कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 632, कुल 709 में से
संदर्भ में पढ़ेंमदलेखाचन्द्रापीडयोरालाप० १०० ] चन्द्रकला-विद्योतिनीसहिता । ५६३
मनया परिगृहीतम् , किं पुनरमुनोपचारफल्गुना वचसा सन्देहदोलामारोप्यते' इति । स्थित्वा च कञ्चित् कालं कृतप्रस्तावा 'कथं राजा तारापीडः, कथं देवी विलासवती, कथमार्यः शुक-नासः, कीदृशी चोज्जयिनी, कियत्यध्वनि सा च, कीदृग् भारतं वर्षम् , रमणीयो वा मर्त्य-लोकः' इत्यशेषं पप्रच्छ । एवंविधाभिश्चान्याभिः कथाभिः सुचिरं स्थित्वोत्थाय कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं समादिश्य परिजनञ्च, शयनसौधशिखरमारुरोह । तत्र च सितदुकूलवितानतलास्तीर्णं शयनीयमलञ्चकार । चन्द्रापीडोऽपि तस्मिन्नेव शिलातले निर-भिमाननामभिरूपतामतिगम्भीरताञ्च कादम्बर्याः, निष्कारणवत्सलताञ्च महाश्वेतायाः सुज-नताञ्च मदलेखायाः, महानुभावताञ्च परिजनस्य, अतिसमृद्धिञ्च गन्धर्वराजलोकस्य रम्यताञ्च किम्पुरुषदेशस्य मनसा भावयन् केयूरकेण संवाह्यमानचरणः क्षणादिव क्षणदां 'क्षपितवान् ।
अथ क्रमेण कादम्बरीदर्शन'-प्रजागरखिन्नः स्वप्तुमिव ताल-तमाल-ताली-कदलीकन्द-
व्यञ्जितम् । अतएव उपचारं बाह्यव्यवहारं फल्गुना निस्तत्त्वेन व्यर्थेनेत्यर्थः 'अमुना वयम्' इत्यादिद्वचसा किं पुनः सन्देहदोलामारोप्यते कादम्बरी संशयविह्वला विधीयते । निर्णीतकृतविषये भूयो निर्णयेन सन्देहोद्गमस्य स्वतः सिद्धत्वादित्याशयः ।
स्थितेति । कृतप्रस्तावा प्रश्नेच्छायां गृहीतावसरा मदलेखा । कथं कीदृशः, तारापीडः तव तातः कीदृशी किम्स्वरूपा उज्जयिनी विशाला । सा उज्जयिनी कियत्यध्वनि अस्माद्देशात् कियददूर इत्यर्थः । रमणीयो मनोहरः । मर्त्यलोको मनुष्यलोक इति एवं प्रकारेण अशेषं समग्रं पप्रच्छ पृष्टवती ।
एवमिति । कथाभिर्वाताभिः सुचिरं बहुकालं स्थित्वा अवस्थाय । चन्द्रापीडस्य समीपशायिनं निकटे शयनं विधातुमित्यर्थः । परिजनं परिचारकवर्गं च समादिश्य सेवितुम् आज्ञाप्येति सम्बन्धः । शयनसौधं स्वापोचितप्रासादस्य शिखरम् उपरितलम् आरुरोह आरूढवती ।
तत्रेति । तत्र तस्मिन् सौधतले, सितं धवलं यद् दुकूलस्य क्षौमवस्त्रस्य वितानं चन्द्रातपः तस्य तले अधोभागे आस्तीर्णं पातितं शयनीयं तल्पम् अलञ्चकार शयनेन अलङ्कृतवती । चन्द्रापीडोऽपि । निरभि-मानतां निरहङ्कारत्वम् अभिरूपतां सौन्दर्यम्, अतिगम्भीरताम् अत्यन्तदुर्ज्ञेयस्वभावताम् । निष्कारणव-त्सलतां निर्हेतुकहितकारिताम् । सुजनतां सौजन्यम् । महानुभावताम् उदारस्वभावताम् । अतिसमृद्धिं विपुलसम्पत्तिम् । रम्यतां मनोहरताम् । संवाह्यमानौ स्वाङ्के आदाय सेवमानौ चरणौ पादौ यस्य सः । क्षणदां रात्रिं क्षपितवान् अतिवाहितवान् ।
अथेति । कादम्बर्या दर्शनेन निरीक्षणेन यः प्रजागरो मदनौत्सुक्येन जागरणं तेन खिन्नः क्लान्तः तारानतिस्तन्द्रः स्वप्तुं निद्रां विधातुमिव, तालस्तालवृक्षः, तमाळस्तापिच्छः, ताली वृक्षविशेषः, कदली
हैं, अतः इस बाहर के व्यवहारयोग्य निरर्थक वाक्यसे क्यों इसे सशयाकुल करते हैं।' इतना कहनेके अनन्तर थोड़ी देर ठहरकर जिज्ञासा करनेका अवसर ग्रहण कर ? उसने पूछा—'महाराज तारापीड कैसे हैं ? महारानी विलासवती कैसी हैं ? माननीय शुकनास कैसे हैं ? उज्जयिनी कैसी है ? यहाँसे वह कितनी दूर होगी ? भारतवर्ष कैसा है ? और मर्त्यलोक रमणीय है या नहीं ? इस प्रकार बहुत देर तक अन्यान्य प्रकारसे कथा-वार्ता होनेके पश्चात् कादम्बरी उठी और चन्द्रापीडके निकट शयन करनेवाले केयूरक और अन्य परिजनोंको परिचर्या करनेके लिए आज्ञा देकर अपने शयन अट्टालिका (महल) के ऊपर शिखर (ऊपरके तल) पर चढ़ गयी । वहाँ जाकर शुभ्रवर्ण पट्टवस्त्र-निर्मित चन्द्रातप (चाँदोवे) के नीचे बिछी हुए शय्या पर शयन कर उसको अलङ्कृत की । चन्द्रापीड भी उसी शिलातल पर रहकर, कादम्बरीकी निरहङ्कारता, सौन्दर्य और गाम्भीर्य, महाश्वेताका निष्कारण वात्सल्य, मदलेखाका सौजन्य, परिजनवर्गोंका उदार स्वभाव, गन्धर्वराजकी अत्यन्त समृद्धि और किन्नर देशकी रमणीयकताके विषयमें भावना करता था, इधर केयूरक उसका चरणयुगल दबाता था । इतनेमें ही निद्रावश हो गया और उस रात्रिको क्षणमात्रके समान व्यतीत किया ।
इसके बाद कादम्बरीके दर्शन करनेके लिए उत्कण्ठावश जागनेके कारण परिश्रान्त होकर मानो शयन करने
१ ॰"प्रजागरखिन्नः ।