कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 670, कुल 709 में से
संदर्भ में पढ़ेंमेघनादाय सन्देशकथन० ११४ ] चन्द्रकला-विद्योतिनीसहिता। [ ६३१
न खलु देवीं प्रति प्रवललज्जातिभारमन्थरं मे हृदयं यथा महाश्वेतां प्रति । नियतमेनामली- काध्यारोपणवर्णितास्मद्गुणसम्भारामस्थानपक्षपातिनीमसकृदुपालप्स्यते देवी । तत् किं करोमि, गरीयसी गुरोराज्ञा प्रभवति¹ देवमात्रकस्य², हृदयेन तु हेमकूटनिवासव्यसनिना लिखितं जन्मान्तरसहस्रस्य दास्यपत्रं³ देव्याः। न दत्तमस्याटविकस्य गौल्मिकेनेव⁴ देवीप्रसादेन गन्तुम्, सर्वथा गतोऽस्मि पितुरादेशादुज्जयिनीम् । प्रसङ्गतोऽसज्जनकथा⁵-कीर्त्तनेषु स्मर्त्तव्यः खलु चन्द्रापीडचण्डाल⁶ः। मा चैवं मंस्थाः, यथा जीवन् पुनर्देवीचरणारविन्द-वन्दनानन्दमनुभूय⁷
निष्प्रयोजनाः, महतां श्रेष्ठानां प्रसादः अनुग्रह एव अमृतं पीयूषः तत्पूर्णा दृष्टयो निरीक्षणानीति प्रमादा- मृतदृष्टयः सुस्निग्धा दृष्टिपाता इति तात्पर्यम्, पश्चाद् वैलक्ष्यं त्रपां जनयन्ति उत्पादयन्ति, स्वीयनिन्दा- वशादित्याशयः। इह सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः।
नेति। देवीं कादम्बरीम्। प्रबला नितान्तगुरुतरा या लज्जा त्रपा तस्या अतिभारेण अत्यन्तभारेण मन्थरं जडम् । ननु भवतश्चित्तं कथं महाश्वेतां प्रत्येव भिन्नमतिगुरूज्जातिभारमन्थरमित्यत आह— नियमिति। देवीं कादम्बरी, अलीकाध्यारोपणेन असत्याध्यासेन वर्णितः स्तुतः अस्मद्गुणानां सम्भारः समूहो यया ताम्, तथा अस्थाने अनधिकारिणि पक्षपातिनी ताम्, एनां महाश्वेतां नियतं नूनम् असकृत् वारंवारम् उपालप्स्यते तिरस्करिष्यति तद्विश्वासेन स्वस्यापि पक्षपातस्य व्यर्थत्वादित्याशयः। इह वाक्यार्थहेतुकं काव्यलिङ्गम् ।
तर्हि किं देवीं (कादम्बरी) सर्वथा विस्मृतवानस्येवेत्यत आह—तदिति। तत्किं करोमि कोऽप्युपायो नास्तीत्यर्थः, यतः गुरोः पितुः आज्ञा निदेशः देहमात्रकस्य केवलं देहस्य प्रभवति तदुत्पन्नत्वादाधिपत्यं कर्त्तुं शक्नोति, अत एव केवलं देह एवोज्जयिनीं गमिष्यतीत्याशयः, एतन्निमित्तक एव कृञ्प्रत्ययः कप्रत्ययः। तु किन्तु हेमकूटनिवासे व्यसनि आसक्तिमत् तेन हृदयेन (कर्त्रा), देव्याः कादम्बर्याः समीपे नास्यैव जन्मनः कृते, अपि तु जन्मान्तरसहस्रस्य दास्यपत्रं लिखित्वा दत्तम् अर्पितम्, अतो हृदयं तत्स- मीपे स्थास्यतीति न तदनुग्रहं कथङ्कारमपि विस्मरिष्यामीत्याशयः।
विस्मरणाभावे अन्यदपि कारणान्तरं दर्शयति—गौल्मिकेनेति सैन्याधिपतिना, आटविकस्य वनेचर- स्येव, देव्याः कादम्बर्याः प्रसादेन अनुग्रहेण, अस्य महल्लक्षणस्य पुंसः गन्तुं न दत्तम्, सैन्याधिपतिर्यथा चपलं वनेचरं नियमयति तथा देव्याः प्रमादो मामपीत्यर्थः। नन्वेवं कथं प्रस्थातुं शक्नोषीत्यत आह— सर्वथेति। पितुरादेशात् तातनिदेशात् केवलं देहमेव याति न पुनर्हृदयं, तस्य कादम्बर्या अनुग्रहेणावद्ध- त्वादिति सर्वथा गन्तुं न शक्नोत्येवेत्याशयः। इहोपमालङ्कारः। 'गुल्मः स्तम्बे प्लीह्नि घटसैन्ययोः सैन्य- रक्षग' इति विश्वः।
प्रसङ्गत इति। असज्जनकथाकीर्त्तनेषु असाधुजनोदन्तोच्चारणेपु चन्द्रापीड एव चण्डालः चन्द्रापीड- चण्डालः खलु निश्चयेन स्मर्त्तव्यः स्मरणीयः, प्रसादकर्तृ रपि क्लेशदत्वादित्याशयः।
मा चैवमिति। देव्याः कादम्बर्याः चरणारविन्दस्य पादकमलस्य वन्दनं नमस्कारणं तस्माद् य आनन्दः तम् अनुभूय अनुभवमविषयीकृत्य स्थास्यति । अनेन नूनमेव भूयोऽप्यागमनं द्योतितम् ।
मेरा हृदय, उस प्रकार गुरुतर लज्जा-भारसे जड़ नहीं होता है, जिस प्रकार महाश्वेताके प्रति। क्योंकि—जो गुण मुझमें नहीं हैं उन्हें मिथ्या आरोप करके उनके सामने वर्णन कर मेरी प्रशंसा करने तथा अपात्रमें पक्षपात करनेके कारण, देवी निश्चय ही महाश्वेताको वारंवार उलाहना देगी। किन्तु अब मैं क्या करूँ? अनुल्लङ्घनीय पिताका आदेश केवल शरीरके ऊपर ही आधिपत्य कर सकता है [ वह शरीर ही उज्जयिनीमें जाता है ] किन्तु हेमकूटमें निवास करनेके लिए अनुरागी हृदय देवीके समीपमें हजारों जन्मान्तरके लिए दास्यपत्र (गुलामी देनांग) लिख दिया है। सैन्याध्यक्ष जिस प्रकार दुष्ट वनेचर—व्याधको नहीं निकलने देता उसी प्रकार देवीका अनुग्रह मुझे जाने नहीं देता। तथापि पिताकी आज्ञासे ही उज्जयिनी (उज्जैन) में जाता हूँ—(किन्तु मन तो सर्वथा प्रस्थान करनेके लिए समर्थ नहीं हो रहा है) तब प्रसङ्गक्रमसे दुर्जनकी कथा कहनेके समयमें चाण्डाल- चरित्र चन्द्रापीडको भी निश्चय स्मरण करना। किन्तु इस प्रकार मनमें नहीं करना कि—चन्द्रापीड जीवित रह
¹ प्रभवति हि।
² देवमात्रस्य हि देवमात्रकस्य।
³ दास्यपट्टं।
⁴ आटविकगौल्मिकेनेव, देव्या हस्ते न दत्तमस्याटविकगौल्मिकेनेव।
⁵ प्रसङ्गतो जनकथा" ।
⁶ क्वचित् 'चण्डाल' पदं न विद्यते।
⁷ ...चरणारविन्दमननुभूय।