कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 669, कुल 709 में से
संदर्भ में पढ़ें| ६३० | कादम्बरी- | [ कथायाम्- |
|---|
‘भवता पत्रलेखया सहागन्तव्यम्, नियतञ्च केयूरकस्तानादायेतावतीं भूमिमागमिष्यति’, तन्मुखेन विज्ञाप्य प्रणम्य देवी कादम्बरी। नन्विदं सा त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया चं दुर्ग्रहा प्रकृतिर्मर्त्त्यानाम्, येषामकाण्डविसंवादिन्यः प्रीतयो न गणयन्ति निष्कारणवत्सलताम्। एवं गच्छता मयात्मनो नीतः स्नेहः कपट-कूट-जालिकताम्, प्रापिता भक्तिरलीक-काकु-करण-कुशलताम्, पतितमुपचारमात्रमधुरं धूर्ततायामात्मार्पणम्, प्रकटितं वाङ्मनसयोर्भिन्नार्थत्वम्। आस्तां तावदात्मा, अस्थानाहितप्रसादा दिव्ययोग्या देव्यपि वक्तव्यतां नीता। जनयन्ति हि पश्चाद्वैलक्ष्यमभूमिपतिताः व्यर्थाः प्रसादामृतदृष्टयो महताम्।
भवतेति। भवता त्वया। आगन्तव्यं आयातव्यम् नियतञ्च निश्चितञ्च। आगमिष्यति आयास्यति नूनमेवेह भवदवस्थानोदन्तलाभसम्भवात् तत्र च तव गमनासम्भवादित्याशयः। तस्य केयूरकस्य मुखेन वदनेन विज्ञाप्य संसूच्य। अवधारणे ननु शब्दः। ‘ननु प्रश्नेऽप्यनुज्ञानेऽनुज्ञानेऽप्यवधारणे’ इति विश्वः। इयं सा जगत्प्रसिद्धा त्रिभुवननिन्दनीया त्रिविष्टपगर्हणीया निरनुरोधा कस्याप्यनुरोधेन न परिवर्त्तनीयेत्यर्थः, निष्परिचया परिज्ञानेनापि नान्यथा विधेयेति भावः, दुर्ग्रहा एवंविधतया दुर्ज्ञेया, मर्त्यानां मानवानां प्रकृतिः स्वभावः येषां मर्त्यानाम्, अकाण्डे असमये विसंवादिन्यो व्यभिचारिण्यः प्रीतयः स्नेहाः निष्कारणवत्सलतां कस्याप्यहेतुकस्नेहम्, न गणयन्ति नानुसरन्ति। निरूपितमेव विषयं समर्थयति—एवमिति। एवम् अनेन विधिना झटित्येवेत्यर्थः। आत्मनः स्वस्य स्नेहः प्रणयः, कपटो धूर्त्ततो यः कूटजालिकः असत्यव्यवहारवान् तस्य भावस्तां धूर्त्तेन्द्रजालिकव्यवहारत्वमित्यर्थः, नीतः प्रापितः। भक्तिः अनुरक्तिः, अलीककाकुकरणे असत्यवक्रोक्तिनिर्मितौ कुशलतां दक्षतां प्रापिता नीता। उपचारमात्रेण केवलेन वचनव्यवहारेण मधुरं मिष्टं न तु तत्वतो मधुरमित्याशयः। आत्मार्पणं भवदीयोऽहमिति स्वस्यार्पणं धूर्त्ततायां कपटतायां पतितं स्थापितं पर्यवसायितमित्यर्थः। तथा वाक् च मनश्चेति वाङ्मनसी ‘अचतुर’ इत्यादिना पा० सूत्रेण निपातः। भिन्नार्थत्वं विसंवादित्वं प्रकटितम्, आविष्कृतम्, ‘इच्छामि देहदानेनापि स्वस्त्यामत्र भवतीं कर्तुम्’ इत्याद्युक्त्वा झटित्येव यात्राकरणादित्याशयः एवञ्च पूर्वं स्नेहं दर्शयित्वा मर्त्यानां स्वभावो दुर्ग्रह एवेति समुदितोऽभिप्रायः।
इह विशेषेण सामान्यस्य समर्थनार्थायान्तरन्यासोऽलङ्कारः, प्रीतौ धूर्त्तेन्द्रजालिकतारोपस्य प्रस्तुतोपयोगितया परिणामलङ्कारः, तथा स्वभावस्य दुर्ग्रहत्वप्रतिपादनकार्यं प्रति अधिकतरहेतूपन्यासात् समुच्चयालङ्कारश्चेत्येतेषामङ्गाङ्गिभावसङ्करः।
आस्तामिति। आत्मा अस्मद्विपयिणी वार्तेत्यर्थः, आस्तां तावद् दूरे तिष्ठतु, अस्थाने अनधिकारिणि आहितो न्यस्तः प्रसादः अनुग्रहो यया सा, तथा दिव्ययोग्या त्रिदशालयोयलोकोचिता देव्यपि कादम्बर्यपि वक्तव्यतां गर्हणीयतां नीता मया प्रापिता, परदेशादायातेनापरिचितकुलशीलेन चन्द्रापीडेन सह कथं मैत्री विहितेति गर्हणां नीतेत्यर्थः। हि यतः, अमूमौ अनधिकारिणि पातिता आहिताः, अत एव व्यर्था
आप पत्रलेखाके साथ आएगा, निश्चय ही उसे लेकर केयूरक यहाँ तक आवेगा; तब मेरी ओरसे उसके द्वारा देवी कादम्बरीको प्रणाम कर यह विज्ञप्ति कहल भेजना कि—'सचमुच यह त्रिभुवन-निन्दनीय, अनुरोध न माननेवाला, परिचय-विहीन और दुर्बोध्य मनुष्योंका स्वभाव है कि उनकी प्रीति असमयमें विपरीत होकर धोखा दे जाती है और अकारण वात्सल्यकी गणना भी नहीं करती।' देखो—इस प्रकार प्रस्थान कर लेनेसे मैं अपने स्नेहको धूर्त ऐन्द्रजालिकके व्यवहारमें प्राप्त कर दिया हूँ, (अतः आपको स्नेह कपटका मिथ्या-प्रपञ्च प्रतीत होगा); अनुरागको मिथ्या वक्रोक्तिकी रचनेमें निपुण कर लिया हूँ, वाक्य-व्यवहारमें सुमधुर आत्मसमर्पणको धूर्त्ततामें पर्यवसित कर लिया हूँ; एवं वाक्य और मनका विभिन्न भाव प्रकाश कर दिया हूँ (अर्थात् मेरी वाणी और मनमें आपको भिन्नार्थ प्रकट होगा) और मेरी बात दूर रहने दीजिए। अपात्र मनुष्यमें अनुग्रह अर्पण कराकर मैंने दिव्य व्यक्तिके ही योग्य उस देवी कादम्बरीको भी निन्दाका पात्र बना दिया है, क्योंकि अपात्रमें निष्फल विन्यस्त (ढाली) हुई अनुग्रहामृतसे परिपूर्ण महानुभावोंकी दृष्टियाँ पीछेसे लज्जा उत्पन्न करती हैं। देवीके प्रति
१. इति।
२. क्वचित् चकारो नास्ति।
३. उपचारमधुरप्रकटितमुपचारमा***।
४. अभूमिपाताः।
५. ॰॰॰दृष्टयः।