कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 677, कुल 709 में से
संदर्भ में पढ़ें| ६३८ | कादम्बरी- | [ कथायाम्- |
|---|
अन्यत्राङ्कुरितामिव कुटिलहरिणविषाणकोटिकूटैः पल्लवितामिव सरसजिह्वाच्छेदशतैः कुसुमितामिव रक्तनयनसहस्रैः फलितामिव मुण्डमण्डलैरुपहारहिंसां दर्शयन्तीम्, शाखान्तरालनिरन्तर-निलीन-रक्तकुक्कुट-कुलैः श्वभयान् अकालगदर्शित-कुसुमस्तवकैरिव रक्ताशोकविटपैर्विभूषिताङ्गनम्, बलि-रुधिर-पान-तृष्णया समागतैश्च वेतालैरिव तालैर्दीयमानफलमुण्डोपहाराम्, शङ्काज्वरकम्पितैरिव कदलिकाननैर्भयोत्कण्ठितैरिव श्रीफलनरुपण्डैस्त्रासोर्ध्वकेशैरिव खर्जूरवनैः समन्ताद्गहनीकृताम्, विदलित-वन-करि-कुम्भ-विगलित-मुक्ताफलानि रुधिरारु-
संसृष्टिः । तथा पौनरुक्त्यदोषनिवारणाय एकस्य 'कुसुमगुच्छैः' इत्यस्य स्थाने 'पुष्पगुच्छैः' इति पाठ एव विधेयः । हिंसाया मुख्यस्यानन्त्वात् हिंसाद्योतकोपमानप्रदर्शनमित्यवधेयम् ।
अन्यत्रेति । अन्यत्र अपरस्मिन् भागे, कुटिलानि वक्राणि यानि हरिणानां मृगाणां विषाणानि शृङ्गाणि तेषां कोटयः अग्रभागाः तेषां कूटैः पुञ्जैः शृङ्गहत्यापूर्वकनिहितैरित्यर्थः, अङ्कुरितां समुत्पन्नप्ररोहामिव, तच्छृङ्गाग्रदेशराशीनां प्ररोहवदवलोक्यमानत्वादित्याशयः । सरसा आर्द्रा रुधिराक्ता ये जिह्वाच्छेदा रसनाखण्डानि तेषां शतैः पल्लवितां समुत्पन्नकिसलयामिव, रसनाच्छेदानां किसलयरूपत्वात्वादित्याशयः । मुण्डमण्डलैः छिन्नमस्तकसमूहैः फलितां समुत्पन्नफलामिव, तेषां फलसदृशस्वरूपत्वादित्यभिप्रायः । उपहाराणाम् उपायनीभूतानां जीवानां हिंसां दर्शयन्तीं प्रकाशयन्तीम्, हिंसापूर्वकं शृङ्गाग्रराशीनां विचित्वादित्याशयः ।
इह प्ररोहादीनामुत्प्रेक्षणात् चतसृणां क्रियोत्प्रेक्षाणामङ्गाङ्गिभावसङ्करः तथा सर्वासां तृतीयानामभेद एव विवक्षानत्वात् शृङ्गाग्रदेशशरायादिरूपप्ररोहादिप्रतीतेरुपायनहिंसाया वल्लीरूपत्वप्रतीतेश्च साङ्गरूपकालङ्कारो व्यज्यते ।
शाखेति । श्वभयात् कौलेयकत्रासात् शाखान्तरालेषु शाखामध्येषु निरन्तरम् अनवरतं निर्लीनानि निविडं निभृतभावेनावस्थितानि रक्तकुक्कुटकुलानि लोहितताम्रचूडपटलानि येषु तैः, अतएव अकाले असमये दर्शिताः प्रकटिताः कुसुमस्तबकाः पुष्पगुच्छा यैस्तैरिव विद्यमानैः, लोहितताम्रचूडपटलानामेव पुष्पगुच्छसदृशत्वादित्यभिप्रायः, रक्ताशोकानां लोहितकङ्केल्लिवृक्षाणां विटपैः विस्तृतशाखाभिः विभूषितम् अलङ्कृतम् अङ्गनम् अजिरं यस्यास्ताम् । इह क्रियोत्प्रेक्षा ।
बलीति । अपि च, बलीनाम् उपायनीभूतजीवानां रुधिरपानतृष्णया रक्तपानलोभेन समागतैः समायातः वेतालैः भूतविशेषैरिव तालैः वृक्षैः, दीयमानाः समर्प्यमाणाः फलान्येव मुण्डानि मस्तकानि तेषाम् उपहारा उपायनानि यस्यै ताम्, तालफलानां मस्तकसदृशस्वरूपत्वादित्याशयः इह जात्युत्प्रेक्षा निरङ्गकेवलरूपकं चेत्युभयोरङ्गाङ्गिभावसङ्करः ।
शङ्केति । शङ्का पशुवधजनिता स्ववधनाशङ्का तस्या यो ज्वरस्तापः तेन कम्पितैरिव सान्दोलितैरिव, पवनेनान्दोलनादित्याशयः, कदलिकाननै रम्भाकाननैः । भयोत्कण्ठितैरिव त्रासोद्बुद्धस्वेदपुलकसद्दशकण्टककटावलोकनादिति भावः, श्रीफलनरुपण्डैः बिल्ववृक्षपुञ्जैः । तथा त्रासोर्ध्वकेशैरिव भयोर्ध्वकचैरिव ऊर्ध्वपत्रसमूहानां त्रासेनोर्ध्वीभूतकचवदवलोक्यमानत्वादित्याशयः । खर्जूरवनैः समन्ताद् गहनीकृतां परितः सान्द्रीकृताम् । इहाद्या द्वितीया च क्रियोत्प्रेक्षा, तृतीया तु गुणोत्प्रेक्षा, तासाञ्च परस्परं नैरपेक्ष्येण संसृष्टिः ।
विदलितेति । बलिसिद्धयेषु पूजोपायनीभूतालेषु रुधिरारक्तेष्वित्यर्थः, तृष्णाः तृष्णायुक्ताः, मुग्धा
थी कि मानो हरिरोंके टेढ़े सींगोंके अग्रभागके पुञ्जसे अङ्कुरित हुई हो, सैकड़ों रक्ताई जिह्वाओंसे पल्लवित हुई हो, हजारों रक्त-नेत्रोंसे पुष्पित हुई हो और मुण्डसमूहसे फलित हुई हो । उसकी प्राङ्गन-भूमि (आँगन) रक्ता-अशोक वृक्षसे अलङ्कृत थी, उसकी छोटी-छोटी शाखाके अन्तरालमें (डालियोंके बीचमें) रक्तवर्ण बहुत वन-कुक्कुट (वन मुर्गै) निरन्तर कुक्कुरों (कुत्तों) के भयसे छिपे हुए थे, इससे प्रतीत होता था कि-उसकी शाखाओंमें अकाल पुष्प-स्तबक लगे हों। बलि-रुधिर पान करनेकी अभिलाषासे आये वेत लोंके समान तालवृक्ष फलरूपी मुण्डका उपहार दे रहे थे; पशुओंके वध देखनेके आशङ्कासे उत्पन्न हुए ज्वरसे मानो कम्पित होते कदली-वनोंसे, भयसे मानो उत्कण्ठित हुए बिल्व वृक्षोंसे और त्राससे मानों ऊँचे उठे केशवाले खर्जूर (खजूर) के वनोंसे उसकी प्राङ्गण-भूमि व्याप्त हो गई थी। वहाँके प्राङ्गनमें सिंह-विदारित जङ्गली हाथियोंके कुम्भस्थलोंमेंसे
१. शाखान्तरालनिलीन...। २. कुक्कुटकुलैश्च भयाद्... ३. खर्जूरैः ।