कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 630, कुल 709 में से
संदर्भ में पढ़ेंचन्द्रापीडालापवर्णना-१९ ] चन्द्रकला-विद्योतिनीसहिता । ५६१
नाम्; ज्योत्स्नाशुचिनी कल्पद्रुमहुकूले बिभ्रतीम्, तत्कालारमणीयेन वेषेण साक्षादिव चन्द्रो- दयदेवताम्, मदलेखया दत्तहस्तावलम्बां कादम्बरीमपश्यत् । आगत्य च सा प्रीतिपेशलतां दर्शयन्ती प्राकृतेव परिजनोचिते भूतले समुपान्विशन् । चन्द्रापीडोऽपि 'कुमार ! अध्यास्यतां शिलातलमेव' इत्यसकृदनुबध्यमानोऽपि मदलेखया भूमिमेवाभजत ।
अथ सर्वासु चासीनासु तासु मुहूर्तभिव स्थित्वा वक्तमुपचक्रमे चन्द्रापीडः- 'देवि ! दृष्टिपातमात्रप्रीते दासजने सम्भाषणादिकस्यापि प्रसादस्य नास्त्यवकाशः, किमुतैतावतोऽनु- ग्रहस्य । न खलु चिन्तयन्नपि निपुणं तमात्मनो गुणलवमवलोकयामि, यस्यायमनुरूपोऽनुग्र- हातिरेकः । अतिसरला तवेयमपगताभिमानमधुरा च सुजनता, यदभिनवसेवकजनेऽप्येव- मनुरुध्यते । प्रायेण मामुपचारहार्यमदक्षिण देवी मन्यते । धन्यः खलु परिजनस्ते, यस्यो-
लङ्कारीकृतं कुमुददलं कैरवपत्रं दधानां धारयन्तीम् । ज्योत्स्ना चन्द्रिका तद्वद् शुचिनी श्वेतवर्णे, कल्प- द्रुमहुकूले मन्दारवृक्षोत्पन्नसूक्ष्मवस्त्रद्वन्द्वम्, बिभ्रतीं दधतीम् । तत्कालारमणीयेन तत्समयमनोहरेण वेषेण नेपथ्येन साक्षात् प्रत्यक्षगतां चन्द्रोदयदेवतामिव शरद्युद्वनदेवतामिव । दत्तः अर्पितः हस्तावलम्बो निज- करावलम्बनं यस्यास्ताम् ।
इह 'इन्दुकलाकलिका' इत्यत्र किं रूपकं किं वोपमेति सन्देहालङ्कारः । 'इतरामिव' 'चन्द्रोदयदे- वतामिव' इत्युभयत्र जात्युत्प्रेक्षालङ्कारः ।
आगत्येति । प्रीतेः स्नेहस्य पेशलतां सौन्दर्यम् । प्राकृतेव सामान्ययोषिदिव दर्शयन्ती प्रकटयन्ती परिजनोचिते सेवकजनयोग्ये । समुपान्विशत् समुपविष्टवान् । अध्यास्यताम् अधिष्ठीयताम् । असकृद् वारंवारम् अनुबध्यमानोऽपि अनुरूध्यमानोऽपि । भूमिमेव पृथिवीमेव अभजत आश्रितवान्, पृथिव्या- मेवोपविष्टवानिति । तात्पर्यम् ।
अथेति । आसीनासु उपविष्टासु । उपचक्रमे उपक्रमं कृतवान् । दृष्टिपातमात्रप्रीते केवलावलोकने- नैव प्रसन्ने दासजने सेवकजने मयीति शेषः । सम्भाषणादिकस्यापि मधुरालापादिकस्यापि प्रसादस्य अनुग्रहस्य अवकाशः अवसरो नास्ति न विद्यते । एतावतः मधुरालापाद्यागमनपर्यन्तस्य । निपुणं सवि- शेषं यथा स्यात्तथा चिन्तयन्नपि विचारयन्नपि, आत्मनः स्वस्य तं गुणलवं गुणलेशं खलु निश्चयेन न अवलोकयामि न पश्यामि । यस्य गुणलवस्य । अनुरूपो योग्यः अनुग्रहातिरेकः प्रसादोत्कर्षः ।
अतीति । तव भवत इयं प्रत्यक्षतो दृश्यमाना सुजनता सौजन्यम्, अतिसरला छलादिरहिता, अपगतो दूरीभूतः अभिमानोऽहङ्कारो यस्याः सा चासौ अतएव मधुरा मनोहरा चेति । अत्र हेतुं दर्श- यति-यदिर्ति । यद् यस्मात् कारणात् अभिनवे नूतने सेवकजनेऽपि भृत्यजनेऽपि एवम् अनेन प्रकारेण अनुरुध्यते प्रीत्युपचारः क्रियते सा सुजनतेत्यर्थः । अवहेलनास्थानेऽपि दर्शितायाः सुजनताया माधुर्यं भवेदेवेत्याशयः ।
प्रायेणेति । देवी कादम्बरी, मां चन्द्रापीडम् उपचारेण मधुरालापादिबाह्याचारेण हार्यम् आयत्ती- कर्तुं योग्यम्, अतएव अदक्षिणम् अनुदारस्वभावम् अनुग्रहमिति तात्पर्यम् मन्यते जानाति अन्यथैवं
एक कुमुददल धारण कर रखी थी, ज्योत्स्नाके समान शुभ्रवर्ण कल्पवृक्षके वस्त्रन दाः सूक्ष्मवस्त्र पहन रखे थे। उस समयमें मनोहर लगते वेषसे साक्षात् चन्द्रोदय-देवताके समान आकर स्नेहका सौन्दर्य दिखाती परिजनों के योग्य भूतल पर, सामान्य स्त्रीके समान वह बैठ गई, यह देखकर-'राजकुमार आप शिलातलके ऊपर ही बैठे रहिये'-इस प्रकार मदलेखा द्वारा बारंबार अनुरोध करने पर भी, चन्द्रापीड भूमि पर ही बैठा ।
इसके बाद सब कन्याओंके बैठ जाने पर मानो क्षण भर ठहर कर वह कहनेके लिए आरम्भ किया-देवि ! केवल दृष्टिपात करने पर ही जो व्यक्ति सन्तुष्ट हो जाता है, उस दासके प्रति सम्भाषणादि अनुग्रहका भी प्रयोजन नहीं है, अतएव ऐसे बड़े अनुग्रहका तो कहना ही क्या है। विशेष सूक्ष्म विचार करने पर भी मैं अपनेमें ऐसा गुणलेश भी नहीं देखता जो ऐसे महान् अनुग्रहके अनुरूप हो । आपकी यह सुजनता अत्यन्त सरल और अभिमान-रहित होनेके कारण मधुर है, अत एव यह अभिनव सेवक के प्रति भी इस प्रकार से उपस्थित हुई है ।
१. प्राकृते । २. कचित् 'अथ' इति न विद्यते । ३. क्वचिच 'तासु' इत्यपि नोपलभ्यते । ४. दृष्टिमात्रप्रीते । ५. क्वचिदिह 'न'कारोऽधिको दृश्यते ।