कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 67, कुल 709 में से
संदर्भ में पढ़ें१८ | कादम्बरी- | [ कथामुखे-
मुखरित¹-कूलया वेत्रवत्यो परिगता विदिशाभिधाना नगरी राजधान्यासीत् ।
स तस्याञ्च ³विजिताशेष-भुवनमण्डलतया विगतराज्यचिन्ताभारनिर्वृतः, द्वोपान्तरागतानक-भूमिपाल-मौलिमाला-लालित-चरणयुगलः वलयमिव लीलया भुजेन भुवनभारमुद्वहन्, अमरगुरुमपि प्रज्ञयोपहसद्भिरनेककुलक्रमागतैरसकृदालोचित-नीतिशास्त्र-निर्मलमनोभिरलुब्धैः स्निग्धैः प्रबुद्धैश्चामात्यैः परिवृतः, समानवयोविद्यालङ्कारैरनेकमूर्द्धाभिषिक्त-पार्थिवकुलोद्गतैरखिल-कलाकलापालोचन-कठोरमतिभिरतिप्रगल्भैः कालविद्भिः
सम्भवं रक्तचूर्णकमिति यावद् 'सिन्दूरं नागसम्भवम्' इत्यमरः, 'सिन्दूरं तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके' इति मेदिनी, तेन सन्ध्यायमानं सन्ध्यावदाचरत् रक्तीभूतं सलिलं जलं यस्यास्तया तथोक्त्या । उन्मदानाम् उत्कटमदानां कलहंसानां कादम्बानां कुलस्य सङ्घस्य यः कोलाहलोऽनभिव्यक्तरवः तेन मुखरितं शब्दाममानीकृतं कूलं तटं यस्यास्तथा तथोक्त्या । वेत्रवत्या तन्नामिकया नद्या परिगता परिवेष्टिता ।
अत्र कलिकालेत्यादिविशेषणे पुञ्जीभूतस्वोत्रेक्षालङ्कारः आर्या उपमालङ्कारश्च, त्रिभुवनेत्यादिविशेषणे द्रव्योत्प्रेक्षालङ्कारः, कुचतटास्फालनेन ऊर्मिमालाया जर्जरितत्वासम्बन्धेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्त्यलङ्कारः, सन्ध्यायमानेत्यभ्दुतोपमा चेत्येतेषां परस्परापेक्षाभावेन तिलतण्डुलवत् संसृष्टिरलङ्कारः ।
स तस्यामिति । स राजा (शूद्रकः) तस्यां विदिशानगर्याम् अतिचिरं बहुसमयं प्रथमे आद्ये वयसि प्राणिनां कालकृतावस्थाविशेषे सुखम् आनन्दो यथा स्यात्तथा उवास वसतिं चक्रे इति सम्बन्धः । वयसः केचित् कुमारादिभेदेन व्यवस्थीं मन्यन्ते तद्यहि—
'पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥' इति
दर्शनात् । केचिच्च चतुरवस्थां मन्यन्ते, तथादि—
'आद्ये वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति ॥'
अत्र प्रथमान्तपदानि राजविशेषणानि, तृतीयान्तपदानि च सचिवानां राजपुत्राणाञ्च विशेषणानि । तन्न राजविशेषणं—विगतेति । विगती दूरीभूतो यो राज्यचिन्ताभारस्तेन निर्वृतः सुनिश्चन्तः । तत्र कारणमाह—विजितेति । विजितानि स्वाधीनीकृतानि अशेषाणि सकलानि भुवनमण्डलानि चतुर्दशभुवनानि येन तस्य भावस्तया तथोक्त्या । एकस्माद् द्वीपान्द्विग्ना ये द्वीपास्ते द्वोपान्तराणि तेभ्य आगतानां समायातानाम् अनेकभूमिपालानां बहुतरमहीपतीनां मौल्यो मुकुटानि शिरांसि वा तेषां मालाः स्रजः श्रेणयो वा ताभिलालितं सादरं संस्पृष्टं चरणयुगलं पादयुग्मं यस्य स तादृशः । वलयं कटकभिव 'कटकं वलयोऽस्त्रियाम्' इत्यमरः, लीलया अनायासेन । भुवनभारं संसारवीवधम् उद्वहन् धारयन् । प्रज्ञया धिया 'धीः प्रज्ञा शेमुषी मतिः' इत्यमरः, अमरगुरुं बृहस्पतिभपि उपहसद्भिः उपहासं कुर्वद्भिः, अनेककुलक्रमागतैः वंशपरम्परया अमात्यपदामूढैर्न त्वाधुनिकैरित्यर्थः, असकृद् वारंवारम् आलोचितैः अनुशीलितैः नीतिशास्त्रैः राजोचितव्यवहारबोधकग्रन्थैः निर्मलानि स्वच्छीकृतानि मनांसि येषां तैस्तथोक्तैः । अलुब्धैः लोभशून्यैः, अन्यथा प्रच्छन्नरूपेण द्रव्यग्रहणादिना राज्ञः क्षेत्तमपि विदद्युरित्याशयः । स्निग्धैः वत्सलैः 'स्निग्धस्तु वत्सलः' इत्यमरः, प्रबुद्धैः जागरितैः कार्यशैर्वा । अनेके बहवो ये मूर्द्धाभिषिक्ताः ब्राह्मणेम्यः क्षत्रियासु समुत्पन्ना मूर्द्धाभिषिक्तास्तेषाम्, पार्थिवानां महीपतीनाञ्च कुलानि वंशास्तेभ्यः तद्गता उत्पन्नास्तैस्तथोक्तैः, अखिलानां समग्राणां कलानां नृत्यगीतादीनां कलापस्य समुदायस्य आलोचनेन विमर्शेन कठोरा, शास्त्रे परिपक्वा मतयो धियो येषां तैस्तथोक्तैः, अतिप्रगल्भैः प्रतिभाान्वितैः 'प्रगल्भः प्रतिभाान्विते' इत्यमरः,
वह अपनी युवावस्था में बहुत दिनों तक सुख के साथ उस नगरी में निवास करता रहा । उसने सम्पूर्ण पृथ्वी को जीत लिया या इसलिए वह राज्य-भार की चिन्ता से मुक्त होकर निश्चिन्त हो गया था । अनेक द्वीपों से आये हुए राजा अपनी मुकुट-मालाओं से उसके चरणों की पूजा किया करते थे । वह अनेक मन्त्रियों से घिरा रहता था जो अपनी प्रतिभा से वृहस्पति को भी हँसी सी उड़ानेवाले, वंश-परम्परा से अपने पदों पर आसीन और निरन्तर नीतिशास्त्र का मनन-चिन्तन करने से निर्मल-हृदय, निर्लोभी, हित-चिन्तक तथा जागरूक थे । वह अनेक राजपुत्रों के साथ आमोद-प्रमोद में लगा रहता था; जो अवस्था, विद्या तथा आभूषणों में उसी के समान थे, विभिन्न श्रेष्ठ राजाओं के वंशों से उत्पन्न थे, अनेक कलाओं के मनन से परिपक्वबुद्धि तथा अत्यन्त प्रखर थे ।
१. मुखरीकृत । २. वेत्रवत्या सत्या, वेत्रवत्या सरिता । ३. तस्यामवन्ताशेष ।