कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 671, कुल 709 में से
संदर्भ में पढ़ें६३२ कादम्बरी- [ कथायाम्-
स्थास्यति चन्द्रापीड इति । महाश्वेतायाश्च सप्रदक्षिणं शिरसा पादौ वन्दनीयौ । मदलेखायाश्च कथनीयः प्रणामपूर्वमशिथिलः कण्ठग्रहः । गाढमालिङ्गनीया च तमालिका । अस्मद्वचनादशेषः प्रष्टव्यः कुशलं कादम्बरीपरिजन्ः, रचिताञ्जलिना च भगवानामन्त्रणीयो हेमकूटः' इति ।
एवमादिश्य तम्-‘सुहृदादि^१-साधनमक्लेशयता शनैः शनैर्गन्तव्यम्^२’ इत्युक्त्वा वैशम्पायनं स्कन्धावारभारे^३ न्ययुङ्क स्वयमपि च तथारूढ एव गमनहेला-हर्ष-हेपारव-कम्पित-कैलासेन खुर-ताण्डव-खण्डितभुवा कान्त-कुन्त-लता-वनवाहिना तरुण-तुरगप्रायेणं^४
इह वृत्त्यनुप्रासोऽलङ्कारः । यद्यपि कादम्बर्या निश्रीयमानभावित्पलीत्वेन निखिलोऽपि व्यवहार उपपद्यते, तथापि शिष्टाचारद्योतनेन भक्तिभावप्रकाशः अत्यन्तप्रीत्युपपादनार्थमित्यवधेयम् ।
महाश्वेतेति । सप्रदक्षिणं प्रदक्षिणासहितं यथा स्यात्तथा शिरसा मस्तकेन पादौ चरणौ वन्दनीयौ नमस्कारणीयौ । एतस्याः अत्यन्तहितैषितया तपस्वितया च केवलं सस्नेहा भक्तिरेव प्रकटिता । प्रणामपूर्वकं नमस्कारपूर्वकं यथा स्यात्तथा अशिथिलो गाढः, कण्ठग्रह आलिङ्गनम् , कथनीयो वाच्यः । एतस्यास्तु कादम्बर्याः सहचरीत्वेन तुल्यस्थानपातितया नमस्कारविज्ञापने म्, तद्वलन्वितत्वेन किञ्चिन्न्यूनतया च अशिथिलकण्ठग्रहनिवेदनसाहसम् । गाढम् अशिथिलं यथा स्यात्तथा आलिङ्गनीया आश्लेषणीया । स्वस्य तु कादम्बर्याः परिजनत्वविज्ञापनात् , तुल्यस्थानपातितया स्नेहस्थानतया च परिजनीभूतायास्तमालिकायाः केवलमशिथिलाश्लेषनिवेदनम् । अस्मद्वचनात् अस्मद्वाक्यात् अशेषः समग्रः कादम्बरीपरिजन्ः कादम्बरीसेवकवर्गः कुशलं श्रेयः प्रष्टव्यो जिज्ञासितव्यः । परिजनेषु कुशलप्रश्नविज्ञापमन्तु तेभ्यः सेवाप्राप्त्या स्नेहोदयात् कादम्बर्याः स्नेहाकर्षणाय तेष्वपि स्वीयत्वद्योतनस्यावश्यकत्वाच्च । रचितो विहितः अञ्जलिः हस्तपुटद्वयसंयोगो येन तेन, भगवान् हेमकूटः तन्नामको गिरिः आमन्त्रणीयः सम्भाषणीयः । एतदामन्त्रणविज्ञापनमपि च कादम्बर्या एव स्नेहाकर्षणाय तत्स्नेहायत्ततत्स्नेहद्योतनपरत्वादित्याशयः ।
एवमिति । तं मेघनादम् आदिश्य आज्ञाप्य, सुहृदादि मित्रराजवर्गप्रभृतिकम् , साध्यते संग्रामादिकर्मनेनेति साधनं सैन्यम् , अक्लेशयता यथावसरम् अशनस्वापादिसम्पादनेन खेदमविदधता त्वयेति शेषः । न्ययुङ्क्त नियोजितवान् ।
स्वयमिति । तथा प्रागुक्तदिशा आरूढ एव आरोहणं कृत एव इन्द्रायुधमिति शेषः । गमनं प्रस्थानमेव हेला विलासः तया यो हर्षः प्रमोदः तस्माद् यो हेपारवः तेन कम्पितश्चालितः कैलासो गिरिर्येन तेन । खुराणां शफानां ताण्डवेन उद्धतनृत्येन दृढाहननेनेत्यर्थः खण्डिता, विदारिता भूः पृथिवी येन तेन । तथा कान्ता रमणीया कुन्ता भल्लनामकास्त्रविशेषा लम्ब्यमानत्वाल्लत्ता इव तासां वनं समूहं वहति धारयतीति तेन । तरुणा युवकाः तुरगा अश्वाः प्राया अधिका यत्र तेन, अश्वसैन्येन तुरगस्कन्धावारेण अनुगम्यमानः
कर फिरसे देवीके चरणारविन्दोंकी सेवा करनेके आनन्दका अनुभव किए विना रह सकेगा । प्रदक्षिण करनेके साथ मस्तकद्वारा महाश्वेताके चरणोंका वन्दन करना । मदलेखासे प्रणाम-पूर्वक गाढ़ आलिङ्गन कहना । तमालिकाका गाढ़ आलिङ्गन करना । और मेरे कथनानुसार देवी कादम्बरीके समस्त परिजनोंसे कुशल-मङ्गल पूछना और अञ्जलि बाँध कर ( हाथ जोड़ कर ) माहात्म्यशाली हेमकूट-पर्वतसे सम्भाषण करना ।'
इस प्रकार मेघनादको आज्ञा देकर वह वैशम्पायनसे कहने लगा—'वैशम्पायन ! तुम मित्रराजाओंकी सेनाको यथासमय भोजन-शयनादि क्लेश न पहुँचे इस प्रकार धीरे-धीरे जाना, यों कहकर वैशम्पायनको सैन्यरक्षाके ऊपर नियुक्त किया । और आप भी उसी तरह घोड़े पर बैठे-बैठे, नूतन कादम्बरी वियोगके कारण शून्यमन होने पर भी, अपने पल्ल्यन (जीन) में संलग्न देहवाले और दूसरे घोड़े पर चढ़े चलते पत्र-वाहकसे उज्जयिनीकी वार्ता पूछता-पूछता प्रस्थान किया (चल निकला) । हेलाके साथ गमनके साथ आनन्दसे हेषा-रव (हिन-हिनाहट) करके कैलास पर्वतको कम्पित कराता, खुरों (टापों) के आघातसे भूतलको विदीर्ण कराता, सुन्दर लता-समूहके समान लम्बे-लम्बे कुन्त नामक अस्त्रों (भालों) को धारण करता, बहुसंख्यक तरुण-वयस्क
१. सुहृदापि । २. आगन्तव्यम् । ३...भारे । ४. खुरपातनताण्डव-खण्डित-भूमण्डलेन तुरगप्रायेण ।