भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 676, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 676

चण्डिकावर्णना ११७ ] चन्द्रकला-विद्योतिनीसहिता । ६२७

परिवृताम्, लोहतोरणेन च रक्तैश्चामरावलिपरिकरां कालायस-दर्पणमण्डलमालां शबर-मुखमालामिव कपिलकेशभीषणां बिभ्राणेन सनाथीकृतद्वारदेशाम्, अभिमुखप्रतिष्ठितेन च विनिहितरक्तचन्दनहस्तकतया रुधिरारुण-यम-करतलास्फालितेनेव शोणित-लवं-लोभलोल-शिवालिह्यमानं-लोहितलोचनेन लोहमहिषेणाध्यासिताञ्जनशिलावेदिकाम्, क्वचिद्रक्तोत्पलैः शवरनिपातितानां वनमहिषाणामिव लोचनैः क्वचिदगस्तिकुसुमकुङ्मलैः केसरिणामिव करजैः क्वचित् किंशुककुसुमकुङ्मलैः शार्दूलानामिव सरुधिरैर्नखरैः कृतपुण्यपुष्पप्रकराम्,

लोहेति। अपि च, कपिलैः पिङ्गलवर्णैः केशैः कचैः भीषणा भयङ्करा ताम्, शबराणां भिल्लानां मुखमालां वदनपङ्क्तिमिव, रक्ता लोहितवर्णा चामरावलिः बालव्यजनपङ्क्तिः परिकरः परिच्छदो यस्यास्ताम्, कालं श्यामं अयो लोहमिति कालायसं तस्य यानि दर्पणमण्डलानि आदर्शाकारगोलखण्डानि तेषां मालां पङ्क्ति बिभ्राणेन धारयता, लोहतोरणेन अयोरचितबहिर्द्वारेण, सनाथीकृती युक्तो द्वारदेशो यस्यास्ताम् चण्डिकामित्यस्य विशेषणमिदम्। इह शवरवदनानि श्यामवर्णानि तत्कचाश्च कपिलवर्णाः, अतएव शबरवदनपङ्क्त्या सह कृष्णलौहादर्शमण्डलपङ्क्त्याः तदीयपिङ्गलवर्णकचसमूहैश्च सह लोहितवर्णचामरावलेरौपम्यमित्युपमालङ्कारः। तथा ‘शवरमुखमालामिव’ इत्यस्य स्थाने ‘शवरमुखश्रेणीमिव’ इत्येव पाठो विधेयः, अन्यथा पौनरुक्त्यस्य वारयितुमशक्यत्वात्।

अभीति। अपि च, विनिहिताः तत्रत्यलोकैरर्पिताः रक्तचन्दनहस्ताः पञ्चाङ्गरसाक्तहस्तचिह्नानि यत्र स तथा तस्य भावस्तया तादृश्या कारणेन रुधिरेण शोणितेन अरुणं रक्तवर्णं यद् यमस्य धर्मराजस्य करतलं युग्मपागितलं तेन आस्फालितः चालनाय सन्ताडितः तेनेव, पञ्चाङ्गरसाक्तकरचिह्नानामास्फालनसमयलग्न-शोणिताक्त-यमकरचिह्नबदवलोक्यमानत्वादित्याशयः। तया शोणितलवानां रुधिरवणानां लोभेन रक्तचन्दनचिह्नेषु रुधिरविन्दुभ्रमात् नत्पानतृष्णयेत्यर्थः, लोलाश्चपला याः शिवाः जम्बुकपत्न्यः ताभिर्लिह्यमाने जिह्वया आस्वाद्यमाने लोहिते अहगवर्णे लोचने नयने यस्य तेन। अभिमुखप्रतिष्ठितेन भगवत्याः संमुखस्थापितेन, लोहमहिषेण कालायसनिर्मितरक्ताक्षेण, अध्यासिता अधिष्ठिता अञ्जनशिलावेदिका कज्जलवत् श्यामवर्णप्रस्तररचितवद्धभूमिः यस्यास्ताम् इह क्रियोत्प्रेक्षावृत्यनुप्रासयोर्मियो नैरपेक्ष्येण संसृष्टिः तथा रक्तचन्दनचिह्नेषु रुधिरविन्दुभ्रमव्यञ्जनाद् भ्रान्तिमानलङ्कारः प्रतीयते।

क्वचिदिति। क्वचित् कस्मिंश्चित्प्रदेशे शवरनिपातितानां भिल्लयापादितानां वनमहिषाणाम् अरण्यकच्छागाणां लोचनैर्नयनैरिव रक्तोत्पलैः कोकनदैः, कोकनदानां रक्ताञ्जननयनसदृशरूपत्वादित्याशयः, क्वचित् केसरीणां मृगाधिपानां करजैनँखैरिव अगस्तिकुसुमकुङ्मलैः वकप्रसूनकोरकैः, अगस्तिपुष्पकुङ्कुमलानां केसरिनखसमानस्वरूपत्वादित्याशयः, क्वचिच्च शार्दूलानां व्याघ्राणां सरुधिरैः शोणितसहितैः करजैरिव किंशुककुसुमकुङ्मलैः पलाशपुष्पकोरकैः, पलाशपुष्पमुकुलानामपि शार्दूलनखरसमानरूपत्वादित्यभिप्रायः, तन्मुकुलानां रक्तत्वात् सादृश्यनिरूपणाय सरुधिरैरिति विशेषणमवगन्तव्यम्, कृतो विहितः पुण्यः पूतः पुष्पप्रकरः प्रसनोपहारो यस्यास्ताम्। इह तिस्रः श्रौतोपमाः लासां परस्परं नैरपेक्ष्येण

(वाट) के समान श्वेतवर्ण, कपाट (केवाड़ी) के अन्‍दर, चण्डिकाकी मूर्तिको देखा। वहाँ द्वारदेशमें लोहेका तोरण (महराब) बना था। उसमें शबरोंके पिङ्गलवर्ण (कपिल) केश-कलापसे भयङ्कर मुख-पङ्क्तिके समान लाल-लाल चामर-पङ्क्तियोंसे परिवेष्टित और दर्पणके समान वर्तुलाकार (गोल) काले लौह-खण्ड (बन्दनवार) लटक रहे थे। देवीके सम्मुखमें कज्जल-तुल्य कृष्ण-वर्ण-प्रस्तर-निर्मित एक वेदी (काले पत्थरके बने हुए चबूतरे) पर एक लौह-निर्मित महिष बैठा था, उसके शरीरमें हस्ताकृति रक्त-चन्दनके चिह्न (थापे) लगे थे; उनसे ऐसा प्रतीत होना था कि मानो यमने उसे चलानेके लिए रक्ताई हाथसे ताड़न किया हो; और रक्तविन्दुके लोभसे चञ्चल शृगाल्यण, उसके लाल नेत्रको जिह्वासे चाट रहे थे। किसी स्थानमें व्याधोंके द्वारा मारे गए जङ्गली महिषोंके नेत्रोंके समान रक्त-कमलोंसे, किसी स्थानमे सिंह-नखों (पञ्जों) के समान अगस्ति-कुसुमकी कलियोंसे, किसी स्थानमें रक्तार्द्र व्याघ्र-नखके समान पलाश-पुष्पोंकी कलियोंसे पवित्र-पुष्पोंके उपहार दिए गए थे। अन्य किसी स्थानमें हनन कर देवीके उपहार (भेंट) दिए गए पशुओंकी हिंसा, मन्दिरमें एक ओर ऐसी प्रतीत होती


१. नवरक्त.... । २. रक्तचन्दनानिहित । ३. ....नव.... । ४. शिवालिख्यमान । ५. लोहित । ६. अगस्तिकुट्मलैः अगत्त्यतरुकुड्मलैः । ७. प्रकोपोहारान् ।