कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 627, कुल 709 में से
संदर्भ में पढ़ें५८८ कादम्बरी— [ कथायाम्-
तत्कालविजृम्भितेन च कादम्बरीहृदयरागसागरेणेवै आपूरिते सन्ध्यारागेण जीवलोके, कुसुमायुधानलदह्यमानहृदय२सहस्रधूम इव जनितमानिनीनयनवारिणि३ विस्तीर्य्यमाणे तरुणतमालत्विषि तिमिरे, दिक्करि-करावकीर्ण-शीकरासारँ इव श्वेतायमानतारागणे गगने,५ जातायाञ्चादर्शनक्षमायां वेलायां सौधशिखरादवततार कादम्बरी, क्रीडापर्वतनितम्बाच्च चन्द्रापीडः ।
ततोऽचिरादिवै गृहीतपादः प्रसाद्यमान इव कुमुदिनीभिः, कलुषमुखीः कुपिता इव
तत्कालेति । अपि च, तत्काले तस्मिन् समये विजृम्भितेन प्रसूतेन, कादम्बर्या हृदयस्य चेतसः रागसागरेणेव चन्द्रापीडं प्रत्यनुरागसमुद्रेणेव सन्ध्यारागेण, जीवलोके संसारे आपूरिते सति । इह 'हृदयरागसागरेणेव' इत्यत्र निरङ्गकेवलंरूपकं श्रौतोपमा चेत्युभयोरेकाश्रयानुप्रवेशसङ्करः ।
कुसुमेति । कुसुमायुधः काम एव अनलो वह्निः तेन दह्यमानं ज्वाल्यमानं यत् हृदयसहस्रं वियोगिजनचेतःसमूहः तस्य धूमे बाष्प इव, जनितानि स्वामिवियोगादुत्पादितानि मानिनीनां मानवतीनां रमणीनां नयनवारीणि नेत्रजलानि ( अश्रूणि ) येन यस्मिन्, तथा तरुणतमालस्येव अभिनवतापिज्छवृक्षस्येव विट् कान्तिर्यस्य तस्मिन्, तिमिरे अन्धकारे विस्तीर्यमाणे विस्तारं प्राप्यमाणे सति ।
इह 'कुसुमायुधानल' इत्यत्र निरङ्गकेवलंरूपकम्, 'धूम इव' इत्यत्र जात्युत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः । अस्य पुनः 'तरुणतमालत्विषि' इत्यत्र विद्यमानया लुप्तोपमया संसृष्टिः ।
दिगिति । गगने आकाशे, दिक्करिभिर्दिग्गजैः करैः शुण्डादण्डैः विक्षीर्णा विक्षिप्तः शीकरासारः अम्बुकणधारा यत्र तस्मिञ्श्च श्वेतायमानः श्वेतवदाचरमाणः तारागणो नक्षत्रमण्डलं यस्मिन् तथोक्ते सति अम्बुकणधारानक्षत्रमण्डलयोः साम्यादित्याशयः ।
जातायामिति । किञ्च, अदर्शनक्षमायाम् अन्योन्यावलोकनायोग्यायां वेलायां काले जातायाम् उत्पन्नायाम्, सौधशिखरात् प्रासादशृङ्गात् कादम्बरी, क्रीडापर्वतनितम्बाच्च क्रीडागिरिपश्चाद्भागाच्च चन्द्रापीडः अवततार इत्यन्वयः ।
तत इति । ततस्तदनन्तरम्, कुमुदिनीभिः कैरविणीभिः, गृहीतो घृतः पादो रश्मिश्चरणश्च यस्य सः प्रसाद्यमानः प्रसन्नीक्रियमाण इव सन् सुधासूतिश्चन्द्रमाः अचिरात् अल्पकालेनैव उद्गात् उदयं प्राप्तवान् इत्युत्तरेण सम्बन्धः । इह कुमुदिनीति सुधासूतिरिति पुंल्लिङ्गाभ्यां च पादप्रसादनरूपकार्येण च कुमुदिनीषु मानिनीव्यवहारसमारोपात् श्लेषानुप्रणिता समासोक्तिः, प्रसाद्यमान इव' इत्यत्र क्रियोत्प्रेक्षा चेत्युभयोरेकाश्रयानुप्रवेशसङ्करः ।
कलुषेति । कलुषाणि अन्धकारावच्छन्नानि क्रोधेन मलिनानि च मुखानि अग्रभागाः वदनानि च यासां ताः, कुपिता इव क्रुद्धा इव आशा दिशः प्रसादयन् ज्योत्स्नाभिः श्वेतीकुर्वन् शान्तयंश्च । इहापि प्राग्वदलङ्कारः ।
अनुरागसागरके समान तत्काल वृद्धि हुए सन्ध्या-राग से जब समस्त भुवन परिपूर्ण हो गया, कामानलमें जलते हजारों विरहियोंके हृदयोंमेंसे निकलते धूमके समान—मानिनियोंके नयनोंमेंसे अश्रुधारा उत्पन्न करता—नूतन तमालवृक्षके समान रंगका अन्धकार जब सर्वत्र विस्तृत होने लगा; दिग्गजोंके शुण्ड (सूँड़) द्वारा विक्षिप्त (छिड़के) हुए मानो जल-कणके समान तारागणसे जब आकाश श्वेतवर्ण दीखने लगा और अन्धकार उपस्थित हो जानेके कारण परस्पर दीख नहीं पड़ने का समय उपस्थित हुआ, तब कादम्बरी अट्टालिका (महल) के शिखर परसे नीचे उतरी और क्रीडा-पर्वत के शिखर पर से चन्द्रापीड भी उतरा ।
उसके बाद अचिरकालमध्यमें ही पाद (किरण, चरण) ग्रहण करके कुमुदिनियाँ जिनको प्रसन्न करतीं
१ ॰रागरससागरेणेव । २ ॰चक्रवाकहृदय ॰॰ । ३ ॰॰ नयनातारावारिणि । ४ ॰॰ आकीर्ण ॰॰॰ । ५. गगने ऋते । ६ नचिरादिव ।