्काले दत्तं व्यात्तवदनोपरि न्यस्तम् उत्तानं करतलं पाणितलं यया तस्या भावस्तया कारणेन, तस्य चन्द्रापीडस्य यद् गोत्रस्खलनं भ्रमेण नामोच्चारणं तद्भियेव तद्भीत्येव निरुद्धवदना पिहितमुखी। मदनजागरेण या जृम्भा जाता तत्र व्यात्तमुखस्य पिधानार्थं यः कर आच्छादनीकृतः स मन्ये प्रीतिवशाच्चन्द्रापीडस्य नामनिर्गमनभीत्या विहित इत्यभिप्रायः। हेतूत्प्रेक्षा।
मुहुरिति। अंशुकपल्लवेन वस्त्रप्रान्तेन ताडिताः प्रहताः निःश्वासस्य आमोदेन परिमलेन लुब्धा लिप्सवो ये मधुक्रा भ्रमराः तैर्मुखरतया शब्दायमानतया, प्रस्तुतम् उपक्रान्तम् आह्वानम् आकारणं यया सेव। आह्वानप्रस्तावेोत्प्रेक्षणात् क्रियोत्प्रेक्षा।
मुहुरिति। अनिलेन पवनेन गलिते कुचमण्डलात् स्रस्ते अंशुके उत्तरीयवस्त्रे सम्भ्रमेण शीघ्रेण द्विगुणीकृतम् ऊर्ध्वाधोरूपेणोरसि स्थापितं यद् भुजयुगलं बाहुद्वयं तेन प्रावृतौ आच्छादितौ पयोधरौ कुचौ यया तस्या भावस्तस्या कारणेन बाहुद्वयवेष्टितकुचयेत्यर्थः। दत्ता अर्पिता आलिङ्गनाय आश्लेषाय संज्ञा सङ्केतो यया सेव, बाहुद्वयेनाश्लेषप्रकारविधानादित्याशयः। उक्तालंकारः।
मुहुरिति। केशपाशात् कचकलापात् आकृष्टैः आनीतैः कुसुमैः प्रसूनैः पूरितस्य अञ्जलेः समाघ्राणस्य लीलया विभ्रमेण कृतनमस्कारेव विहितप्रणामेव, अञ्जल्युपरि आघ्राणाय नमिते शिरसि नमस्कारचेष्टा सञ्जातेति भावः। उक्तालंकारः।
मुहुरिति। उभयतर्जनीभ्याम् अङ्गुष्ठसमीपाङ्गुलिद्वयाभ्यां भ्रमितं घूर्णितं मुक्ताप्रालम्बं मौक्तिकहारो यया तस्या भावस्तया कारणेन, निवेदितो ज्ञापितो हृदयस्य उत्कलिकाया सङ्गमोत्कण्ठाया उद्गम उत्पत्तिर्यया सेव, हारभ्रान्त्या औत्सुक्येन हृदयभ्रमणस्य द्योतनादित्याशयः। उक्तालंकारः।
मुहुरिति। उपहारकुसुमेषु उपायनप्रसूनेषु स्खलनेन विधुतं कम्पितं करतलं पाणितलं यया
वार अपना बायाँ कोमल हाथ नितम्बमण्डल पर रखकर पहने हुए वस्त्रके वायुद्वारा उड़ाकर ले जाने तक दायाँ हाथ नीचे लटका कर, निश्चल कनीनिकाद्वय (दो पुतली) रखकर चित्रितके समान (काढ़ी गई) हो, कितनी ही बार जँभाई-आरम्भ करनेके समयमें मुखके ऊपर उत्तानभागसे (चित्त) करतल रखनेसे भ्रमवश चन्द्रापीडका नामोच्चारण हो जानेके भयसे ही मानो अपना मुँह बन्द करती हो; निश्वास (साँस) के सौरभलोभसे घूमते भ्रमरोंको, कितनी ही बार, वस्त्राञ्चल (वस्त्रके किनारे) से झपट मार कर उनकी गुञ्जारसे मानो चन्द्रापीडको आह्वान करती (बुलाती) हो; कितनी ही बार वायुके वेगसे वक्षःस्थलीय उत्तरीय वस्त्रके उड़ जानेकी त्वरा (घबराहट) से अपनी दोनों भुजाओंको मोड़ और उनसे स्तनोंको आच्छादित (ढक) कर मानो आलिङ्गनका सङ्केत (इशारा) करती हो; कितनी ही बार केशकलापमेंसे पुष्पोंको लेकर अपनी अञ्जलीपूर्ण (भर) कर लीलासहित सूँघनेके बहाने मानो नमस्कार करती हो; कितनी ही बार दोनों हाथोंकी तर्जनी अङ्गुलियोंसे मुक्ताहार भ्रमण कराने रहनेसे हृदयमें उत्पन्न होती उत्कण्ठाको मानो सूचित करती हो; कितनी ही बार विक्षिप्त कुसुमोके ऊपर ठोकर लगजानेसे हाथ काँपते रहनेके कारण मानो मदन-बाणके प्रहारकी वेदना प्रकाशित करती
१. अंशप्रावृत०००। २. गोत्रस्खलनभयविरुद्धवदनेव। २निःश्वातामोदः। ४*सम्भ्रमद्विगु-णितभुजलतावृतपयोधरतया, संवरणसम्भ्रम०००। ५ प्रलम्बतया। ६. करतया।
३७ का०
५८६ कादम्बरी- [ कथायाम्-
मुहुर्गलित-रशना-निगड॑-नियमितचरणतया संयम्यर्पितेव मन्मथेन, ^३मुहुश्चलितोरुविघट- दुकूला क्षितितलदोलायमानांशुकेकदेशाच्छादितकुचा, चकित-परिवर्त्तन-त्रुट्यत्रिवलीलत, ^४अंशस्रस्तचिकुरकला-सङ्कलनकुल-करकमला, कटाक्ष-क्षेप-धवलीकृतकर्णोत्पलं ^५विलक्ष- स्मितसुधाधूलि-धूसरितकपोलं साचीकृत्यं, वदनमनेकरस-भङ्गिमँङ्गुरं विलोकयन्ती, तावदवतस्थे यावदुपसंहृता^१० लोको दिवसो बभूव।
अथ हृदयस्थितकमलिनीरागेणेव रज्यमाने राजीवजीवितेश्वरे^ सकल-लोकचक्रवाल-
तस्या भावस्तया कारणेन, कथिता बोधिता कुसुमायुधशरप्रहारस्य कामबाणाघातस्य वेदना पीडा यया सेव । उक्तालंकारः ।
मुहुरिति । गलिता कटिप्रदेशात् त्रस्ता या रशना काञ्चीदाम सैव निगडः शृङ्खला तया नियमितौ बन्धनीकृतौ चरणौ पादौ यस्यास्तस्या भावस्तया कारणेन, मन्मथेन कामेन संयम्य बद्ध्वा चन्द्रापीडाय अर्पितेव दत्तेव । उक्तालंकारः ।
मुहुरिति । चलितौ कम्पितौ यौ ऊरू जङ्घे ताभ्यां विघटं दुकूलं च्युतप्रायवस्त्रं यया सा, क्षितितले भूतले दोलायमानेन सञ्चाल्यमानेन अंशुकेकदेशेन वसनाञ्चलेन पुनरुत्थापितेनेति तात्पर्यम् आच्छादितौ आवृत्तौ कुचौ पयोधरौ यया सा । कादम्बर्या विलासवशादुत्तरीयांशुकः स्वस्थानादपसृत्य भूतले लम्बितः भूयश्च सविभ्रमं स्वस्थानं स्थापितस्तेनाच्छादितकुचा जातेति सरलार्थः । चकितं ससम्भ्रमं यत्परिवर्त्तनं परावर्त्तनं तेन त्रुट्यन्ती चर्मविसरणाद् भ्रश्यन्ती त्रिवलीलत त्रिरखारूपवल्ली यस्याः सा । अंसयोः स्कन्धयोः त्रस्तो विच्युतो यः चिकुरकलापः केशपाशः तस्य सङ्कलने पुनरेकत्र सम्पादने आकुलं विह्वलं करकमलं हस्तपङ्कजं यस्याः सा । कटाक्षक्षेपेण तस्य कान्त्येत्यर्थः धवलीकृतं शुभ्रीकृतं कर्णोत्पलं श्रवणाभरणं यत्र कर्मणि तद्यथा स्यात्तथा । इह शुभ्रीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिरलंकारः । विलक्षेण त्रपया सहितं यत् स्मितम् ईषद्वहास्यमेव सुधाधूलिः श्वेतत्वसादृश्यात् गृहधवलीकरणद्रव्यचूर्णपरागः, विलक्षस्मितं सुधाधूलिरिवेति वा तया धूसरितौ श्वेतपाण्डुवर्णकृतौ कपोलौ गण्डौ यन्न कर्मणि तद् यथा स्यात्तथा । इह प्राग्वदतिशयोक्तिरलंकारः रूपकोपमयोः सन्देहसङ्करश्चेत्युभयोरङ्गाङ्गिभावसङ्करः । तथा अनेका नानाप्रकारा या रसभङ्गयः आसक्तारचनाविशेषाः ताभिर्भङ्गुरं कुटिलं यथा स्यात्तथा, वदनं मुख साचीकृत्य कुटिलं विधाय चन्द्रापीडं विलोकयन्ती पश्यन्ती सती तावद् अवतस्थे स्थितवती, यावद् उपसंहृतः सूर्येण सङ्कोचित आलोक आतपो यस्य स तथोक्तो लोहितो रक्तो दिवसो वासरो बभूव जातः । अनेन स्पष्ट एव सन्ध्यासमयो वर्णितः ।
प्रदोषसमयं वर्णयितुमुपक्रमते—अथेति । राजीवनां कमलानां जीवितेश्वरे निजतातपेनैवजीवनत्वात् प्राणनियन्तरि, सकलाः समस्ता ये लोका भुवनानि तेषां चक्रवालस्य मण्डलस्य चक्रवर्त्तिनि सार्वभौमे
हो; कितनी बार कटिदेशसे (कमरसे) चन्द्रहार (तागड़ी की लड़) खिसक जानेसे शृङ्खलारूपमें चरण बँध जानेके कारण मानो कामदेवद्वारा बाँधकर अर्पित की गई हो; कभी-कभी ऊरुयुगल कम्पित होनेसे उसका परिधान वस्त्र ढीला हो जाता था और भूतल पर लुण्ठित (लोटने) केवल वस्त्राञ्चल (दुपट्टे के एक किनारे) ही से स्तन आच्छादित (ढके) रहते थे। कभी-कभी चकित होकर पीछे मुड़नेसे उसकी त्रिवली-लता (उदरके ऊपर तीन थर) टूट जाती थी; कभी-कभी उसके हाथ स्कन्ध (कंधे) पर लटकने केशोंको एकत्र करने तथा उसे बाँधनेमें लग जाते थे; कभी-कभी कटाक्ष फेंकनेसे कर्ण-कमल श्वेतवर्ण हो जाता था और लज्जासे युक्त ईषद् हास्यरूप चूर्ण-रेणु उसके कपोलयुगलको धूसरवर्ण कर देती थी, इस प्रकार वह मुखमण्डल मोड़-मोड़ कर, अनुरागवश नानाविध भावभङ्गी उत्पन्न होनेके कारण कटाक्ष (तिरछी नजर) से देखती-देखती जब तक सूर्य-प्रकाश मन्द पड़ कर दिवस लाल-लाल दीखने लगा तब तक वह वहाँ खड़ी रही।
उसके बाद कमलोंके जीवितेश्वर और समस्त भूमण्डलके सम्राट् भगवान् सूर्यनारायण अपने हृदय-स्थित
१ ॰॰॰निबिट॰॰॰ । २ ॰॰॰पनित॰॰॰ । ३. मुहुर्मुहुर्विचिलित । ४. सनस्त॰॰॰ । ५. करनला । ६ ॰॰॰कर्णोत्वल॰॰॰ । ७. विलक्ष्यमागस्मितधूलिधूसरकपोलम् ; विलक्षस्मितनुधाधूलिधूसरितैककपोला, विलक्ष्य चास्मितसुधाधूलि॰॰॰ । ८. साचीकृतवदनम्॰॰॰ । ९. भ्रूभङ्गि॰॰॰ । १० ॰॰॰उपसंहृता॰॰॰ ।
[ न्दः सन्ध्यावर्णना-१८ ] चन्द्रकला-विद्योतिनीसहिता । ५८७
चक्रवर्त्तिनि¹ भगवति पूष्णि, क्रमेण च दिनपरिलम्बनरोपरक्ताभिः कामिनीदृष्टिभिरिव संक्र- मितशोणिम्नि व्योम्नि, संहृतशोचिषि जाते जरठ-हारीत-हरित-हये हरितवाजिनि, रवि³-विरह- मीलितसरोज-संहतिषु हरितायमानेषु कमलवनेषु श्वेतायमानेषु कुमुदषण्डेषु⁴ लोहिताय- मानेषु दिङ्मुखेषु, नीलायमाने शर्वरीमुखे, शनैः शनैश्च पुनर्द्दिनश्री-समागमाशा- भिरिवानुरागिणीभिः सहैव दीधितिभिरदर्शनतामुपगते भगवति गभस्तिमालिनि,
अवोचाम, भगवति माहात्म्यवति पूष्णि सूर्यनारायणे स्वस्य हृदयस्थितः चित्ते विद्यमानो यः कमलिनीरागो नलिनीं प्रत्यनुरागः स एव रागो लौहित्यं तेन रज्यमाने आलोहितीक्रियमाणे इव सति।
इह राजीवसूर्ययोः स्त्रीपुंल्लिङ्गाभ्यां नायकनायिकाव्यवहारसमारोपात्समासोक्तिरलङ्कारः, अनुराग-लौहित्ययोर्मेंदेऽपि श्लिष्टेनाभेदारोपादतिशयोक्तिरलङ्कारः, 'रज्यमाने इव' इत्यत्र क्रियोत्प्रेक्षालङ्कारश्च सर्वेषामेतेषामङ्गाङ्गिभावसङ्करः तस्य च पुनश्छेकानुप्रासेन संसृष्टिः।
क्रमेणेति । किञ्च, व्योम्नि नभसि, दिनस्य वासरस्य परिलम्बने परिणामे यो रोषः वृत्तसङ्केतस्यापि कामुकस्यानुपस्थितत्वात् क्रोधः तेन रक्ताभिः शोणिताभिः कामिनीनां रमणीनां दृष्टिभिर्लोचनैः, सङ्क्रमित आसञ्जितः शोणिमा रक्तिमा यत्र तस्मिन्निव विद्यमाने, इहापि रक्तिम्न आसञ्जनोत्प्रेक्षणा-त्क्रियोत्प्रेक्षालङ्कारः ।
संहृतेति । जरठः परिणतवया ( वृद्धः ) यो हारीतः 'हरियाल' इति लोकप्रसिद्धः पक्षिविशेषस्तद्वद् हरिताः पालाशवर्णा नीला इति यावद् हया घोटका यस्य तस्मिन्, हरितवाजिनि हरिद्वर्णतुरङ्गे, सूर्ये, संहृतानि सङ्कोचितानि शोचींषि कान्तयो येन तस्मिन् सति ।
इह 'हारीतहरिते' त्यत्र लुप्तोपमा वृत्त्यनुप्रासश्चेत्युभयोरेकाश्रयानुप्रवेशरूपः सङ्करः। नया जरठेत्या-दिविशेषणस्य मुख्यानुपकारित्वेनापुष्टार्थत्त्वाद्यंतपुनरुक्तयोर्विद्यमानत्वात् परित्याग एव वरमित्यालोच-यन्ति कुशलाः।
रवीति । रविविरहेण सूर्यविरहेणेव मीलिता सङ्कुचिता सरोजसंहतिः पङ्कजसमूहो येषां तेषु तादृशेषु, कमलवनेषु पद्मारण्येषु हरितायमानेषु पङ्कजसङ्कोचनादेव हरिद्वर्णायमानेषु सत्सु।
श्वेतेति । कुमुदानां कैरवाणां पण्डेषु समूहेषु, श्वेतायमानेषु धवलवदाचरमाणेषु प्रस्फुटनादि-त्याशयः। दिङ्मुखेषु दिग्वदनेषु लोहितायमानेषु रक्तायमानेषु सत्सु, सन्ध्यारागादिति भावः। शर्वरीमुखे प्रदोषे नीलायमाने हरितायमाने सति, तिमिरप्रादुर्भावादित्याशयः।
शनैरिति । अपि च, भगवति माहात्म्यवति गभस्तिमालिनि सूर्ये, शनैः शनैः मन्दं मन्दं पुनरपि भूयोऽपि दिनश्रियः वासरलक्ष्म्याः समागमाशाभिः सङ्गमाकाङ्क्षाभिरिव अनुरागिणीभिः आसक्तिमतीभिः रक्ताभिश्च दीधितिभिः रश्मिभिः सहैव अदर्शनताम् अवलोकनाऽभावम् उपगते प्राप्ते सति।
इह सूर्यावासरलक्ष्म्योः स्त्रीपुंल्लिङ्गाभ्यां नायकनायिकाव्यवहारसमारोपात्समासोक्तिरलङ्कारः, 'समागमाशाभिरिव' इत्यत्र पूर्णोपमालङ्कारश्चेत्युभयोरङ्गाङ्गिभावसङ्करः।
कमलिनीके प्रति मन के अनुरागसे ही मानो जब रक्तवर्ण (लाल) होने लगे; क्रमशः दिवसावसानमें सङ्केतकारी नायकके अनुपस्थित होनेके कारण क्रोधसे आरक्तवर्ण (लाल-लाल) कामिनियोंकी दृष्टिसे ही मानो आकाशमें जब रक्तिमा संक्रामित की गई (अर्थात् जब आकाश लाल हो गया); वृद्ध हारीत पक्षीके समान हरित अश्ववाले सूर्य जब अपनी किरणोंको सङ्कुचित (थोड़ी थोड़ी कम) करने लगा; सूर्यके वियोगसे मुद्रित (बन्द) हुए कमलवाले पद्मवन जब हरितवर्ण दीखने लगे; कुमुदवन जब श्वेतवर्ण होने लगे; दिशाओंके मुख जब लाल लाल होने लगे; एवं प्रदोषकाल जब श्यामवर्ण होने लगा; भगवान् सूर्यनारायण, फिरसे दिनलक्ष्मीके साथ सम्मिलनकी आशाके समान राग (उत्कण्ठा, स्नेह) समन्वित किरणोंके साथ जब धीरे धीरे अदृश्य हो गये; कादम्बरी मनके
१. एकचक्रवर्त्तितया चक्रवर्त्तिनि, चक्रवालचित्तवर्त्तिनि।
२. व्योम्निने।
३. हरितवाजि... न्दिति।
४. प्रकटानेतिनोदितमुकुलितारविन्दविलासिवारितसर्वपुरस्कृतगगनवनेव।
५. निमग्नकुट्टनमुच्चलसमालोकनाशया दर्शितमञ्जिष्ठविनेविभोर्मुखेषु धवलायमानेषु कुमुदखण्डेषु।
५८८ कादम्बरी— [ कथायाम्-
तत्कालविजृम्भितेन च कादम्बरीहृदयरागसागरेणेवै आपूरिते सन्ध्यारागेण जीवलोके, कुसुमायुधानलदह्यमानहृदय२सहस्रधूम इव जनितमानिनीनयनवारिणि३ विस्तीर्य्यमाणे तरुणतमालत्विषि तिमिरे, दिक्करि-करावकीर्ण-शीकरासारँ इव श्वेतायमानतारागणे गगने,५ जातायाञ्चादर्शनक्षमायां वेलायां सौधशिखरादवततार कादम्बरी, क्रीडापर्वतनितम्बाच्च चन्द्रापीडः ।
ततोऽचिरादिवै गृहीतपादः प्रसाद्यमान इव कुमुदिनीभिः, कलुषमुखीः कुपिता इव
तत्कालेति । अपि च, तत्काले तस्मिन् समये विजृम्भितेन प्रसूतेन, कादम्बर्या हृदयस्य चेतसः रागसागरेणेव चन्द्रापीडं प्रत्यनुरागसमुद्रेणेव सन्ध्यारागेण, जीवलोके संसारे आपूरिते सति । इह 'हृदयरागसागरेणेव' इत्यत्र निरङ्गकेवलंरूपकं श्रौतोपमा चेत्युभयोरेकाश्रयानुप्रवेशसङ्करः ।
कुसुमेति । कुसुमायुधः काम एव अनलो वह्निः तेन दह्यमानं ज्वाल्यमानं यत् हृदयसहस्रं वियोगिजनचेतःसमूहः तस्य धूमे बाष्प इव, जनितानि स्वामिवियोगादुत्पादितानि मानिनीनां मानवतीनां रमणीनां नयनवारीणि नेत्रजलानि ( अश्रूणि ) येन यस्मिन्, तथा तरुणतमालस्येव अभिनवतापिज्छवृक्षस्येव विट् कान्तिर्यस्य तस्मिन्, तिमिरे अन्धकारे विस्तीर्यमाणे विस्तारं प्राप्यमाणे सति ।
इह 'कुसुमायुधानल' इत्यत्र निरङ्गकेवलंरूपकम्, 'धूम इव' इत्यत्र जात्युत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः । अस्य पुनः 'तरुणतमालत्विषि' इत्यत्र विद्यमानया लुप्तोपमया संसृष्टिः ।
दिगिति । गगने आकाशे, दिक्करिभिर्दिग्गजैः करैः शुण्डादण्डैः विक्षीर्णा विक्षिप्तः शीकरासारः अम्बुकणधारा यत्र तस्मिञ्श्च श्वेतायमानः श्वेतवदाचरमाणः तारागणो नक्षत्रमण्डलं यस्मिन् तथोक्ते सति अम्बुकणधारानक्षत्रमण्डलयोः साम्यादित्याशयः ।
जातायामिति । किञ्च, अदर्शनक्षमायाम् अन्योन्यावलोकनायोग्यायां वेलायां काले जातायाम् उत्पन्नायाम्, सौधशिखरात् प्रासादशृङ्गात् कादम्बरी, क्रीडापर्वतनितम्बाच्च क्रीडागिरिपश्चाद्भागाच्च चन्द्रापीडः अवततार इत्यन्वयः ।
तत इति । ततस्तदनन्तरम्, कुमुदिनीभिः कैरविणीभिः, गृहीतो घृतः पादो रश्मिश्चरणश्च यस्य सः प्रसाद्यमानः प्रसन्नीक्रियमाण इव सन् सुधासूतिश्चन्द्रमाः अचिरात् अल्पकालेनैव उद्गात् उदयं प्राप्तवान् इत्युत्तरेण सम्बन्धः । इह कुमुदिनीति सुधासूतिरिति पुंल्लिङ्गाभ्यां च पादप्रसादनरूपकार्येण च कुमुदिनीषु मानिनीव्यवहारसमारोपात् श्लेषानुप्रणिता समासोक्तिः, प्रसाद्यमान इव' इत्यत्र क्रियोत्प्रेक्षा चेत्युभयोरेकाश्रयानुप्रवेशसङ्करः ।
कलुषेति । कलुषाणि अन्धकारावच्छन्नानि क्रोधेन मलिनानि च मुखानि अग्रभागाः वदनानि च यासां ताः, कुपिता इव क्रुद्धा इव आशा दिशः प्रसादयन् ज्योत्स्नाभिः श्वेतीकुर्वन् शान्तयंश्च । इहापि प्राग्वदलङ्कारः ।
अनुरागसागरके समान तत्काल वृद्धि हुए सन्ध्या-राग से जब समस्त भुवन परिपूर्ण हो गया, कामानलमें जलते हजारों विरहियोंके हृदयोंमेंसे निकलते धूमके समान—मानिनियोंके नयनोंमेंसे अश्रुधारा उत्पन्न करता—नूतन तमालवृक्षके समान रंगका अन्धकार जब सर्वत्र विस्तृत होने लगा; दिग्गजोंके शुण्ड (सूँड़) द्वारा विक्षिप्त (छिड़के) हुए मानो जल-कणके समान तारागणसे जब आकाश श्वेतवर्ण दीखने लगा और अन्धकार उपस्थित हो जानेके कारण परस्पर दीख नहीं पड़ने का समय उपस्थित हुआ, तब कादम्बरी अट्टालिका (महल) के शिखर परसे नीचे उतरी और क्रीडा-पर्वत के शिखर पर से चन्द्रापीड भी उतरा ।
उसके बाद अचिरकालमध्यमें ही पाद (किरण, चरण) ग्रहण करके कुमुदिनियाँ जिनको प्रसन्न करतीं
१ ॰रागरससागरेणेव । २ ॰चक्रवाकहृदय ॰॰ । ३ ॰॰ नयनातारावारिणि । ४ ॰॰ आकीर्ण ॰॰॰ । ५. गगने ऋते । ६ नचिरादिव ।
[ पूर्व. सम्पादनम् १८ ] चन्द्रकला-विद्योतिनी-सहिता । २८६
प्रसाददधत्प्रसन्नम्, अचिरवाताङ्कुश्चेव परिहरन् सुप्तदुःखमलिनीम्, लाञ्छनच्छलेन निशामिव हृद- येन समुद्वहन्, रोहिणीचरणताडनलग्ननलककस्तूरिकालोहित्यमिव दधानम्, तिमिरनीलाम्बरां दिग्वधूभिरभिसारिकामिवोपसर्य्यम् अतिवल्लभतया विकिरन्निव सौमनस्यम्, उद्यद्गगनाङ्गणमङ्गल- स्तम्भं । वलिंक्षते च कुसुमायुधसाम्राज्यैकातपत्रे कुमुदिनीवधूबरे विभावरीविलासदन्तपत्रे श्वेतभानौ धवलितदिशि, दन्तिदन्तावलोकीर्ण सुवने, चन्द्रापीडवपुषाऽन्तरङ्गेणेवानिरन्तरमिव
प्रसादेति । प्रसादे चान्तरङ्गं तस्य वपुश्शूरेव आतङ्केनैव, सुप्ता सुष्ठुतिया निद्रिताश्च कमलिनीः नलिनीः पद्मलक्ष्मीश्च परिहरन् परिवर्जयन् । इह लिङ्गेन कार्येण च शङ्किते इत्युक्तमुग्धव्यवहारसमारोपाद्रूपेणानुप्रविष्टा समासोक्तिः तथा 'अचिरवातङ्कुश्चेव' इत्यत्र सुप्तोत्थेन वायुभ्रमेणेति नावदोषप्रसङ्गः ।
लाञ्छनेति । लाञ्छनच्छलेन कलङ्कमिषेण हृदयेन चेतसा निशां रात्रिम् उद्वहन्निव धारयन्निव । इह ससङ्कल्पा क्रियोत्प्रेक्षा ।
रोहिणीति । रोहिण्या निजपत्न्या चरणताडनेन रतिकलहे पादप्रहारेण लग्नं सक्तम् अलक्तकरसमिव यावकद्रवमिव वपुषरागम् वपुषःकान्तेर्लोहित्यं दधानो धारयन् । इह 'अलक्तकरसमिव' इति वस्तुत्प्रेक्षा ।
तिमिरोति । अभिसारिकां पूर्वदर्शितस्वरूपां कामिनीमिव, तिमिरेण अन्धकारेण नीलं हरितम् अम्बरं गगनं दिग्वधोधरं गगनैकदेश इत्यर्थः यत्र ताम्, पक्षान्तरे तु तिमिरवन्नीलम् अम्बरं वस्त्रं यस्यास्ताम्, दिग्वंगताम् उपसपर्य्यम् अभिसरन् । इह पूर्णोपमा ।
अतिवल्लभतयेति । अतिवल्लभतया जनानां नितान्तप्रियतया सौमनस्यं हेतुं स्नेहं विकिरन्निव विक्षिपन्निव । इह क्रियोत्प्रेक्षा ।
उद्यदिति । ईदृशोऽब्जदः लोचनमनोहरेदित्यर्थः । सुखाया बभूवस्य सुवित्यद्गवे यस्माद स मुख सुशित्सन्द्र वपुषाऽद ददर्शाभूत्त्वान् ।
इह हेतोः सुख सुखेः कार्येणानुप्रविष्टेन सह तादात्म्येन प्रतिपादनाद् हेतुर्नामालङ्कारः ।
वविक्षत इति । अपि च, कुसुमायुधस्य कामस्य यद् अधिराज्यं साम्राज्यं तस्य एकम् अद्वितीयम् आतपत्रं छत्रस्तस्मिंस्तस्मिन् । कुमुदिनी कैरविण्येव वधूः तस्या वरे स्वामिनि । विभावर्या रजन्या विलासाय विश्रमाय दन्तपत्रं गजादन्तरचितशोभनकुण्डलस्तस्मन् तस्मिन् । धवलिता रजनिकरश्वेतीकृता दिशो गगना येन तस्मिन् । श्वेतभानौ चन्द्रमसि वविक्षते उपस्थिते सति ।
इह 'कुसुमायुधाधिराज्यैकातपत्रे' इत्यत्र श्वेतभानौ अधिपतित्वच्छत्रत्वारोपः शब्दः कृते राज्यवाशेषत्वार्थे इत्येकदेशविवर्त्तिरूपकमलङ्कारः । एवं विभावरीविलासदन्तपत्रे' इत्यत्रापि श्वेतभानौ दन्तपत्रत्वारोपः शब्दाः विभावर्या दिक् विलासित्वारोपस्त्वार्थ इत्युभयत्रापि एवम् । 'कुमुदिनी वधूबरे' इत्यत्र तु परम्परितरूपकमलङ्कारः ।
दन्तीति । भुवने विष्टपे दन्तिदन्ताद् गजदन्तात् वल्कीर्णे त्वं निस्त्वदय रचित इव सति, शशिकिरणैः श्वेतत्वापादनादन्यः इह क्रियोत्प्रेक्षा ।
चन्द्रेति । चन्द्रातपेन चन्द्रालोकेन निरन्तरतया सान्द्रतया समन्तात् व्याप्ततयेत्यर्थः, कुमुदलक्ष्म्या
र्थः निर्मल-युक्त होनेसे द्युतिके सुभग दीप्तिको दिक्खोंके हो जाने प्रसन्न करता था; जो अभी-अभी वायुउठे ही जागे हुए कमलिनीयोंको छोड़ता जाता था; कलङ्कके बहाने जो मानो सञ्चमुच रात्रिको ही अपने हृदयमें धारण करता था; रोहिणीदेवीके चरण-प्रहारके समय उनमें लगी हुई लाक्षा (महावर) के रसके समान वपुषरागकी रक्तिमाको संयुक्त; जो अभिसारिका नायिकाके समान अन्धकारसे नीलरूप आकाशरूपीदिशा (दूसरे पक्षमें-अन्धकारयुक्त नील-वस्त्रवालोदिशा) नायिकाके समीप जाता था; और लोगोंके अत्यन्त प्रिय होनेके कारण सबके प्रति मानो प्रीतिदर्शन करता था; ऐसा गगनमण्डलरूपी मङ्गलप्रद चन्द्रमा उदय हुआ। कामदेवका मदनसाम्राज्यके अद्वितीय छत्र, कुमुदिनी-नारोके बहुमूल्य प्रिय रजनिरूप-दिशाके विलासके गजदन्तनामक वे मण्ड, समग्र दिशाओंको श्वेतवर्ण कर आच्छादके और सम्पूर्ण भुवन मानो गजदन्त (हाथी दाँत) में से चूर्णित किया हो इस प्रकार दीखने लगा, तब जिसकी मुखके समान शुक्लता मोहिनी वपुषके अन्तरङ्गरूप से प्रस्फुटित होती (फैली जाती)
१. नीलरससङ्गमम् । २. इदिति वा । ३. वविक्षे 'इति' पदं नोपलभ्यते ।
५६० कादम्बरी- [ कथायाम् ]
कुमुदमय्या इव¹ गृहकुमुदिन्याः कल्लोल-धौते² सुधा-धवल-सोपाने तनु-तरङ्ग-तालवृन्त-वात-वाहिनि सुप्तहंसमिथुने, विरह-वाचाल³-चक्रवाक-युगले तीरे, कुमुद्दलावलीभिः पर्यन्तलिखित-दन्तपत्र-लतां⁴, अवदातसिन्दुवारदामोपहारम्, हरिचन्दनरसैः प्रक्षालितम्, कादम्बरीपरि-जनोपदिष्टम्, मुक्ताशिलापट्टं चन्द्रशीतलमधिशिश्ये । तत्रस्थस्य चास्यागत्याकथयत् केयू-रकः—'देवी कादम्बरी देवं द्रष्टुमागता' इति । .. अथ चन्द्रापीडः ससम्भ्रममुत्थायागच्छन्तीम्, अल्पसखीजनपरिवृताम्, अपनीता-शेषराजचिह्नाम्, इतरामिव, एकावलीमात्राभररणाम्, अच्छाच्छेन चन्दनरसेन धवलीकृत-तनुलताम्, एककर्णावसक्तदन्तपत्राम्, इन्दुकलाकलिकाकोमलं कर्णपूरीकृतं कुमुद्दलं दधा-
इव क्वचित् क्वचित् कुमुदाया अपि कुमुदैः कैरवैः पूर्णाया भृताया इव, विरलकुमुदापि गृहकुमुदिनी ( सरसी ) चन्द्रातपन्यासत्या कुमुदमयी जाता चन्द्रालोकस्यैव कुमुदस्थाने जायमानत्वादित्याशयः । गृहकुमुदिन्या भवनसमीपकैरवयुक्तसरसः 'तीरे' इत्यन्वयः, कल्लोलैः तस्या एव बृहत्तरङ्गैः धौतानि निर्मलीकृतानि सुधाधवलानि गृहश्वेतीकरणचूर्णद्रव्येण श्वेतानि सोपानानि यत्र तस्मिन् । तनवः सूक्ष्माः तरङ्गाः कल्लोला एव तालवृन्तानि व्यजनानि तेषां वातं पवनं वहति दधातीति तस्मिन् । सुप्तानि निद्रि-तानि हंसमिथुनानि कादम्बयुगलानि यत्र तस्मिन् । तथा विरहेण रजनीवशादन्योन्यविश्लेषेण वाचा-लानि विषादध्वनिना शब्दायमानानि चक्रवाकानां रथाङ्गानां युगानि मिथुनानि यस्मिन् तन्न तीरे तटे ।
इह 'पूर्णाया इव' इत्यत्र क्रियोत्प्रेक्षा । 'तनुतरङ्गतालवृन्ते' त्यत्र निरङ्गकेवलंरूपकम् ।
कुमुदेति । कुमुदानां कैरवाणां दलानि पत्राणि तेषाम् आवलीभिः पङ्क्तिभिः पर्यन्तेषु प्रान्तभागेषु लिखिता लिपिकृता दन्तपत्रलता लतावह्वम्यमानपत्रावल्यो यस्य तम् । अवदातानि धवलानि सिन्दुवा-रकुसुमानां निर्गुण्डीपुष्पाणां दामानि माल्यानि उपहारशोभातिशयाय सर्वतः स्थापितानि यस्य तम् । हरिचन्दनरसैः श्वेतमलयजसलिलैः प्रक्षालितं निर्मलीकृतम् । कादम्बरीपरिजनेपदिष्टं कादम्बरीपरिचारि-काप्रदर्शितं चन्द्रवत् शीतलं शिशिरम् । मुक्तावत् रसोद्भववत् शिलापट्टः पाषाणखण्डस्तं श्वेतमेकं शिला-पट्टमित्यर्थः अधिशिश्येऽवलम्ब्य शयनं चकार ।
तत्रेति । अस्य चन्द्रापीडस्य निकटे । देवं भवन्तं द्रष्टुम् अवलोकयितुम् आगता आयाता ।
अथेति । ससम्भ्रमं सत्वरम् । अल्पसखीजनपरिवृतां स्तोकसहचरीगणपरिवेष्टिताम् । अपनीतानि दूरीकृतानि अशेषाणि समग्राणि राजचिह्नानि तदुपयुक्तवेषाभूषणच्छत्रचामरप्रभृतीनि यया ताम्, अतएव इतरामिव अन्यामिवान्लोक्यमानाम्, एकावलीमात्रं केवलैकपङ्क्तिकहाराभूषणं यस्यास्ताम् । अच्छाच्छेन अत्यन्तनिर्मलेन चन्दनरसेन मलयजद्रवेण धवलीकृततनुलतां श्वेतीकृतशरीरवल्लीम् । एक-स्मिन् कर्णे श्रवणे अवसक्तं लग्नं दन्तपत्रं हस्तिदशनरचितपत्रसदृशभूषणं यस्यास्ताम् । इन्दुकलैव शशिकलेव कलिका यद्वत् इन्दुकला च कलिका कुड्मलं च तद्वत् कोमलं मृदुलम् । कर्णपूरीकृतं श्रवणा-
थी, छोटी-छोटी तरङ्गरूपी तालवृन्त ( पंखों ) की जहाँ हवा बहती थी, बहुतहंसदम्पति ( हंसके जोड़े ) जहाँ शयन करते थे और परस्पर वियोगवश चक्रवाकदम्पतिगण जहाँ शब्द कर रहे थे, जो चन्द्रिकाके निरन्तर पड़नेसे मानो कुमुदमय दीखता था, ऐसे गृह के समीपवर्त्ती कुमुदपूर्ण सरोवर तीर ( किनारे ) पर चन्द्रापीड, कादम्बरीके परिजनों के द्वारा निर्देश किए गए, मुक्ता के समान शुभ्रवर्ण चन्द्रके समान शीतल एक शिलातल पर शयन किय ( लेटा ) । इस सिलातलके चारों ओर श्वेतोत्पलदलसमूहद्वारा पत्रलता निर्मित थी, श्वेतवर्ण सिन्धुवार पुष्पकी मालाएँ शोभाके लिए चारों ओर लटकाई गई थी, और श्वेतचन्दनके जलसे उसे धोकर स्वच्छ किया गया था, वहाँ वह शयन करता ही था कि इतनेमें केयूरकने आकर कहा-'देवी कादम्बरी आपको देखने आई हैं।'
उसके बाद चन्द्रापीड शीघ्रतासे उठा और उसने अल्प सखियोंसे परिवेष्टित कादम्बरीको, मदलेखाका हाथ पकडे आती हुई देखा । समस्त राजचिह्नोंका उसने परित्याग कर दिया था, उससे वह साधारण स्त्रीके समान देखनेमें आती थी, केवल लटका हार पहन रखी थी, अत्यन्त निर्मल चन्दनके लेपसे कोमल शरीरको-शुभ्रवर्णकर रखी थी, एक कानमें दन्त-पत्र पहनी थी, दूसरे कानमें चन्द्रकला और पुष्पकलिकाके समान कोमल
१. कुमुद इव । २. धूत । ३. वाचालित ···· । ४ ···· लतादन्तुरम् ।
चन्द्रापीडालापवर्णना-१९ ] चन्द्रकला-विद्योतिनीसहिता । ५६१
नाम्; ज्योत्स्नाशुचिनी कल्पद्रुमहुकूले बिभ्रतीम्, तत्कालारमणीयेन वेषेण साक्षादिव चन्द्रो- दयदेवताम्, मदलेखया दत्तहस्तावलम्बां कादम्बरीमपश्यत् । आगत्य च सा प्रीतिपेशलतां दर्शयन्ती प्राकृतेव परिजनोचिते भूतले समुपान्विशन् । चन्द्रापीडोऽपि 'कुमार ! अध्यास्यतां शिलातलमेव' इत्यसकृदनुबध्यमानोऽपि मदलेखया भूमिमेवाभजत ।
अथ सर्वासु चासीनासु तासु मुहूर्तभिव स्थित्वा वक्तमुपचक्रमे चन्द्रापीडः- 'देवि ! दृष्टिपातमात्रप्रीते दासजने सम्भाषणादिकस्यापि प्रसादस्य नास्त्यवकाशः, किमुतैतावतोऽनु- ग्रहस्य । न खलु चिन्तयन्नपि निपुणं तमात्मनो गुणलवमवलोकयामि, यस्यायमनुरूपोऽनुग्र- हातिरेकः । अतिसरला तवेयमपगताभिमानमधुरा च सुजनता, यदभिनवसेवकजनेऽप्येव- मनुरुध्यते । प्रायेण मामुपचारहार्यमदक्षिण देवी मन्यते । धन्यः खलु परिजनस्ते, यस्यो-
लङ्कारीकृतं कुमुददलं कैरवपत्रं दधानां धारयन्तीम् । ज्योत्स्ना चन्द्रिका तद्वद् शुचिनी श्वेतवर्णे, कल्प- द्रुमहुकूले मन्दारवृक्षोत्पन्नसूक्ष्मवस्त्रद्वन्द्वम्, बिभ्रतीं दधतीम् । तत्कालारमणीयेन तत्समयमनोहरेण वेषेण नेपथ्येन साक्षात् प्रत्यक्षगतां चन्द्रोदयदेवतामिव शरद्युद्वनदेवतामिव । दत्तः अर्पितः हस्तावलम्बो निज- करावलम्बनं यस्यास्ताम् ।
इह 'इन्दुकलाकलिका' इत्यत्र किं रूपकं किं वोपमेति सन्देहालङ्कारः । 'इतरामिव' 'चन्द्रोदयदे- वतामिव' इत्युभयत्र जात्युत्प्रेक्षालङ्कारः ।
आगत्येति । प्रीतेः स्नेहस्य पेशलतां सौन्दर्यम् । प्राकृतेव सामान्ययोषिदिव दर्शयन्ती प्रकटयन्ती परिजनोचिते सेवकजनयोग्ये । समुपान्विशत् समुपविष्टवान् । अध्यास्यताम् अधिष्ठीयताम् । असकृद् वारंवारम् अनुबध्यमानोऽपि अनुरूध्यमानोऽपि । भूमिमेव पृथिवीमेव अभजत आश्रितवान्, पृथिव्या- मेवोपविष्टवानिति । तात्पर्यम् ।
अथेति । आसीनासु उपविष्टासु । उपचक्रमे उपक्रमं कृतवान् । दृष्टिपातमात्रप्रीते केवलावलोकने- नैव प्रसन्ने दासजने सेवकजने मयीति शेषः । सम्भाषणादिकस्यापि मधुरालापादिकस्यापि प्रसादस्य अनुग्रहस्य अवकाशः अवसरो नास्ति न विद्यते । एतावतः मधुरालापाद्यागमनपर्यन्तस्य । निपुणं सवि- शेषं यथा स्यात्तथा चिन्तयन्नपि विचारयन्नपि, आत्मनः स्वस्य तं गुणलवं गुणलेशं खलु निश्चयेन न अवलोकयामि न पश्यामि । यस्य गुणलवस्य । अनुरूपो योग्यः अनुग्रहातिरेकः प्रसादोत्कर्षः ।
अतीति । तव भवत इयं प्रत्यक्षतो दृश्यमाना सुजनता सौजन्यम्, अतिसरला छलादिरहिता, अपगतो दूरीभूतः अभिमानोऽहङ्कारो यस्याः सा चासौ अतएव मधुरा मनोहरा चेति । अत्र हेतुं दर्श- यति-यदिर्ति । यद् यस्मात् कारणात् अभिनवे नूतने सेवकजनेऽपि भृत्यजनेऽपि एवम् अनेन प्रकारेण अनुरुध्यते प्रीत्युपचारः क्रियते सा सुजनतेत्यर्थः । अवहेलनास्थानेऽपि दर्शितायाः सुजनताया माधुर्यं भवेदेवेत्याशयः ।
प्रायेणेति । देवी कादम्बरी, मां चन्द्रापीडम् उपचारेण मधुरालापादिबाह्याचारेण हार्यम् आयत्ती- कर्तुं योग्यम्, अतएव अदक्षिणम् अनुदारस्वभावम् अनुग्रहमिति तात्पर्यम् मन्यते जानाति अन्यथैवं
एक कुमुददल धारण कर रखी थी, ज्योत्स्नाके समान शुभ्रवर्ण कल्पवृक्षके वस्त्रन दाः सूक्ष्मवस्त्र पहन रखे थे। उस समयमें मनोहर लगते वेषसे साक्षात् चन्द्रोदय-देवताके समान आकर स्नेहका सौन्दर्य दिखाती परिजनों के योग्य भूतल पर, सामान्य स्त्रीके समान वह बैठ गई, यह देखकर-'राजकुमार आप शिलातलके ऊपर ही बैठे रहिये'-इस प्रकार मदलेखा द्वारा बारंबार अनुरोध करने पर भी, चन्द्रापीड भूमि पर ही बैठा ।
इसके बाद सब कन्याओंके बैठ जाने पर मानो क्षण भर ठहर कर वह कहनेके लिए आरम्भ किया-देवि ! केवल दृष्टिपात करने पर ही जो व्यक्ति सन्तुष्ट हो जाता है, उस दासके प्रति सम्भाषणादि अनुग्रहका भी प्रयोजन नहीं है, अतएव ऐसे बड़े अनुग्रहका तो कहना ही क्या है। विशेष सूक्ष्म विचार करने पर भी मैं अपनेमें ऐसा गुणलेश भी नहीं देखता जो ऐसे महान् अनुग्रहके अनुरूप हो । आपकी यह सुजनता अत्यन्त सरल और अभिमान-रहित होनेके कारण मधुर है, अत एव यह अभिनव सेवक के प्रति भी इस प्रकार से उपस्थित हुई है ।
१. प्राकृते । २. कचित् 'अथ' इति न विद्यते । ३. क्वचिच 'तासु' इत्यपि नोपलभ्यते । ४. दृष्टिमात्रप्रीते । ५. क्वचिदिह 'न'कारोऽधिको दृश्यते ।
| ५६२ | कादम्बरी- | [ कथायाम्- |
|---|
परि नियन्त्रणा स्यात्। आज्ञासंविभागकरणोचिते भृत्यजने क इवादरः परोपकारोपकरणं शरीरम्१, तृण-लव-लघु च जीवितमपत्रपे२ त्वत्प्रतिपत्तिभिरुपायनीकर्तुमागतायास्ते। वयमेते शरीरमिदमेतज्जीवितनेतानीन्द्रियाणि, एतेषामन्यतरदारोप्य३ परिग्रहेण गरीयस्त्वम्' इति।
अथैवंवादिनोऽस्य वचनमाक्षिप्य मद्रेखा सस्मितमवादीत्—'कुमार! भवतु, अति-यन्त्रणया खिद्यते खलु सखी कादम्बरी४, किमर्थञ्चैवमुच्यते, सर्वमिदमनतरेणापि वचन-
मधुरालापादिबाह्यव्यवहाराय नोद्येोगं कुर्वीतेत्याशयः। अनेनाहमुदारस्वभावाधीनत्वाद् युष्माकं गुणेनैवा-धीनीभूतोऽस्मीति ध्वन्यते।
धन्य इति। धन्यः कृतपुण्यः। नियन्त्रणा कठिनकार्यभारदानेन यातना। तथाविधदुष्करकार्यभा-रार्पणाभावादहमधन्य इत्याशयः।
आज्ञेति। आज्ञाया आदेशस्य संविभागकरणे सम्यक् पृथक्कृत्यार्पणे उचितो योग्यः तस्मिन्, भृत्य-जने सेवकजने क इव आदरो बहुमानः, अपि तु न कोऽपीत्यर्थः। अतएव मम मधुरालापायागमनस्य किमपि फलं नाभूदित्याशयः।
परोपकारेति। आगताया इहायातायाः ते तव निकटे, त्वत्प्रतिपत्तिभिः स्वां .प्रति भक्तिभिः, परोप-कारस्य अन्योपकृतेः उपकरणं साधनम् इदं शरीरं वपुः, तथा तृणस्य लववत् लेशवत् लघु अल्पम् इदं जीवितं जीवनं च, उपायनीकर्तुम् उपहाररूपेणार्पयितुम् अहम् अपत्रपे लज्जे—
'अष्टादशपुराणेषु व्यासस्य वचनद्वयम्। परोपकारः पुण्याय पापाय परपीडनम्॥' परोपकरणं कायादसारात्सारमाहरेत्।
इत्याद्यभियुक्तोक्तिदिशा देहस्य स्वभावत एव यस्य कस्याप्यन्योपकारकरणत्वेन भवति विशेषा-भावात् जीवितस्य च तृणलवलघुत्वेन तुच्छतया तदर्पणेन गौरवप्रकटनाभावादित्याशयः।
वयमिति। एते वयम्, इदं शरीरम्, एतज्जीवितम्, एतानि इन्द्रियाणि, परिग्रहेण उपादानेन एतेषां मध्ये अन्यतरत् एकतमदित्यर्थः। गरीयस्त्वम् अत्यन्तगौरवम् आरोप्य स्थापय। वयमित्यत्र 'अस्मदो द्वयोश्च' (पा०) बहुवचनम्। बहूनां मध्ये कस्यचिदेकस्य निर्धारणे ततमच् प्रत्ययस्यैव 'वा बहूनां जातिपरिप्रश्ने डतमच्' इति (पा०) सूत्रेण विधानात् 'अन्यतरत्' इत्यत्रोक्तार्थे डतरच् प्रत्ययः कथं तस्य द्वयोर्निर्धारण एव विधानादिति चेत्? बहूनां मध्ये निर्धारणेऽपि क्वापि डतरच् प्रत्ययो भवतीत्यवगमात्।
अथेति। अस्य चन्द्रापीडस्य। आक्षिप्य निराकृत्य। अतियन्त्रणया नितान्तप्रशंसावादयात नया खिद्यते। खेदं प्राप्नोति, स्वस्मिन् तथाविद्योत्कर्षाभावेनोपहासावगमादित्याशयः। किमर्थं कस्मै प्रयोज-नाय । उच्यते कथ्यते। इदं वचनमन्तरेणापि त्वयाभिहितं 'वयमेते' इत्यादिवाक्यं विनापि अनया कादम्बर्या परिगृहीतम् आत्ममिति परिहसितम्, अथ च स्वामित्वेन हृदयेन भवन्तं स्वीकृतमिति
सम्भवतः आप मुझको ऐसा अनुदार स्वभाव समझती होंगी जो बाहरके व्यवहार से ही प्रसन्न हो जाय। आपका परिजनवर्ग ही धन्य है, जिसके ऊपर आपका आज्ञा-प्रयोग होता रहता है। पृथक् पृथक् भावसे आज्ञा करनेके योग्य सेवक-जनके प्रति इतना आदर कैसा? यह शरीर तो स्वभावतः ही परोपकार करनेके लिए है और जीवन भी तृण-बिन्दुके समान तुच्छ है। अतः एव आपके प्रति भक्तिवश उस शरीर ओर जीवनको यहाँ आए हुए आपको उपहार देने (अर्पण करने) में मैं लज्जित होता हूँ। 'तो भी यह मैं हूँ, यह शरीर है, यह जीवन है, ये इन्द्रियाँ हैं—इन सबों के मध्यमें जो आपको अच्छा लगे उसको ग्रहण करके अत्यन्त गौरवान्वित कीजिए।'
चन्द्रापीड इस प्रकार कह ही रहा था कि, इतनेमें मदलेखाने उसके वाक्यमें बाधा देकर (बात काटकर) जरा हँसते-हँसते कहा—'राजपुत्र! बस, अपना अत्यन्त स्तुति-पाठ रहने दीजिए, इससे मेरी सखी कादम्बरीको ग्लानि होती है। आप क्यों इस प्रकार कह रहे हैं; आपके कहे बिना भी ये सब वाक्य उसने स्वीकार कर लिया
१. शरीरकम्। २. अपि इदं नव प्रतिपत्तावुपायनीकर्तुम्, अत्र दे, तव [त्व ] प्रतिपत्तिभिरपाय-नीकर्तुमागतास्ते। ३. अन्यतरमारोप्य। ४. सखीहा कादम्बरी।
मदलेखाचन्द्रापीडयोरालाप० १०० ] चन्द्रकला-विद्योतिनीसहिता । ५६३
मनया परिगृहीतम् , किं पुनरमुनोपचारफल्गुना वचसा सन्देहदोलामारोप्यते' इति । स्थित्वा च कञ्चित् कालं कृतप्रस्तावा 'कथं राजा तारापीडः, कथं देवी विलासवती, कथमार्यः शुक-नासः, कीदृशी चोज्जयिनी, कियत्यध्वनि सा च, कीदृग् भारतं वर्षम् , रमणीयो वा मर्त्य-लोकः' इत्यशेषं पप्रच्छ । एवंविधाभिश्चान्याभिः कथाभिः सुचिरं स्थित्वोत्थाय कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं समादिश्य परिजनञ्च, शयनसौधशिखरमारुरोह । तत्र च सितदुकूलवितानतलास्तीर्णं शयनीयमलञ्चकार । चन्द्रापीडोऽपि तस्मिन्नेव शिलातले निर-भिमाननामभिरूपतामतिगम्भीरताञ्च कादम्बर्याः, निष्कारणवत्सलताञ्च महाश्वेतायाः सुज-नताञ्च मदलेखायाः, महानुभावताञ्च परिजनस्य, अतिसमृद्धिञ्च गन्धर्वराजलोकस्य रम्यताञ्च किम्पुरुषदेशस्य मनसा भावयन् केयूरकेण संवाह्यमानचरणः क्षणादिव क्षणदां 'क्षपितवान् ।
अथ क्रमेण कादम्बरीदर्शन'-प्रजागरखिन्नः स्वप्तुमिव ताल-तमाल-ताली-कदलीकन्द-
व्यञ्जितम् । अतएव उपचारं बाह्यव्यवहारं फल्गुना निस्तत्त्वेन व्यर्थेनेत्यर्थः 'अमुना वयम्' इत्यादिद्वचसा किं पुनः सन्देहदोलामारोप्यते कादम्बरी संशयविह्वला विधीयते । निर्णीतकृतविषये भूयो निर्णयेन सन्देहोद्गमस्य स्वतः सिद्धत्वादित्याशयः ।
स्थितेति । कृतप्रस्तावा प्रश्नेच्छायां गृहीतावसरा मदलेखा । कथं कीदृशः, तारापीडः तव तातः कीदृशी किम्स्वरूपा उज्जयिनी विशाला । सा उज्जयिनी कियत्यध्वनि अस्माद्देशात् कियददूर इत्यर्थः । रमणीयो मनोहरः । मर्त्यलोको मनुष्यलोक इति एवं प्रकारेण अशेषं समग्रं पप्रच्छ पृष्टवती ।
एवमिति । कथाभिर्वाताभिः सुचिरं बहुकालं स्थित्वा अवस्थाय । चन्द्रापीडस्य समीपशायिनं निकटे शयनं विधातुमित्यर्थः । परिजनं परिचारकवर्गं च समादिश्य सेवितुम् आज्ञाप्येति सम्बन्धः । शयनसौधं स्वापोचितप्रासादस्य शिखरम् उपरितलम् आरुरोह आरूढवती ।
तत्रेति । तत्र तस्मिन् सौधतले, सितं धवलं यद् दुकूलस्य क्षौमवस्त्रस्य वितानं चन्द्रातपः तस्य तले अधोभागे आस्तीर्णं पातितं शयनीयं तल्पम् अलञ्चकार शयनेन अलङ्कृतवती । चन्द्रापीडोऽपि । निरभि-मानतां निरहङ्कारत्वम् अभिरूपतां सौन्दर्यम्, अतिगम्भीरताम् अत्यन्तदुर्ज्ञेयस्वभावताम् । निष्कारणव-त्सलतां निर्हेतुकहितकारिताम् । सुजनतां सौजन्यम् । महानुभावताम् उदारस्वभावताम् । अतिसमृद्धिं विपुलसम्पत्तिम् । रम्यतां मनोहरताम् । संवाह्यमानौ स्वाङ्के आदाय सेवमानौ चरणौ पादौ यस्य सः । क्षणदां रात्रिं क्षपितवान् अतिवाहितवान् ।
अथेति । कादम्बर्या दर्शनेन निरीक्षणेन यः प्रजागरो मदनौत्सुक्येन जागरणं तेन खिन्नः क्लान्तः तारानतिस्तन्द्रः स्वप्तुं निद्रां विधातुमिव, तालस्तालवृक्षः, तमाळस्तापिच्छः, ताली वृक्षविशेषः, कदली
हैं, अतः इस बाहर के व्यवहारयोग्य निरर्थक वाक्यसे क्यों इसे सशयाकुल करते हैं।' इतना कहनेके अनन्तर थोड़ी देर ठहरकर जिज्ञासा करनेका अवसर ग्रहण कर ? उसने पूछा—'महाराज तारापीड कैसे हैं ? महारानी विलासवती कैसी हैं ? माननीय शुकनास कैसे हैं ? उज्जयिनी कैसी है ? यहाँसे वह कितनी दूर होगी ? भारतवर्ष कैसा है ? और मर्त्यलोक रमणीय है या नहीं ? इस प्रकार बहुत देर तक अन्यान्य प्रकारसे कथा-वार्ता होनेके पश्चात् कादम्बरी उठी और चन्द्रापीडके निकट शयन करनेवाले केयूरक और अन्य परिजनोंको परिचर्या करनेके लिए आज्ञा देकर अपने शयन अट्टालिका (महल) के ऊपर शिखर (ऊपरके तल) पर चढ़ गयी । वहाँ जाकर शुभ्रवर्ण पट्टवस्त्र-निर्मित चन्द्रातप (चाँदोवे) के नीचे बिछी हुए शय्या पर शयन कर उसको अलङ्कृत की । चन्द्रापीड भी उसी शिलातल पर रहकर, कादम्बरीकी निरहङ्कारता, सौन्दर्य और गाम्भीर्य, महाश्वेताका निष्कारण वात्सल्य, मदलेखाका सौजन्य, परिजनवर्गोंका उदार स्वभाव, गन्धर्वराजकी अत्यन्त समृद्धि और किन्नर देशकी रमणीयकताके विषयमें भावना करता था, इधर केयूरक उसका चरणयुगल दबाता था । इतनेमें ही निद्रावश हो गया और उस रात्रिको क्षणमात्रके समान व्यतीत किया ।
इसके बाद कादम्बरीके दर्शन करनेके लिए उत्कण्ठावश जागनेके कारण परिश्रान्त होकर मानो शयन करने
१ ॰"प्रजागरखिन्नः ।
| ५६४ | कादम्बरी- | [कथामुखम् |
|---|
लिनीं प्रविरल-कल्लोलानिल-शीतलां^१ वेलावनराजिमवततार तारापतिः । अभ्यर्णविरहविधुरस्य च कामिनीजनस्य निश्वसितैरिव^२ उष्णैर्म्लानिमनीयत चन्द्रिका । चन्द्रापीडवलोकनाहू-ढमदनेव कुमुद्दलोदरनीतनिशा पङ्कजेषु निपपात लक्ष्मीः । क्षणदापगमे च स्मृत्वा कामि-नीकर्णोत्पल-प्रहाराणाम्^३ उत्कण्ठितेष्विव क्षामतां व्रजत्सु पाण्डुतनुषु^४ वासगृहप्रदीपेषु, अन-वरतशर-क्षेप-खिन्नानङ्ग-निश्र्वासै-विभ्रमेषु^५ वहत्सु^६ तरुलता-कुसुमपरिमलेषु^७ प्रभातमातरिश्वसु^८,
रम्भा आसां कन्दलं समूहः वत्या अस्तीति ताम् । प्रविरला लघ्वाकारा ये कल्लोलानिलाः समुद्रस्य बृहत्तरङ्गपवनाः तैः शीतलां शिशिरां वेलावनराजिं तीरवर्त्तिवनपङ्क्तिम् अवततार अवतीर्णवान् अस्तोन्मुखो बभूवेत्यर्थः । अपरोऽपि जागरक्लान्तः स्वप्तुं निभृतशिशिरस्थानमाश्रयति । 'स्वप्नुमिव' इत्यत्र क्रियोत्प्रेक्षालङ्कारः ।
अभ्यर्णेति । चन्द्रिका कौमुदी, अभ्यर्णेन दिवसागमस्य समीपस्थायिना विरहेण प्रियविश्लेषेण विधुरस्य व्यग्रस्य कामिनीजनस्य सुन्दरीगणस्य, उष्णैः निश्वसितैः श्वासमारुतैः म्लानि ग्लानिम् अनी-यत प्रापत्, उष्णपवनेन मृदुकिसलयवदित्याशयः । दिवसोपस्थितेश्चन्द्रिकाया उज्ज्वलता विलुप्तेत्यर्थः। उक्तालंकारः ।
चन्द्रेति । चन्द्रापीडवलोकनेन चन्द्रापीडनिरीक्षणेन आरूढ उपस्थितो मदनः कामो यस्यां सा तथोक्तेव, लक्ष्मीः शोभा कापि कामिनी च, कुमुददलानां कैरवपत्राणाम् उदरेषु अभ्यन्तरेषु नीता व्यतिक्रान्ता निशा रात्रिरनया सा तथोक्ता सती, पङ्कजेषु कमलेषु निपपात अधितस्थौ, मदनविह्वला शैत्यसेवनाय कैरवेषु क्वापि कमलेषु च निपपात । निशायां कैरवाणां प्रफुटनात्तेषु शोभासीद्, दिवसो-पस्थिते तु सङ्कुचिततया तानि परित्यज्य प्रस्फुटत्सु कमलेषु प्राप्तेत्याशयः। उक्तालंकारः ।
क्षणदेति । अपि च, क्षणदापगमेन रात्रिशेषे, पाण्डुतनुषु, क्रमशॊ दिवसालोकप्रकाशाद्वियोगात्म्ले-च्छाशयः । वासगृहप्रदीपेषु वासमवनदीपकेषु कामिनीनां रमणीनां कर्णोत्पलैः श्रोत्रालङ्कारैः ये प्रहारास्ता-डनानि तेषां स्मृत्वा तान् विचिन्त्येत्यर्थः । कर्मणि षष्ठी । उत्कण्ठितेष्विव पुनस्तन्निमित्तं समुत्पन्नोत्सुके-ष्विव, क्षामतां क्षीणत्वं व्रजत्सु गच्छत्सु सत्सु । सुरतेप्सुना प्रियेण समाकृष्यमाणे वसने लज्जया कामिन्यः प्रदीपोपशमनाथं कर्णोत्पलं तदुपरि क्षिपन्ति, तं स्मृत्वा पुनस्तादृशप्रहारप्राप्त्यर्थमौत्सुक्यं प्रदीपानामित्य-भिप्रायः । उक्तालंकारः ।
अनवरतेति । अनवरतं निशायां कामुकान् प्रति निरन्तरं यः शरक्षेपः बाणवृष्टिस्तेन खिन्नस्य परिश्रान्तस्य अनङ्गस्य कामस्य ये निश्वासाः श्वासमरुतः तेषां विभ्रमा इव विभ्रमा विलासा येषु तेषु, तरुलताकुसुमानां वृक्षवल्लीपुष्पाणां परिमला विमर्द्दगन्धा येषु तेषु, प्रभातमातरिश्वसु प्रातःकालिक-पवनेषु वहत्सु चलत्सु सत्सु । इह 'विभ्रमविलासा' इत्यत्र लुप्तोपमालङ्कारः ।
लता हो यों, ताल, तमाल, ताली और कदली-वृक्षोंसे परिपूर्ण, एवं थोड़े-थोड़े जल-तरंगोंकी पवनसे शीतल, समुद्रतीरस्थ वनराजिके अभ्यन्तरमें चन्द्रमा क्रमशः उतर गया । वियोग-समयके समीप आनेसे विह्वल कामिनियोंके उष्ण निश्वाससे ही मानो ज्योत्स्ना (चाँदनी) मलिन हो (फीकी पड़) गयी । चन्द्रापीडको देखनेसे काममत्त होकर ही मानो शोभा, कुमुद-दलके अभ्यन्तर समाप्त-रात्रि को व्यतीत कर उस समयमें कमलोंके ऊपर जा पड़ी ! रात्रिशेषमें वह मन्द हुए शयनगृहके दीपक, कामिनियोंके कर्णोत्पल-प्रहारको स्मरण कर उत्कण्ठित होकर ही मानो पाण्डुशरीरसे क्षीण हो गये; रात्रिमें कामुकोंके प्रति निरन्तर बाण-वर्षण करनेसे परिश्रान्त (थके) कामदेवकी निश्वास वायुके समान विलास-सम्पन्न, एवं तरुलतोत्पन्न पुष्पोंके सौरभवाही प्रभातकालीन पवन बहने लगेः-
१. अविरल ।
२. निश्वसितैरिव ।
३... 'प्रहारात्, स्मृत्वाकामिनीकर्णोत्पलप्रहारेषु ।
४. क्वचिद् 'वास' इति पदन्न दृश्यते ।
५... 'निश्वास' ... ।
६. श्रमत्सु ।
७. क्वचित् 'ततः' इतिशब्दं न विद्यते ।
८. नामोदिषु ।
का० महाश्वेतयोः साक्षात्कार० १०१ ] चन्द्रकला-विद्योतिनीसहिता। ५९५
मन्दरगिरिलतागृहगमनानि च॑ भियेव भजन्तीष्वरुणोदयोपप्लविनीषु तारकासु, क्रमेण च समुद्गते॑ चक्रवाक-हृदय-निवास-लग्नानुरागमिवालोहितं मण्डलमुद्वहति सवितरि, चन्द्रा-पीड़ः शिलातलादुत्थाय प्रक्षालितमुखकमलः कृतसन्ध्या॑नमस्कृतिगृहीतताम्बूलः 'केयूरक ! विलोकय देवी कादम्बरी प्रबुद्धा न वा, क्व वा तिष्ठति' इत्यवोचत् ।
गतप्रतिनिवृत्तेन च तेन 'मन्दरप्रासादस्याधस्तादङ्गनसौधवेदिकायां महाश्वेतया सह्रवतिष्ठते' इत्यावेदिते गन्धर्वराजतनयामालोकयितुमाजगाम । ददर्श च धवलभस्मकृत- ॑ललाटिकाभिः ॑अक्षमालिका-परिवर्त्तन-प्रचल-करतलाभिः पाशुपतव्रतचारिणीभिर्धातुरागारु-णाम्बराभिश्च परिव्राजिकाभिः, ॑परिणत-तालफल-वल्कल-लोहित-वस्त्राभिश्च रक्तपटव्रतवाहि-
मन्दरेति। अपि च, अरुणोदयेन गरुडाग्रजोद्गमेन उपप्लवः तेजोविनाशादिपदामामस्तीति तासु, तारकासु ऋक्षेषु, भियेव सूर्योदयत्रासेनेव, मन्दरगिरेः मन्दराचलस्य लतागृहेषु व्रततिभवनेषु गमनानि भजन्तीषु विदधतीषु सतीसु । मन्दराचलस्य पूर्वस्यां दिशि विद्यमानत्वात्तारकाणां च प्रायेण तस्यामेवा-स्तगमनादिदमभिधानमित्यवधेयम् ।
क्रमेणेति। अपि च, चक्रवाकानां रात्रिवियोगिनां रथाङ्गयुगलानां हृदये चित्ते निवासेन निजोदये तेषां पुनः सङ्गमस्य भावित्वेन रजन्यां निरन्तरमेव तैरात्मनो भावित्वादित्याशयः, लग्नः चेतसा एव संसक्तः अनुरागः सूर्यं प्रति प्रीतिरेव अनुरागो रक्तिमा यस्मिंस्तदिव, आलोहितम् आरक्तवर्णं मण्डलं बिम्बम् उद्वहति धारयति सवितरि सूर्ये, क्रमेण क्रमशः समुद्गते उदिते सति । इह प्रीतिरक्तिम्नोर्भेदेऽपि श्लिष्टेनाभेदाध्यवसायादतिशयोक्तिः क्रियोत्प्रेक्षा चेत्युभयोः सङ्करः ।
चन्द्रेति। प्रक्षालितमुखकमलो धौतवदनपङ्कजः, कृते विहिते सन्ध्यानमस्कृती सन्ध्यावन्दनस्वेष्ट-देवप्रणामौ येन सः । प्रबुद्धा सुप्तोत्थिता । अवोचत् अब्रवीत् ।
गतेति। पूर्वं गतः पश्चात् प्रतिनिवृत्तः प्रत्यागत इति तेन तादृशेन केयूरकेण । मन्दरसंज्ञकः प्रासादः सौधः मन्दरप्रासादः तस्य, अङ्गने अजिरे या सौधवेदिका गृहश्वेतीकरणचूर्णलिप्तबद्धभूमिस्त-स्याम् । इति एवम् आवेदितो कथिते । आलोकयितुं वीक्षितुम् आजगाम आययौ ।
ददर्शेति। चन्द्रापीड़ो महाश्वेतां कादम्बरीं च ददर्शति सम्बन्धः । आदौ महाश्वेतां विशिनष्टि—धवलेति । धवलभस्मभिः श्वेतविभूतिभिः कृतं विहिता ललाटिका भाले क्षुद्रतिलकविशेषा याभि-स्ताभिः, अक्षमालिका जपमालाः तासां परिवर्त्तने भ्रामणे प्रचलानि चलितानि करतलानि पागितलानि यासां ताभिः, पाशुपतव्रतचारिणीभिः शैवव्रतविधायिनीभिः तथा धातुरागेण गैरिकरजनेन अरुणानि लोहितवर्णानि अम्बराणि वस्त्राणि यासां ताभिश्च, परिव्राजिकाभिः संन्यासिनीभिस्तापसीभिः उपास्य-मानाम् आराध्यमानाम् इत्युत्तरेण सम्बन्धः ।
परिणतेति । अपि च, परिगतं परिपक्वं यत् तालफलं तस्य यद् वल्कलं त्वक् तद्वत् लोहितानि रक्त-
अरुणोदयसे तेजोहीन विपन्न होते तारागण, भयवशते ही मानो मन्दर-पर्वतके लता-मण्डपोंकी आड़में प्रवेश करने (बुसने) लगे; और चक्रवाक-दम्पतिगणके हृदयमें निवास करनेसे संलग्न अनुराग से मानो आरक्तवर्ण हुआ सूर्यमण्डल क्रमशः उदय होने लगा, तब चन्द्रापीडने उस शिलातलसे उठकर, मुखकमल-प्रक्षालन (धो) कर, सन्ध्या-वन्दन, इष्टदेवताको नमस्कार और ताम्बूल-चर्वण कर, केयूरकसे कहा-'केयूरक ! देखो-देखो, देवी कादम्बरी अभी जगी हैं या नहीं, अथवा इस समय कहाँ हैं?'
केयूरकने वहाँसे आकर सूचना दी कि—'देव ! वे मन्दरनामक प्रासाद (महल) के नीचे प्राङ्गणमें सुधाचूर्णचूर्णित बैठकके चबूतरे पर महाश्वेताके साथ बैठी हैं।' ऐसा सूचित करनेपर वह गन्धर्वराजपुत्रीको देखनेके लिए वहाँ आया। वहाँ आकर उसने पहले महाश्वेताको देखा। जिनके ललाटपर शुभ्रवर्ण भस्मके तिलक किये हुए थे, जपमालाको फिराते रहनेसे जिनके हाथ चलायमान हो रहे थे, ऐसी शैव-व्रत का आचरण करनेवाली गैरिक रागसे रङ्गिन रक्तवर्ण वस्त्रवाली परिव्राजिकाएँ; पक्व तालफलके वल्कलके समान रक्तवर्ण वस्त्र पढ़ने
१. सुमन्दरलतागृहगमनानि च। २. समुद्गतचक्रवाक... । ३. लोहितं । ४. आवदश्वेतयो सह्रवतिष्ठते । ५. अवतिष्ठति । ६. धवलभस्मललाटिकाभिः । ७. अक्षमाला । ८. चारिणीभिः ।
| ५६६ | कादम्बरी- | [ कथायाम्- |
|---|
नीभिः सित-वसननिबिड-निबद्ध-स्तन-परिकराभिश्च श्वेतपटव्यजनाभिः$^१$ जटाजिन-मौञ्जी$^२$-वल्कलाषाढधारिणीभिर्वर्णिचिह्नाभिस्तापसीभिः, साक्षादिव मन्त्रदेवताभिः पठन्तीभिर्भगवत॑$^३$स्त्र्यम्बकस्याम्बिकायाः कार्त्तिकेयस्य॑$^४$ विष्टरश्रवसः कृष्णस्य॑$^५$ आर्यावलोकितेश्वरस्यार्हतो विरिञ्च॑स्य$^६$ पुण्याः स्तुतीरुपास्यमानाम्, अन्तःपुराम्यर्हिताश्च सादरं नमस्कारैराभाषणैरभ्युत्थानैरा-सन्नवेत्रासनदानैश्च दर्शनागतगन्धर्वराजबान्धववृद्धाः$^७$ समानयन्तीं महाश्वेताम्, पृष्ठतश्च समुपविष्टेन किन्नरमिथुनेनं$^८$ मधुकर$^९$मधुराभ्यां वंशाभ्यां दत्ते ताने$^१$$^०$ कलगिरा गायन्त्या नारददुहित्रा$^१$$^१$ पठ्यमाने च सर्वमङ्गलमहीयसि महाभारते दत्तावधानाम्, पुरोधृते$^१$$^२$ च मणिदर्पणे$^१$$^३$ ताम्बूल-
वर्णानि वस्त्राणि वसनानि यासां ताभिः, रक्तपटव्रतवाहिनीभिः शाक्यभिक्षुविशेषनियमधारिभिः, सितवसनैः श्वेतवस्त्रैः निबिडं दृढं निबद्धा बन्धनीकृताः स्तनपरिकराः कुचमण्डलानि याभिस्ताभिः, श्वेतपटः सितवसनं स एव व्यजनं तालवृन्तकं यासां ताभिः। जटां सटाम्, अजिनं कृष्णसारमृगचर्म, मौञ्जीं मेखलाम्, वल्कलं तरुत्वचम्, आषाढं दण्डञ्च धारयन्ति वहन्तीति ताभिः, वर्णिनो ब्रह्मचारिणः चिह्नं लक्ष्म यासु ताभिः, साक्षात् प्रत्यक्षं मन्त्रदेवताभिरिव विद्यमानाभिः। त्र्यम्बकस्य महेशस्य, अम्बिकाया दुर्गायाः, कार्त्तिकेयस्य षडाननस्य, विष्टरश्रवसो विष्णोः, कृष्णस्य वासुदेवस्य, आर्यावलोकितेश्वरस्य बौद्धस्य, अर्हतः तीर्थङ्करस्य, विरिञ्चस्य प्रजापतेः, पुण्याः पावनीः स्तुतीः स्तोत्राणि पठन्तीभिर्वाच्यमानाभिः तापसीभिस्तपस्विनीभिश्च उपास्यमानाम् आराध्यमानाम्। इह 'साक्षान्मन्त्रदेवताभिरिव' इत्यत्र जात्युत्प्रेक्षा।
अन्तरिति। अपि च अन्तःपुरेषु अवरोधपुरेषु मध्ये या अभ्यर्हिताः अर्चनीयास्ताः, सादरं सत्कारपूर्वकं नमस्कारैः प्रणामैः, आभाषणैर्मधुरालापैः, अभ्युत्थानैः, आसन्ने निकटे वेत्रासनदानैः वेतसविष्टरा-र्पणैः, दर्शनाय अवलोकनाय आगता आयाता या गन्धर्वराजस्य चित्ररथस्य बान्धववृद्धाः स्वजनस्थविरा नार्यः सम्मानयन्तीं सत्कारं कुर्वन्तीम्।
पृष्ठत इति। अपि च, पृष्ठतः कादम्बर्या एव पश्चाद्भागे, समुपविष्टेन समासीनेन किन्नरमिथुनेन किंपुरुषयुग्मेन, मधुकरमधुराभ्यां भ्रमरध्वनिवत् सुश्राव्यस्वराभ्यां वंशाभ्यां वेणुभ्याम्, ताने अनु-टितस्वरप्रवाहे दत्ते 'गाता यं यं स्वरं गायेतं तं वंशेन तानयेत्' इति भरतोक्तिदिशा गीतस्वरमेलनाय स्थापिते, कलगिरा मधुरवचनया, नारददुहित्रा भद्राभिधेयया नारदस्य धर्मपुत्र्या, पठ्यमाने व्याख्याय-माने अभिधीयमाने वा, सर्वेभ्यः समस्तेभ्यो मङ्गलेभ्यः श्रेयउत्पादकेभ्यो ग्रन्थेभ्यो महीयसि अत्यन्तमुख्ये महाभारते ग्रन्थे दत्तावधानां न्यस्तैकाग्रमानसामिति अग्रेतनस्य 'कादम्बरीम्' इत्यस्य विशेषणम्।
पुर इति। अपि च, पुरो धृते कयापि सेविकया अभिमुखे स्थापिते मणिदर्पणे रत्नआदर्शे, ताम्बूल-
रक्त-पट-व्रतधारिणी; और समस्त ब्रह्मचर्यके चिह्न धारण करनेवाली तपस्विनी—शुभ्रवर्ण वस्त्रसे जिन्होंने अपने स्तनमण्डलको बाँध दिया था, श्वेत वस्त्र का व्यजन धारण किया था और जटा, कृष्णसार (मृग) का चर्म-मुञ्ज (मूँजकी) मेखला, वल्कल और पलाशके दण्ड—ये सब धारण कर रही थीं-जो साक्षात् मन्त्रदेवताके समान ही देखनेमें हों, इस प्रकार उन सबोंके मध्यमें कोई भगवान् शङ्करकी, कोई दुर्गाकी, कोई कार्त्तिकेयकी, कोई नारायणकी, कोई कृष्णकी, कोई बौद्धकी, कोई तीर्थंकर (गुरु-विशेष) की और कोई ब्रह्मा की पवित्र स्तुति-पाठ करतीं-करतीं उस (महाश्वेता) की उपासना कर रही थीं और वह (महाश्वेता) गन्धर्वराज चित्ररथ के ज्ञातिवर्गके मध्यमें प्राचीन (वृद्ध) एवं अन्तःपुर (रनवास) में मान पायी हुई (प्रधान) तथा दर्शन करनेके लिए आयी हुई स्त्रियोंको आदरपूर्वक नमस्कार कर, सम्भाषण कर, अभ्युत्थान कर, समीपस्थ वेत्रासन बैठनेको देकर, उसका सम्मान कर रही थी। फिर उसने कादम्बरीको देखा। उसके पीछे बैठा किन्नर-मिथुन-भ्रमर-ध्वनि (झङ्कार) के समान सुमधुर वंशीस्वरसे तान देता था। और मधुर स्वरसे गान करती नारदकी धर्मकन्या भद्रादेवी समस्त माङ्गलिक ग्रन्थोंके मध्यमें उत्कृष्ट महाभारत ग्रन्थको बाँच रही थी, उसे वह (कादम्बरी) एकाग्रचित्तसे सुनती थी; सामने रखे एकमणिमय
$^१$ ॰व्यजनाभिः। $^२$ क्वचित् 'मौञ्जी' पदन्नास्ति। $^३$ शीतोदनेः। $^४$ विश्रवस्य। $^५$ अर्जुनस्य, जिनस्य। $^६$ विश्रवणस्य, दैशदेवस्य मार्तण्डस्य विरिञ्चस्य। $^७$ क्वचित् 'दर्शनागते'ति पाठो न विद्यते। $^८$ ॰मिथुनकेन। $^९$ क्वचित् 'मधुकर' इति पदं न दृश्यते। $^{१०}$ स्थानके, ताले। $^{११}$ ॰दुहित्रा च सावित्र्या। $^{१२}$ पुरो विष्टते परिजनेन। $^{१३}$ दर्पणे।
चन्द्रापीडगमनायानुमतिग्रहण० १०२] चन्द्रकला-विद्योतिनीसहिता । ५९७
राग^१-बद्धकृष्णिकान्धकारिताभ्यन्तरं दशनज्योत्स्ना-सिक्तमुन्मृष्ट-मधूच्छिष्ट-पट्ट-पाटलमधरं^३ विलोकयन्तीम्, शैवलतृष्णया कर्णपूर-शिरीष-प्रेषितोत्तान-विलोचनेन बद्धमण्डलं भ्रमता-भवनकलहंसेन प्रभातशशिनेव क्रियमाण-गमन-प्रणाम-प्रदक्षिणां कादम्बरीञ्च । समुपसृत्य कृतनमस्कारस्तस्यामेव सुधा^४वेदिकायां विन्यस्तमासनं भेजे । स्थित्वा च कञ्चित् कालं महा-श्वेताया वदनं विलोक्य स्फुरितकपोलदरं मन्दस्मितमकरोत् । असौ तु तावतैव विदिताभि-प्राया कादम्बरीमब्रवीत्—'सखि ! भवत्या गुणैश्चन्द्रापीडश्चन्द्रकान्त इव चन्द्रमयूखैराद्रीकृतो न शक्नोति वक्तुम् । जिगमिषति खलु कुमारः, पृष्ठतो दुःखमविदितवृत्तान्तं राजचक्रमास्ते ।
रागेण नागवल्लीदलरक्तिम्ना बद्धा विहिता या कृष्णिका श्यामता तया अन्धकारितं समुत्पन्नान्धकारं मलिनीकृतम् अभ्यन्तरं मध्यभागो यस्य तम्, दशनज्योत्स्नया दन्तप्रभया सिक्तं क्षालितम्, तथा उन्मृष्टं घृष्टं यन्मधूच्छिष्टं सिक्यकं भाषायां 'मोम' इति ख्यातं तस्य पट्टं पिण्डं तद्वत् पाटलं श्वेतरक्तम् अधरम् ओष्ठं विलोकयन्तीं पश्यन्तीं कादम्बरीम् । 'मधूच्छिष्टं तु सिक्यकम्' इत्यमरः ।
शैवलेति । शैवलतृष्णया शैवाललोभेन तद्भ्रान्त्येत्यर्थः कर्णपूरशिरीषे कादम्बर्याः श्रवणभूषणी-कृतशिरीषकुसुमं प्रति प्रेषिते प्रेरिते उत्ताने ऊर्ध्ववदने विलोचने नयने येन तेन, प्रभातशशिनेव प्रत्यूष-चन्द्रेणेव बद्धं विहितं मण्डलं यत्र कर्मणि तद् यथा स्यात्तथा भ्रमता अटता, भवनकलहंसेन गृहका-दम्बेन क्रियमाणानि विधीयमानानि गमनं निकटोपस्थितिः प्रणामो नमस्कारः प्रदक्षिणञ्च तानि यस्या-स्ताम् । हंसः निकटे गमनं प्रणामं प्रदक्षिणां च कृत्वा कर्णपूरशिरीषं याचत इत्यर्थः ।
इह कर्णपूरशिरीषे शैवालभ्रान्त्या भ्रान्तिमानलङ्कारः, तथा 'प्रभातशशिनेव' इत्यत्रोपमा वेत्युभ-योर्मिथो नैरपेक्ष्येण संसृष्टिः ।
समुपेति । समुपसृत्य कादम्बर्या निकटमेत्य, कृतनमस्कारः । विहितप्रणामः तस्यामेव यत्र काद-म्बरी समुपविष्टा तत्रैवेत्यर्थः, सुधावेदिकायां गृहधवलीकरणचूर्णद्रव्योपलिप्तबद्धभूमौ विन्यस्तं स्थापितम् आसनं विष्टरं भेजे अध्यासायामास चन्द्रापीड इत्यन्वयः ।
स्थितेति । स्फुरितं चलितं कपोलयोर्गण्डयोः उदरं मध्यदेशो यत्र तत् तादृशम्, मन्दस्मितम् ईष-द्धास्यम् अकरोत् कृतवान् ।
असाविति । असौ महाश्वेता । तावतैव ईषद्धास्येनैव, विदिताभिप्राया ज्ञातचन्द्रापीडचित्तवृत्तिः सती । सखि आलि ! भवत्यास्तव गुणैस्तत्कैः चन्द्रापीडः, चन्द्रमयूखैः शशिकिरणैः चन्द्रकान्तश्चन्द्रोपल इव चार्द्रीकृतः जलनिर्गमात् क्लिन्नः कृतश्च वक्तुं कथयितुं न शक्नोति समर्थो भवति । 'चन्द्रकान्त इव' इत्यत्र श्रौतोपमालङ्कारः ।
वक्तव्यमेव दर्शयति—जिगमिषतीति । खलु निश्चयेन । जिगमिषति गन्तुमिच्छति । तत्र कारणमु-पपादयति—पृष्ठत इति । न विदितो ज्ञातो वृत्तान्तः चन्द्रापीडोदन्तो येन तत्तादृशम्, राजचक्रं सेनास्थ-राजगणः दुःखमास्ते दुःखाकुलं यथा स्यात्तथा विद्यते ।
दर्पणमें ताम्बूल-चर्वण करनेसे संलग्न काली रेखासे श्यामता उत्पन्न हुए मध्यस्थानवाले तथा दन्तप्रभासे चमकते-मोम लगाकर साफ किये वस्त्र जैसे श्वेत-रक्तवर्ण (गुलाबी) अधरको देख रही थी; और शैवल (सँवार) की तृष्णासे गृह-पालित एक कलहंस, उसके कानमें धारण किये हुए शिरीष-पुष्पके ऊपर दृष्टि रखकर, प्रभात-चन्द्रके समान मण्डलाकारमें भ्रमण करता उसके समीप जाकर नमस्कार और प्रदक्षिणा करता था। ऐसी कादम्बरीके समीपमें जाकर नमस्कार कर, चन्द्रापीड उसी शुभ्रवेदिका (चबूतरे) के ऊपर संस्थापित एक आसन पर जा बैठा। और कुछ देर रहकर, महाश्वेताके मुखको देख ईषद् हास्य किया (मुस्कुराया) जिससे उसके गण्डयुगल (गाल) का मध्यभाग स्पन्दित हो गया, परन्तु महाश्वेता तो उस मुस्कुराहट से ही चन्द्रापीडका अभिप्राय समझ गयी और कादम्बरीसे कहने लगीं—'सखि ! चन्द्रमाकी किरणोंसे चन्द्रकान्तमणि जिस प्रकार पिघलने लगता है, उसी प्रकार चन्द्रापीड तुम्हारे गुणोंसे वशीभूत हो गये हैं, इसलिए स्वयं बोल नहीं सकते । [ मुख्य बात यह है कि ]—राजकुमारको अब जानेकी अभिलाषा हुई है; क्योंकि—पीछे सब उनका राजगण राजकुमारका वृत्तान्त न मिलनेसे दुःखी होते होंगे। और भी देखो—पद्मिनी और सूर्यके समान एवं कुमुदिनी
१. बहलताम्बूलराग... ।
२. उत्सृष्ट... ।
३.¨ पट्टपाटलमधरं ।
४. क्वचित् 'सुधा' इति पदं नावलोक्यते ।
५६८ | कादम्बरी- | [ कथायाम्-
अपि च युवयोर्दूरस्थितयोरपि स्थितेयमिदानीं 'कमलिनीकमलवान्धवयोः'रिव कुमुदिनीकुमुद-नाथयोरिव प्रीतिराप्रलयात् । अतोऽभ्यनुजानातुं भवती' इति ।
अथ कादम्बरी 'सखि ! महाश्वेते ! स्वाधीनोऽयं सपरिजनेा जनः कुमारस्य स्व इवा-न्तरात्मा, क इवात्रानुरोधः' इत्यभिधाय गन्धर्वकुमारानाहूय 'प्रापयत कुमारं स्वां भूमिम्' इत्यादिदेश । चन्द्रापीडोऽप्युत्थाय प्रणम्य प्रथमं महाश्वेताम्, ततः कादम्बरीम्, तस्याश्च प्रेमस्निग्धेन चक्षुषा मनसा च गृह्यमाणः—'देवि ! किं ब्रवीमि, बहुभाषिणः न श्रद्दधाति लोकः, स्मर्त्तव्योऽस्मि परिजनकथासु' इत्यभिधाय कन्यकान्तःपुरान्निर्जगाम कादम्बरी-वर्जः अशेषः कन्यकाजनो गुणगौरवाकृष्टः परवश इव तं व्रजन्तमाबहिस्तोरणादनुवव्राज ।
अपीति । युवयोः कादम्बरीचन्द्रापीडयोः दूरस्थितयोरपि दविष्ठयोरपि, इदानीं साम्प्रतं कमलिनी-कमलवान्धवयोःरिव पद्मिनीसूर्ययोरिव कुमुदिनीकुमुदनाथयोरिव कैरविणीचन्द्रयोरिव प्रीतिः स्नेहः आप्रलयातू आकल्पान्तात् इयं स्थिता, अतः अस्मात्कारणात् । अभ्यनुजानातु गमनाय लाज्ञां ददात्वित्यर्थः ।
इह कमलिनीकमलवान्धवयोः स्त्रीपुँल्लिङ्गाभ्यां कामिनीकामुकव्यवहारसमारोपाद् समासोक्तिः श्रौतोपमा चेत्युभयोरेकाश्रयानुप्रवेशसङ्करः, एवं कुमुदिनीकुमुदनाथयोरित्यत्रापि सङ्करः, तयोश्च पुनः परस्पर-नैरपेक्ष्येण संसृष्टिः, एवञ्च कादम्बरीचन्द्रापीडयोरपि कामिनीकामुकभावो ध्वन्यते इत्यलङ्कारेण वस्तुध्वनिः ।
अथेति । सपरिनजः परिचारिकागणसहितः 'अयं मल्लक्षणो जनः, कुमारस्य चन्द्रापीडस्य स्वः अन्तरात्मन्येव स्वस्य' अधीन आयत्तः, अतएव अत्र गमनविषये क इव अनुरोधः सङ्कोचः (समानुमति-ग्रहणाग्रहः) अपि तु न कोऽपीत्यर्थः, सेवकजनात्त्वामितोऽभ्यनुज्ञाग्रहणापेक्षाभावदित्याशयः ।
इह श्रौतोपमा वाक्यार्थहेतुकं काव्यलिङ्गञ्चेत्युभयोरङ्गाङ्गिभावासङ्करः ।
चन्द्रेति, प्रथमम् आदौ । प्रणम्य नमस्कृत्य । प्रेमस्निग्धे अनुरागार्द्रेण । गृह्यमाणो वशीक्रियमाणः सन् । बहुभाषिणो वाचालात् । न श्रद्धधाति विश्वसिति, 'ब्रुवते हि फलेन साधवो न तु शब्देन' इति न्यायात् अतोऽल्पाक्षरेण कथयामीत्यभिप्रायः । किन्तद्वक्तव्यमित्यत आह— स्मर्त्तव्य इति । परिजनकथासु निजसेवकवार्त्तासु स्मर्त्तव्यः स्मरणीयोऽस्मि । अनेन स्वस्य परिचारकजनत्वं ध्वनितम् । इत्यभिधाय इत्युक्त्वा कन्यकान्तःपुरात् कुमारिकावरोधपुरात् निर्जगाम निर्ययौ ।
कादम्बेति । कादम्बरीं वर्जयति त्याजयतीति सः कादम्बरीभिन्न इत्यर्थः । अशेषः समग्रः कन्यकाजनः कुमारिकावर्गः, गुणगौरवेण उत्कर्षातिशयेन आकृष्टः आकर्षितः, परवश इव चन्द्रापीडाधीन इव । तं चन्द्रापीडम् । आबहिस्तोरणात् वहिर्द्वारपर्यन्तम् अनुवव्राज पृष्ठतो जगाम ।
और चन्द्रके समान दूर रहने पर भी तुम दोनोंकी प्रीति अभीसे लेकर प्रलयकाल तक स्थिर रहेगी; इसलिए तुम जानेके लिए कुमारको अनुमति प्रदान करो ।'
उसके बाद कादम्बरीने कहा—'सखि, महाश्वेते ! जिस प्रकार उनकी अन्तरात्मा उनके अधीन है, उसी प्रकार परिजन-वर्गके साथ यह व्यक्ति भी कुमारके अधीन है, इसलिए इस विषयमें अनुरोध क्या है ?' इतना कहकर गन्धर्वकुमारोंको बुलाकर इस प्रकार आदेश दिया कि—'तुमलोग राजकुमारको अपने देशमें पहुँचा दो ।' इसके पश्चात् चन्द्रापीडने भी उठकर पहले महाश्वेताको और तदनन्तर कादम्बरीको प्रणाम किया ! उस समय कादम्बरीके प्रेमसे स्निग्ध नेत्र और मनके द्वारा अपनी ओर आकृष्ट होनेसे वह कहने लगा—'देवि! क्या कहूँ ? लोग बहुत बोलनेवाले व्यक्ति का विश्वास नहीं करते, इसलिए थोड़ेमें इतना कहता हूँ कि—'परिजन-कथाओंके मध्यमें आप मुझे भी स्मरण करना' इतना कहकर वह कन्याओंके अन्तःपुरसे निकल गया । उस समय कादम्बरीके अतिरिक्त अन्य समस्त कन्याएँ उसके गुण-गौरवसे आकृष्ट होकर पराधीनके समान बाहरके बड़े दरवाजे तक उसका अनुगमन कीं । बहिर्द्वार पर्यन्त आयीं ।।
१. अनुजानातु
२. सखि स्वाधीनः ।
३. बहुभाषिणे !
४ ॰॰॰वर्जोऽवशेशः, वर्जमशेषकन्यकाजनः, दर्शनेने-परस्तु कन्यकाजनः ।
चन्द्रापीडस्य स्वभवनागमन० १०३ ] चन्द्रकला-विद्योतिनीसहिता । ५६६
निवृत्ते च कन्यकाजने केयूरकेणोपनीतं वाजिनमारुह्य गन्धर्वकुमारकैस्तैरनुगम्यमानो हेमकूटात् प्रवृत्तो गन्तुम् । गच्छतश्चास्य चित्ररथतनया न केवलमन्तर्बहिरपि सैव सर्वाशानिबन्धनमासीत् । तथाहि, तन्मयेन मानसेनासह्यविरहदुःखानुशयसग्नामिव पृष्ठतः, कृतमार्गगमननिरोधामिव पुरस्तात् , वियोगाकुलहृदयोत्कलिकावेशोत्क्षिप्तामिव नभसि, सम्यगालोकयितुं वदनं विरहातुरमानसामिवावस्थितामुरःस्थले, तामेव मृगलोचनां^३ ददर्श । क्रमेण च प्राप्य महाश्वेताश्रममच्छोदसरस्तीरे संनिविष्टमिन्द्रायुधखुरपुटानुसारेणावागतमात्मकस्कन्धावारमपश्यत् । निर्वर्तिताशेषगन्धर्वकुमारश्च सानन्देन सकौतूहलेन सविस्मयेन च स्कन्धा-
निवृत्त इति । निवृत्ते परावृत्य आगते कन्यकाजने कुमारिकागणे । उपनीतम् उपस्थापितम् , वाजिनमश्वम् । तैः पूर्वोक्तैः गन्धर्वकुमारकैः देवगायकपुत्रैः अनुगम्यमानः अनुव्रज्यमानः । गन्तुं चलितुं प्रवृत्तस्तत्परः अभूदिति शेषः ।
गच्छत इति । अपि च, गच्छतो व्रजतः अस्य चन्द्रापीडस्य, अन्तः अन्तःकरणे सर्वासां निखिलानाम् आशानाम् आकाङ्क्षाणां निबन्धनं हेतुः, तथा बहिरपि सर्वासामाशानी दिशां निबन्धनं निरोध-कारणम् आसीत् बभूव ।
बहिर्निरोधकारणत्वं प्रदर्शयितुमाह—तथाहीति । तन्मयेन कादम्बरीमयेन मानसेन हृदयेन कारणेन, पृष्ठतः पश्चात् असह्यं सोढुमशक्यं यद् विरहदुःखं वियोगक्लेशः तेन योऽनुशयः पश्चात्तापः (अनुगमनं) तेन लग्नां संसक्तामिव । अनेन पृष्ठतोनिरोधकारणमभिहितम् । तन्मयेन हृदयेन कारणेन, पुरस्तात् संमुखतः, कृतो विहितो मार्गगमने निरोधो निबन्धो यया तानिव । एतेनाग्रतो निरोधकारणत्वमुक्तम् । तन्मयेन हृदयेन कारणेन, नभसि गगने, वियोगाकुलं विरहव्यग्रं यद् हृदयं मानसं तत्र य उत्कलिकावेशः औत्सुक्याविर्भावः तेन उत्क्षिप्तामिव पर्यस्तामिव । अनेनोर्ध्वं निरोधकारणत्वं निरूपितम् । तथा तन्मयेन हृदयेन कारणेन, वदनं स्वस्य (कादम्बर्याः) मुखं सम्यक् साधुतया आलोकयितुं दर्शयितुम् । उरःस्थले आत्मनो वक्षःस्थले अवस्थितामिव कृतावस्थानामिव, विरहातुरमानसां वियोगव्यग्रहृदयां मृगलोचनां हरिणाक्षीं तामेव कादम्बरीं ददर्श अवलोकयामास, उरस्यवस्थया रन्धनेन समन्तादेव निरोधसम्भवात्, एतेन दिगन्तरेषु निरोधकारणत्वं द्योतितम् । इह चतस्रः क्रियोत्प्रेक्षाः, तासां परस्परं नैरपेक्ष्येण संसृष्टिः ।
क्रमेणेति । प्राप्य आसाद्य । संनिविष्टं स्थापितम्, इन्द्रायुधो निजाश्वः तस्य खुरपुटानुसारेणैव खुरपुटचिह्नानुसरणक्रमेणैव आगतं प्राप्तम् आत्मनः स्वस्य स्कन्धावारं सैन्यम् अपश्यत् ऐक्षत ।
निर्वर्तितेति । निर्वर्त्तिताः परावर्त्तिता अशेषाः समग्रा गन्धर्वकुमारा येन सः । सानन्देन सहर्षेण बहुसमयानन्तरं निजस्वामिविलोकनादित्याशयः । सकौतूहलेन सकौतुकेन अतिरमणीयगन्धर्वजना-वलोकनादिति भावः । सविस्मयेन साश्चर्येण तथाविधमुक्ताप्रालम्बदर्शनादिति भावः । प्रणम्यमानो
उसके बाद उन कन्याओंके लौटने पर केयूरकके द्वारा लाये हुए घोड़े पर वह सवार होकर पीछे-पीछे आते गन्धर्वकुमारोंके साथ हेमकूटपर्वतसे चल निकला, चलनेमें वह कादम्बरी केवल अन्तःकरणमें ही समस्त आकाङ्क्षाओंका कारण नहीं हुई थी, किन्तु बाहरमें भी वह समस्त दिशाओंके अवरोधका कारण हुई थी (अर्थात् चन्द्रापीडको कादम्बरी समस्त अभिलाषाओंका केन्द्र हो गयी और सब दिशाओंमें उसे कादम्बरी ही दीखने लगी), क्योंकि हृदय तन्मय होनेसे वह मानो असह्य-विरह-दुःखके सन्तापके कारण अनुमरण कर उसके पीछे-पीछे आयी हो, सामने चलनेके मार्ग पर आकर मानो अवरुद्ध करती (रोकती) हो, विरहसे व्याकुल हुए चित्तमें उत्कण्ठा आविर्भूत होकर उससे मानो आकाशमें फेंक दी गई हो और सम्पूर्णरूपमें अपने मुख देखनेके लिए मानो वक्षःस्थलमें आ बैठी हो-इस प्रकार उस हरिणनयना विरहातुरहृदया कादम्बरीको ही वह देखने लगा । क्रमशः (धीरे-धीरे) महाश्वेताके आश्रममें पहुँचकर उसने देखा कि—अपने सैन्यगण, इन्द्रायुधके टापोंके चिह्न का अनुसरण कर अच्छोदसरोवरके तट पर आकर ठहरे हैं। उस समय वहाँसे समस्त गन्धर्वकुमारोंको उसने लौटा दिया, इधर सेनान्तर्गत पुरुषोंने उसको देख आनन्द-सहित, कौतुक-सहित और विस्मय-सहित प्रणाम किया। इस रीतिसे
१. क्वचिद् ।
२ *** आवेशितामिव लावेदावस्थितामिव ।
३. क्वचिद् 'मृगलोचनाम्' इति पदन्न विद्यते ।
| ६०० | कादम्बरी | [ कथायाम्- |
|---|
वारवर्त्तिना जनेन प्रणम्यमानः स्वभवनं विवेश। सम्मानिताशेपराजलोकैश्च वैशम्पायनेन पत्रलेखया च सह 'एवं महाश्वेता, एवं कादम्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकः' इत्यनयैव कथया प्रायो दिवसमनैषीत्। कादम्बरीरूपदर्शनद्विष्टयेव नास्य पुरेव प्रीतिमकरोत् राजलक्ष्मीः। तामेव च धवलेक्षणामावद्धरणरणकेन चेतसा चिन्तयतो जाग्रत एवास्य सा जगाम रात्रिः। अपरेद्युश्च समुत्थिते भगवति रवौ, आस्थानमण्डपगतस्तद्गतेनेव मनसा सहसैव प्रतीहारेण सह प्रविशन्तं केयूरकं ददर्श। दूरादेव च क्षितितलस्पर्शिना मौलिना कृतपादपतनम्, 'एहोहि' इत्युक्त्वा प्रथममपाङ्गविसर्पिणा चक्षुषा, ततो हृदयेन, ततो रोमोद्गमेन, पश्चाद्वाहुभ्यां प्रधावितः प्रसृतम् आलिङ्गि गाढम्। उपावेशयच्चैनमात्मनः
नमस्क्रियमाणः,-स्वभवनं पटमण्डपं विवेश प्रविष्टवान्। संमानिता प्रत्यभिवादनादिना सादरता अशेपाः समग्रा राजलोका येन सः। प्रायो बाहुल्येन अनयैव कथया वार्त्तया दिवसं वासरम् अनैषीत् व्यतीतवान्।
कादेति। कादम्बर्या रूपदर्शने चन्द्रापीडद्वारा सौन्दर्यावलोकने या दिष्टिद्वेषस्तयैव कारणेन, राजलक्ष्मीः राज्यश्रीः पुरेष पूर्वमिव, अस्य चन्द्रापीडस्य प्रीतिं स्नेहं नाकरोत् न कृतवती। अनेन राजलक्ष्म्याः सपलोभावसूचनेन चन्द्रापीडस्य निरतिशयप्रमावोऽभिव्यज्यते। ...'दिष्टये'वे'त्यत्र हेतूत्प्रेक्षालङ्कारः।
तामिति। आवद्धो घनो रणरणक औत्सुक्यं येन तेन, चेतसा हृदयेन धवले शुभ्रे ईक्षणे अवलोकने यस्यास्तां तामेव कादम्बरीमेव, चिन्तयतो ध्यायतो जाग्रतः कृतजागरणस्य अस्य चन्द्रापीडस्य सा रात्रिः जगाम ययौ।
अपरेद्युरिति। अपरेद्युः अपरस्मिन् दिने। आस्थानमण्डपे सभामण्डपे गतः स्थितः, तद्गतेनैव कादम्बरीं प्रति प्रधावितेनैव मनसा हृदयेन उपलक्षितः, सहसैव अतर्कित एव प्रतीहारेण सह द्वारपालकेन सार्कं प्रविशन्तम् अभ्यन्तर आयान्तम्। ददर्श अद्राक्षीत्। क्षितितलं भूतलं स्पृशति चुम्बतीत्येवंशीलेन मौलिना मस्तकेन कृतं विहितं पादयोश्चरणयोः पतनं येन तम्। प्रथमम् आदौ अपाङ्गविसर्पिणा प्रान्तगामिना चक्षुषा नयनेन। रोमोद्गमेन रोमाञ्चोद्गवेन। प्रसृतम् आयातं केयूरकं गाढं निविडम् आलिलिङ्ग उपगूहितवान्।
उपावेशयदिति। आत्मनः समीप एव स्वासन्नान्तिक एव उपावेशयत् -अस्थापयत्। स्मितेनेव ईषद्वहास्यमेव सुधा गृहधवलीकरणलेपविशेषः तेन धवलीकृतानि श्वेतीकृतानि अक्षराणि वर्णा यस्य तत्, तथा क्षरन् निर्गच्छन् यः प्रीतिद्रवः स्नेह्ररसः तन्मयं तेन व्याप्तमिव वचनं वाक्यम् उच्चारयन् ब्रुवन्, आदृतः सम्मानवान् पप्रच्छ प्रश्नं चकार।
इह 'स्मितसुधाधवलीकृताक्षरम्' इत्यत्र निरङ्गं केवलरूपकम्, धवलीकरणसम्वन्धाभावेऽपि
वह अपने पटमण्डप (तंबू) में प्रवेश किया (घुसा) और वहां प्रत्यभिवादन द्वारा समस्त राजाओं को सम्मानित कर, दिनका बहुत कुछ अंश उसने इस प्रकार महाश्वेता हैं, इस प्रकार कादम्बरी हैं, इस प्रकार मदलेखा हैं, इस प्रकार तमालिका हैं, इस प्रकार केयूरक हैं-प्रायशः ऐसे ऐसे व्यापार वैशम्पायन तथा पत्रलेखाके साथ करनेमें दिन व्यतीत किया। कादम्बरीका सौन्दर्य अवलोकन कर लेने पर राज्यलक्ष्मीसे उसे मानो द्वेष हो गया हो इस प्रकार पहलेके समान अब वह उसकी प्रीति उत्पन्न नहीं करती थी और उत्कण्ठित चित्तसे उसी धवलनयनाका चिन्तन करते-करते जागरण करते हुए ही उसने समस्त रात्रिको विताया। दूसरे दिन भगवान् सूर्यनारायणके उदित होने पर स्वयं तद्गतचित्तसे ही सभामण्डपमें बैठा था कि इतनेमें सहसा ही उसने प्रतीहारी (द्वारपाल) के साथ केयूरकको प्रवेश करते हुए देखा। केयूरक दूरसे ही भूतलमें मस्तक-स्पर्श कर उसके चरणके ऊपर गिर गया इतनेमें 'आओ, आओ'-यह कहकर चन्द्रापीडने पहले प्रान्तगामी नयनसे उसके बाद हृदयसे, तदनन्तर रोमाञ्च द्वारा, उसके पीछे दौड़कर बाहुओंसे उपस्थित केयूरकका गाढ़ आलिङ्गन किया और उसको अपने समीपमें ही
१. संमानितप्रत्यक्षीकृताशेषः ...संमानितप्रत्यक्षीकृतराजसंतानितराज...।
२. ...दिष्टिवेव।
३. पुरे।
४. क्वचित् 'सै'ति न विद्यते।
५. संप्रविशन्तम्।
६. निवृत्तम्, प्रथितम्, दधि तना...।
७. समुपायेशवत्।
का०प्रहितोपहारप्रदर्शनव० १०४] चन्द्रकला-विद्योतिनीसहिता । ६०१
समीप एव, पप्रच्छ च स्मितसुधाधवलीकृताक्षरं क्षरत्प्रीतिद्रवमयमिव वचनमादृतः 'केयू- रक ! कथय कुशलिनी देवी ससखीजना सपरिजना कादम्बरी, भगवती महाश्वेता च' इति । असौ तु तेन राजसूनोः प्रीतिप्रकर्षजन्मना स्मितेनैव स्नपित इवानुलिप्त इव सद्य एवापगताध्वखेदः प्रणम्याहृततरमवोचत्—'अद्य कुशलिनी, यामेवं देवः पृच्छति' इत्यभि- धायापनीयार्द्रवस्त्रावगुण्ठितं बिससूत्रसंयतमुखमार्द्रचन्दन-पङ्क-न्यस्त-बाल-मृणाल-वलय-मुद्रं नलिनीपत्रपुटमदर्शयत् । उद्घाट्य च तत्र कादम्बरीप्रहितान्यभिज्ञानान्यदर्शयत् । तद्यथा- मरकतरहरीणि व्यपनीतत्वग्भि चारुमञ्जरीभाञ्जि क्षीरीणि पूगीफलानि, शुककामिनीकपोल- पाण्डूनि ताम्बूलीदलानि, हरचन्द्रखण्डस्थूलशकलञ्च कर्पूरम् , अतिबहल-मृगमदामोदमनो-
त्सम्बन्धप्रतिपादनादतिशयोक्तिश्चैत्युभयोरेकाश्रयानुप्रवेशरूपसङ्करः । 'प्रीतिद्रवमयमिव' इत्यत्र क्रियो- त्प्रेक्षा, अनया चोक्तलङ्करस्य मिथो नैरपेक्ष्येण संसृष्टिः ।
असाविति । असौ केयूरकः, राजसूनोः चन्द्रापीडस्य, प्रीतिप्रकर्षः स्नेहातिशयः तस्माज्जन्म उत्पत्तिर्यस्य तेन, स्मितेनैव ईषद्धास्येनेव स्नपित इव, परिक्कुत इव अनुलिप्त इव अनुलेपनविषयीकृत इव । अपगतो निवृत्तः अध्वखेदः मार्गश्रमो यस्य सः, प्रणम्य नमस्कृत्य आहनतरम् अत्यादरपूर्वकम् अवोचत् अब्रवीत् । इह 'स्नपित इव' 'अनुलिप्त इव' इत्युभे क्रियोत्प्रेक्षे, अनयोश्च मिथो नैरपेक्ष्येण संसृष्टिः ।
व्येति । सार्द्रद्रश्वेण व्लिन्नवसनेन अवगुण्ठितम् आच्छादितम, बिससूत्रेण मृगालतन्तुना संयतं बद्धं मुखम् अग्रदेशा यस्य तत्, आर्दे क्लिन्ने चन्दनपङ्के मलयजकर्दमे न्यस्ता स्थापिता बालमृगाल- वलयस्य नवीनबिसकङ्कणस्य मुद्रा चिह्नम् (अन्यो नोद्घाटयेदिति) यत्र तत्, नलिनीपत्रपुटं कमलिनीदल- पुटम् अपनीय तद्वसनावरणम् अपसार्य अदर्शयत् अवलोकन मकारयत् ।
उद्घाट्येति । उद्घाट्य उन्मुद्रय । कादम्बर्या प्रहितानि प्रेषितानि, अभिज्ञायते अवबुध्यते प्रेम एभिरिति अभिज्ञानानि स्नेहद्योत कचिह्नानि । मरकतवत् अश्मगर्भक्त् हरिन्ति हरिद्वर्णानि, व्यपनीता दूरीकृताः त्वचो वल्कलाानि येषां तानि, चार्वीः पेशलाः मञ्जरीः भजन्ति इति तानि, तथा क्षीरीणि रस- युक्तानि, पूगीफलानि क्रमुकानि । शुककामिन्याः कीररमण्याः सारिकाया इत्यर्थः । कपोलवत् गण्डवत् पाण्डूनि पाण्डुरवर्णानि, ताम्बूल्या नागवल्या दलानि पत्राणि । हरस्य महेशस्य चन्द्रखण्डवत् शशिश- कलवत् स्थूलानि स्थविष्ठानि शकलानि खण्डानि यस्य तत्तथोक्तं कर्पूरं घनसारञ्च । तथा अतिबहलैः अत्यन्ताधिकैः मृगमदानां कस्तूरीणाम् आमोदैः परिमलैः मनोहरं रमणीयम्, मलयजविलेपन चन्द- नानुलेपनञ्च ।
इह 'मरकतहरिन्ति' 'शुककामिनीकपोलपाण्डूनि, 'हरचन्द्रखण्डस्थूलशकलम्' एषु सर्वत्र लुप्तोप- मालङ्कारः, तस्य च मिथो नैरपेक्ष्येण संसृष्टिः ।
बैठाया। फिर मानो विगलित प्रेमरससे व्याप्त ईषद् हास्यरूप सुधा-लेपसे शुभ्रवर्ण अक्षरवाले वाक्योंमें आदर- सहित पूछने लगा—'केयूरक ! कहो, सखीजन और परिजन वर्गके सहित देवी कादम्बरी और भगवती महाश्वेता सब कुशल तो हैं ? विशेष प्रणयसे उत्पन्न हुए राजपुत्रके उस ईषद् हास्यसे केयूरक मानो स्नान कर गया हो और अनुलिप्त हो गया हो, इस प्रकार उसका तत्काल ही मार्गश्रम जाता रहा और प्रणाम-पूर्वक विशेष आदरसे उसने उत्तर दिया—'आज वह कुशलिनी हैं, जिसके सम्बन्धमें आपने इस प्रकार प्रश्न किया है' इतना कहकर, कमलके पत्तोंके एक संपुटको निकाल कर उसने दिखाया । वह पद्मपत्र-दलका संपुट पहले आर्द्रवस्त्र (रुमाल) से आच्छादित था, मृणाल-सूत्रसे उसका मुखभाग बद्ध था, एवं चन्दन-रसके लेपपर नूतन मृणाल-वलयकी छाप (मुहर) लगी हुई थी। उसके बाद उस पुटका उद्घाटन कर, उसके अन्दरमें कादम्बरीके द्वारा प्रेषित कितने ही अभिज्ञान उसने दिखाये । वह अभिज्ञान इस प्रकार था—जिसमें मरकत मणिके समान हरिद्वर्ण वल्कल-विहीन (छिली हुई), सुन्दरमञ्जरी समन्वित और क्षीरपरिपूर्ण कितने पूगीफल (दुधिया सुपारियाँ) थे, सारिका (तोते) के गण्डस्थल (गाल) के समान पाण्डुवर्ण कितने ही ताम्बूल थे, शिव-मस्तकस्थित चन्द्रखण्डके समान कर्पूरका बड़ा एक खण्ड (टुकटा) था और कस्तूरीके अतिप्रचुर सौरभसे मनोहर लगता चन्दनानुलेपन था । [इनको
१. आहततरमेवावोचत् । २. सार्द्रकर्पटावगुण्ठितम्, सार्द्रवल्कलावगुण्ठितम् । ३८ का०
६०२ कादम्बरी- [ कथायाम्-
हरश्च मलयजविलेपनम्। अब्रवीच्च—'चूडामणिचुम्बिना ^१कोमलाङ्गुलिविवरविनिर्गत-लोहितांशुजालेनाञ्जलिना देवमर्चयति देवी कादम्बरी, महाश्वेता च सकण्ठग्रहेण कुशलवचसा, पर्यस्त-शिखण्ड-माणिक्य-ज्योत्स्ना-स्नपित-ललाटेन च नमस्कारेण मदलेखा, क्षितितलघटितसीमन्त-मकरिकाकोटिकवणेन सकलकन्यालोकश्च, सचरणरजःस्पर्शेन च पादप्रणामेन तमालिका'। सन्दिष्टञ्च तव महाश्वेतया—'धन्याः खलु ते, येषां न गतोऽसि चक्षुषोर्विषयं^२ तथा नाम समक्षं भवतस्ते तुहिनशीतलाश्चन्द्रमया इव गुणा विरहे विवस्वन्मया इव संवृत्ताः^३ स्पृहयन्ति खलु जनाः कथमपि दैवे'पपादितायामृतोत्पत्तिवासरायैवातीतादिवसाय। त्वया वियुक्तं ^४निवृत्त-महोत्सवालसमिव वर्त्तते गन्धर्वराजनगरम्। जानासि च मां कृतसकल-
अब्रवीदिति । चूडामणिः शिरोमणिः तच्चुम्बिना तत्स्पर्शिना, कोमलाङ्गुलीनां मृदुकरशाखानां विवरेभ्यश्छिन्द्रेभ्यो विनिर्गतं विनिःसृतं लोहितं रक्तम् अंशुजालं हस्ततलकिरणसमूहो यस्य तेन, अञ्जलिना बद्धपाणिपुटेन, देवं भवन्तम् अर्चयति सम्मानयतीति सर्वत्रान्वीयते। सकण्ठग्रहेण स्नेहालिङ्गनसहितेन कुशलवचसा मङ्गलवाक्येन । पर्यस्तं मस्तकनमनाल्लभ्वितं यत् शिखण्डमणिवर्यं चूडारत्नं तस्य ज्योत्स्नया दीप्त्या स्नपितं परिष्कृतं ललाटं भालं यन्न तेन। क्षितितलेन भूमितलेन घटितः सम्बद्धः सीमन्तमकरिकायाः सीमन्तस्थायिमकरसदृशाभूषणस्य कोटिकोणः संमुखप्रदेशैकभागो यत्र तेन नमस्कारेण प्रणानेन सकलकन्यकालोकश्च समस्तकुमारिकाजनश्च। तथा चरणरजसःपादरेणोः स्पर्शेन सहेति तेन पादप्रणामेन चरणाभिवन्दनेन।
इह महाश्वेता प्रभृतीनामनेकानां कर्त्रीणाम् 'अर्चयति' इत्येकक्रिययाभिसम्बन्धात्तुल्ययोगितालङ्कारः।
सन्दिष्टमिति । सन्दिष्टं वाचिकं निवेदितम्। येषां चक्षुषोर्नयनयोर्विषयं गोचरं न गतो यातोऽसि त एव खलु निश्चयेन धन्याः, येषां गतोऽसि ते तु तव विरहेण तप्यन्त इत्यर्थः। धन्यत्त्वे कारणं साधु स्फोरयति-तथेति । भवतस्तव ते विख्याता गुणाः सौन्दर्यादयः, समक्षं प्रत्यक्षं चन्द्रमयाश्चन्द्रनिप्पन्ना इव तुहिनं हिमं तद्वत् शीतलाः शिशिरा आसन्, सम्प्रति तु विरहे वियोगे विवस्वन्मयाः संतापदायकत्वात् सूर्यनिश्चन्ना इव अस्माकं संवृत्ताः सञ्जाताः, अतएवैवंविधवियोगसन्तापाभावादेव येषां लोचनगोचरो न ते धन्या इत्याशयः।
इह 'तुहिनशीतला' इत्यत्र लुप्तोपमालङ्कारः, 'चन्द्रमया इव' 'विवस्वन्मया इव' इत्युभयत्र क्रियोत्प्रेक्षालङ्कारः, इत्येपामङ्गाङ्गिभावेन सङ्करः।
स्पृहयन्तीति। कथमपि दैवेन विधिना उपपादिताय निष्पादिताय, यस्मिन् वासरे दिवसे 'अमृतोत्पत्तिः पीयूषाविर्भाव आसीत् तस्मै अमृतोत्पत्तिवासरायैव, अतीतो गतो यो दिवसो वासरः तस्मै यत्र तव संमिलनमभूत् तस्मै इत्यर्थः जना इहत्या लोकाः खलु निश्चयेन स्पृहयन्ति वाञ्छन्ति । 'स्पृहेरीप्सित' इति सम्प्रदानत्वाच्चतुर्थी विभक्तिः ।
त्वयेति। वियुक्तं विरहितं निवृत्तेन दूरीभूतेन महोत्सवेन अलसं मन्दमिव। गन्धर्वराजस्य चित्ररथस्य नगरम् । 'अलसमिव' इत्यत्र गुणोत्प्रेक्षा ।
जानासीति। कृतसकलपरित्यागां विहितसमस्तपरित्यागाम् । अकारणपक्षपातिनम् अहेतुकसाहाय्य-
दिलाकर केयूरकने] कहा—'कोमल अङ्गुलियोंके विवरमेंसे निकलती रक्तवर्ण किरणोंका वर्षण करनेवाली चूडामणि स्पर्शी अञ्जलिद्वारा देवी कादम्बरी आपकी पूजा (सम्मान) करती है, महाश्वेता देवी प्रणया-(कण्ठा-)लिङ्गनके सहित कुशल-समाचार-पूर्वक आपका सम्मान-वर्द्धन करती है, मदलेखा अवनत शिरोरत्नकी प्रभासे रँगे ललाटदेशसे नमस्कारद्वारा आपका सम्मान-वर्द्धन करती है, और समस्त कन्याएँ भी सीमन्तके मकराकार अलङ्कारके अग्रदेश से भूतल स्पर्श कर नमस्कार द्वारा आपका सम्मान-वर्धन करती है, तथा तमालिका आपके चरण-रज-स्पर्शके साथ चरणमें प्रणाम कर अर्चना करती है।' और महाश्वेताने आपके समीप सन्देशा भेजा है कि—'जिनके आप दृष्टि-पथ नहीं हुए हैं, वे लोग ही धन्य हैं; क्योंकि—आपका गुणग्राम, समक्षमें चन्द्र-निर्मित होनेके कारण ही मानो शिशिरके समान शीतल लगते थे और अब वियोगके समय सूर्य-निर्मित होकर ही मानो हम लोगोंको सन्ताप दे रहे हैं। इस स्थानके सब लोग ही अमृतोत्पत्ति-दिनके समान दैवयोगसे आए पिछले दिनको किसी प्रकार फिर देखनेके इच्छुक हैं। यह गन्धर्व-राजधानी आपके विरहमें, महोत्सव-निवृत्तिके अनन्तर निस्तब्धके समान मन्द हो गयी हो ऐसी प्रतीत होती है। आप जानते ही तो हैं कि मैंने समस्त पदार्थोंका परित्याग कर दिया
१. क्वचित् 'विवर' इति पदं नोपलभ्यते । २. अविषयं । ३. वृत्ताः । ४. विनिवृत्त... । ५. महोत्सवानन्दम् ।
का० प्रहितेनशारूहरण० १०५ ] चन्द्रकला-विद्योतिनीसहिता । ६०३
परित्यागम्, तथाप्यकारणपक्षपातिनं भवन्तं द्रष्टुमिच्छत्यनिच्छन्त्या अपि मे वलादिव हृदयम् । अपि च बलवदस्वस्थशरीरा कादम्बरी, स्मरति च स्मेराननं स्मरकल्पं त्वाम्, अतः पुनरागमनगौरवेणार्हसीमां गुणवदभिमानिनीं कर्तुम् । उदारजनादरो हि बहुमानमारोपयति । अवश्यं सोढव्या चेयमस्मद्विजन-परिचयकदर्थना कुमारेण, भवत्सुजनतैव जनयत्यनुचितसन्देशप्रागल्भ्यम् । एष देवस्य शयनीये विस्मृतः शेषो हारः प्रहितः¹' इत्युत्तरीयपट्टान्तसंयतं सूक्ष्मसूत्रविवरै²-निःसृतैरंशुसन्तानैः संसूच्यमानं विमुच्य चामरग्राहिण्याः करे समर्पितवान् ।
अथ चन्द्रापीडः ‘महाश्वेताचरणाराधनतपःफलमिदं यदेवं परिजनेऽप्यनुस्मरणादिकं प्रसादभारमति महान्तमारोपयति देवी कादम्बरी' इत्युक्त्वा तत्सर्वं शिरसि कृत्वा स्वयमेव
कारिजन् । अनिच्छन्त्या अनभिलषन्त्या अपि मे मम हृदयं चेतः बलाद् हठादिव भवन्तं त्वां द्रष्टुमिच्छति दिदृक्षति । बलवदस्वस्थशरीरा अत्यधिकपीडायुक्तदेहा । स्मेराननं विकसितवदनं स्मरकल्पं मदनसदृशं त्वां भवन्तं स्मरति स्मृतिपथम् आनयति, अतः अस्माद्धेतोः पुनरागमनमेव द्वितीयवारोपस्थितिरैव गौरवं गुरुत्वसम्पादकं तेन । इमां कादम्बरीम् । गुणवन्तम् आत्मानं स्वम् अभिमन्यत इति ताम्, चन्द्रापीडसदृशोऽपि नमान्तिकमागच्छतीति गुणवत्यहमित्यात्मन्यभिमान इत्यभिप्रायः । कर्तुं विधातुम् अर्हसि शक्नोषि । हि यतः, उदारस्य महतो जनस्य आदरः सत्कारः, बहुमानं स्वस्मिन्नादराम् । इह सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।
ननु भूयोऽपि तत्र गमने महान् परिश्रमो भवेदित्याशङ्कायामाह—अवश्यमिति । अस्मद्विधानां गुणशून्यजनानामित्यर्थः परिचयेन या कदर्थना आत्मनोऽवमानः सा च अवश्यं नूनं कुमारेण भवता सोढव्या सौजन्यवशात् सहनीयेत्यर्थः । भवत्सुजनतैव स्वत्स्वजनतैव अनुचितसन्देशप्रागल्भ्यम् अयोग्यसन्देशपाण्डित्यं जनयति निष्पादयति । शयनीये भवतैव व्यवहृतायां तल्पे । प्रहितः प्रेषितः ।
इतीति । उत्तरीयपट्टान्तेन संख्यानवस्त्राञ्चलेन संयतं बद्धम्, सूक्ष्मसूत्राणाम् अतितनुतन्तूनां विवरैरन्धरैरिद्रैभ्यो विनिःसृतैः विनिर्गतैः, अंशुसन्तानैः किरणधारामिः संसूच्यमानम् अभिव्यज्यमानम् , विमुच्य वसनप्रान्तादुन्मुच्य चामरग्राहिण्या वालव्यजनधारिण्याः करे हस्ते समर्पितवान् दत्तवान् ।
अथेति । महाश्वेतायाः चरणयोः पादयोः आराधनमेव उपासनमेव तपः तस्य फलम् । परिजनेऽपि सेवकेऽपि मयीति शेषः । प्रसादभारम् अनुग्रहभारम् । तत्सर्वं पूगीफलादिकमुपहारम्, शिरसि कृत्वा मस्तके आरोप्य स्वयमेव आत्मनैव जग्राह गृहीतवान् ।
हैं; तो भी, आपके अकारण पक्षपाती होनेके कारण—मेरी इच्छा न रहने पर भी—मेरा हृदय, बलपूर्वक ही मानो आपको देखनेकी इच्छा करता है। विशेषतः कादम्बरीका शरीर भी अत्यन्त अस्वस्थ है। वह—प्रसन्नवदन और कन्दर्पतुल्य—आपका स्मरण करती है, इसलिए फिरके गौरवात्मक आगमनद्वारा आपको उसे गुणोंमें अभिमानिनी बनाना उचित है, क्योंकि—प्रधान उदार पुरुषोंके किए हुए आदरसे मनुष्योंके हृदयमें अभिमानका सञ्चार होता रहता है। मेरे समान लोगोंके साथ परिचय हो जानेके कारण इस प्रकारकी कदर्थना तो आपको अवश्य ही सह्य करनी होगी। आपके सौजन्यको देख कर ही, ऐसा अनुचित सन्देश भेजनेकी प्रगल्भता उत्पन्न हुई है। आपके विस्मरणवश यह हार शय्याके ऊपर छूट गया है, अतएव 'शेष' नामक इस हारको भेज दिया है।' इस प्रकार कह कर, उत्तरीयवस्त्रके अञ्चल (पल्ले) में बँधा हुआ, सूक्ष्म सूत्रकी बनावटमेंसे निकलती किरण-रेखाओंसे संसूचित (पहचान लिया जाता) इस हारको खोलकर उसने चन्द्रापीडके चामरधारिणीके हाथमें समर्पण कर (दे) दिया।
इसके बाद—यह, महाश्वेताकी चरणाराधनारूपो तपस्याका फल है कि मेरे समान परिजनके प्रति भी देवी कादम्बरीने इस प्रकार अनुस्मरणादिका अत्यन्त गुरुतर अनुग्रहभार आरोप किया है' यों कह कर चन्द्रापीडने उस समस्त उपहारद्रव्योंको अपनेसे ही मस्तक पर धारण कर ग्रहण किया। कादम्बरीके गण्डस्थल (गाल) से
१. क्वचिद् 'प्रहित' इति नास्ति ।
२. सूक्ष्मबलविवर ¨ ।