कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 633, कुल 709 में से
संदर्भ में पढ़ें| ५६४ | कादम्बरी- | [कथामुखम् |
|---|
लिनीं प्रविरल-कल्लोलानिल-शीतलां^१ वेलावनराजिमवततार तारापतिः । अभ्यर्णविरहविधुरस्य च कामिनीजनस्य निश्वसितैरिव^२ उष्णैर्म्लानिमनीयत चन्द्रिका । चन्द्रापीडवलोकनाहू-ढमदनेव कुमुद्दलोदरनीतनिशा पङ्कजेषु निपपात लक्ष्मीः । क्षणदापगमे च स्मृत्वा कामि-नीकर्णोत्पल-प्रहाराणाम्^३ उत्कण्ठितेष्विव क्षामतां व्रजत्सु पाण्डुतनुषु^४ वासगृहप्रदीपेषु, अन-वरतशर-क्षेप-खिन्नानङ्ग-निश्र्वासै-विभ्रमेषु^५ वहत्सु^६ तरुलता-कुसुमपरिमलेषु^७ प्रभातमातरिश्वसु^८,
रम्भा आसां कन्दलं समूहः वत्या अस्तीति ताम् । प्रविरला लघ्वाकारा ये कल्लोलानिलाः समुद्रस्य बृहत्तरङ्गपवनाः तैः शीतलां शिशिरां वेलावनराजिं तीरवर्त्तिवनपङ्क्तिम् अवततार अवतीर्णवान् अस्तोन्मुखो बभूवेत्यर्थः । अपरोऽपि जागरक्लान्तः स्वप्तुं निभृतशिशिरस्थानमाश्रयति । 'स्वप्नुमिव' इत्यत्र क्रियोत्प्रेक्षालङ्कारः ।
अभ्यर्णेति । चन्द्रिका कौमुदी, अभ्यर्णेन दिवसागमस्य समीपस्थायिना विरहेण प्रियविश्लेषेण विधुरस्य व्यग्रस्य कामिनीजनस्य सुन्दरीगणस्य, उष्णैः निश्वसितैः श्वासमारुतैः म्लानि ग्लानिम् अनी-यत प्रापत्, उष्णपवनेन मृदुकिसलयवदित्याशयः । दिवसोपस्थितेश्चन्द्रिकाया उज्ज्वलता विलुप्तेत्यर्थः। उक्तालंकारः ।
चन्द्रेति । चन्द्रापीडवलोकनेन चन्द्रापीडनिरीक्षणेन आरूढ उपस्थितो मदनः कामो यस्यां सा तथोक्तेव, लक्ष्मीः शोभा कापि कामिनी च, कुमुददलानां कैरवपत्राणाम् उदरेषु अभ्यन्तरेषु नीता व्यतिक्रान्ता निशा रात्रिरनया सा तथोक्ता सती, पङ्कजेषु कमलेषु निपपात अधितस्थौ, मदनविह्वला शैत्यसेवनाय कैरवेषु क्वापि कमलेषु च निपपात । निशायां कैरवाणां प्रफुटनात्तेषु शोभासीद्, दिवसो-पस्थिते तु सङ्कुचिततया तानि परित्यज्य प्रस्फुटत्सु कमलेषु प्राप्तेत्याशयः। उक्तालंकारः ।
क्षणदेति । अपि च, क्षणदापगमेन रात्रिशेषे, पाण्डुतनुषु, क्रमशॊ दिवसालोकप्रकाशाद्वियोगात्म्ले-च्छाशयः । वासगृहप्रदीपेषु वासमवनदीपकेषु कामिनीनां रमणीनां कर्णोत्पलैः श्रोत्रालङ्कारैः ये प्रहारास्ता-डनानि तेषां स्मृत्वा तान् विचिन्त्येत्यर्थः । कर्मणि षष्ठी । उत्कण्ठितेष्विव पुनस्तन्निमित्तं समुत्पन्नोत्सुके-ष्विव, क्षामतां क्षीणत्वं व्रजत्सु गच्छत्सु सत्सु । सुरतेप्सुना प्रियेण समाकृष्यमाणे वसने लज्जया कामिन्यः प्रदीपोपशमनाथं कर्णोत्पलं तदुपरि क्षिपन्ति, तं स्मृत्वा पुनस्तादृशप्रहारप्राप्त्यर्थमौत्सुक्यं प्रदीपानामित्य-भिप्रायः । उक्तालंकारः ।
अनवरतेति । अनवरतं निशायां कामुकान् प्रति निरन्तरं यः शरक्षेपः बाणवृष्टिस्तेन खिन्नस्य परिश्रान्तस्य अनङ्गस्य कामस्य ये निश्वासाः श्वासमरुतः तेषां विभ्रमा इव विभ्रमा विलासा येषु तेषु, तरुलताकुसुमानां वृक्षवल्लीपुष्पाणां परिमला विमर्द्दगन्धा येषु तेषु, प्रभातमातरिश्वसु प्रातःकालिक-पवनेषु वहत्सु चलत्सु सत्सु । इह 'विभ्रमविलासा' इत्यत्र लुप्तोपमालङ्कारः ।
लता हो यों, ताल, तमाल, ताली और कदली-वृक्षोंसे परिपूर्ण, एवं थोड़े-थोड़े जल-तरंगोंकी पवनसे शीतल, समुद्रतीरस्थ वनराजिके अभ्यन्तरमें चन्द्रमा क्रमशः उतर गया । वियोग-समयके समीप आनेसे विह्वल कामिनियोंके उष्ण निश्वाससे ही मानो ज्योत्स्ना (चाँदनी) मलिन हो (फीकी पड़) गयी । चन्द्रापीडको देखनेसे काममत्त होकर ही मानो शोभा, कुमुद-दलके अभ्यन्तर समाप्त-रात्रि को व्यतीत कर उस समयमें कमलोंके ऊपर जा पड़ी ! रात्रिशेषमें वह मन्द हुए शयनगृहके दीपक, कामिनियोंके कर्णोत्पल-प्रहारको स्मरण कर उत्कण्ठित होकर ही मानो पाण्डुशरीरसे क्षीण हो गये; रात्रिमें कामुकोंके प्रति निरन्तर बाण-वर्षण करनेसे परिश्रान्त (थके) कामदेवकी निश्वास वायुके समान विलास-सम्पन्न, एवं तरुलतोत्पन्न पुष्पोंके सौरभवाही प्रभातकालीन पवन बहने लगेः-
१. अविरल ।
२. निश्वसितैरिव ।
३... 'प्रहारात्, स्मृत्वाकामिनीकर्णोत्पलप्रहारेषु ।
४. क्वचिद् 'वास' इति पदन्न दृश्यते ।
५... 'निश्वास' ... ।
६. श्रमत्सु ।
७. क्वचित् 'ततः' इतिशब्दं न विद्यते ।
८. नामोदिषु ।