कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 679, कुल 709 में से
संदर्भ में पढ़ें६४० | कादम्बरी- | [ कथायाम्-
अन्तःपिण्डिकापीठपातिभिश्च सर्वपशुजीवितैरिव शरणमुपागतैरलक्तकरसरक्तपट्टैरविरहितचरणमूलाम्, पतितकृष्णचामरप्रतिबिम्बानाञ्च शिरश्छेदलग्नकेशजालाकानामिव परशुपट्टिशप्रभृतीनां जीवविशसनशस्त्राणां प्रभाभिर्बद्धबहलान्धकारतया पातालगृहवासिनीमिवोपलभ्यमानाम्, रक्तचन्दनखचितस्फुरत्फलपल्लवकलितैश्च विल्वपत्रदामभिर्बालकमुण्डप्रालम्बैरिव कृतमण्डनाम्, शोणितताम्रकदम्बस्तबककृताचर्चनैश्च पशूपहारपटहपटुरटित
दीप्यमानां विराजमानाम्, कपाटद्वये ये लोहकीलका जटितास्ते 'जगन्मोहन' ( स्वभवनस्याग्रदेश ) स्थदर्पणेषु प्रतिबिम्बिता इत्यभिप्रायः।
अन्तरिति। च, अन्तर्मध्ये या पिण्डिका परिष्कृता भूमिः तत्र यत् पीठं मूर्त्तिस्थापनाय सिंहासनं तत्र पतन्तीति तैः, शरणमुपागतैः रक्षकं प्राप्तैः सर्वपशूनां जीवितैरिव, तेषामपि रुधिरसम्पर्केण लोहितत्वसम्भवादित्याशयः, अलक्तरसेन यावकद्रवेण रक्ता लोहिता ये पट्टास्तैः, अविरहितम् अवर्जितं चरणयोः पादयोः मूलं निकटं यस्यास्ताम् इह जात्युत्प्रेक्षा।
पतितेति। अपि च, पतितानि कृष्णचामराणां श्यामवालव्यजनानां प्रतिबिम्बानि प्रतिच्छायानि येषु तेषाम्, अत एव शिरश्छेदे मस्तककर्त्तने सति लग्नं सक्तं केशजालं कचसमूहो येषु तेषामिवावलोक्यमानाम्, श्यामवालव्यजनप्रतिबिम्बानामेव कचसमूहवदवलोक्यमानत्वादित्याशयः, परशुः कुठारः, पट्टिशः 'पट्टिशो लोहदण्डो यस्तीक्ष्णधारः क्षुरोपमः' इति वैजयन्त्युक्तः तत्प्रभृतीनां जीवविशसनशस्त्राणां प्राणिहिंसायुधानां प्रभाभिर्दीप्तिभिः बद्ध उत्पादितः, बहलोऽधिकः अन्धकारस्तिमिरो यत्र गृहे तस्य भावस्तया कारणेन, पातालगृहवासिनीमिव अधोभुवननिवासिनीमिव उपलभ्यमानां दृश्यमानाम्।
इह कचसमूहलग्नक्रियोत्प्रेक्षाद्वाद्या, अधोभुवनभवनवासोत्प्रेक्षणादपरा च क्रियोत्प्रेक्षैव, उभयोश्च मिथो नैरपेक्ष्येण संसृष्टिः।
रक्तेति। अपि च, रक्तचन्दनेन पत्राङ्गेन खचिता रञ्जिता अतएव स्फुरन्तः शोभमाना ये विल्वस्यैव फलपल्लवाः तैः कलिताः सम्मेलितास्तैः, अतएव बालकमुण्डानां शिशुशिरसां प्रालम्बैः ऋजुलम्बिनीभिः स्रग्भिरिव विद्यमानैः, विल्वपत्राणां श्रीफलदलानां दामभिः स्रग्भिः ( मालाभिः ) कृतमण्डनां विहिता लङ्काराम्। विल्वपत्राणां मालासु मध्ये मध्ये रक्तचन्दनखचितानि श्रीफलान्यपि प्रोतानि, अतएवमवबुध्यते यद् बालकमस्तकानां माला परिहिता भवेदित्यभिप्रायः। इह जात्युत्प्रेक्षा। शिशुमस्तकगतलोहितसादृश्यनिरूपणाय 'रक्तचन्दनखचिते' ति विशेषणम्। बालकपदन्तु तच्छिरसामापेक्षिकलघुतया श्रीफलसादृश्यावगमाचेति बोध्यम्।
शोणितेति। अपि च, शोणितेन रुधिरसंस्स्रवेण ताम्रा रक्ता ये कदम्बस्तबका नीपगुच्छकास्तैः कृतं विहितम् अर्च्चनं पूजनं येषां तैः संसक्तनीपपुष्पपरागैरित्यर्थः, अतएव पशूपहारे पशूपायानदानकाले पटहस्य दुन्दुभेः यत् पटुरटितम् उच्चशब्दः तस्य रसेन श्रवणोत्साहेन उद्गसन्ति उद्गव्रजन्तीति ते तादृशा रोमाञ्चाः पुलका येषु तैरिव, अङ्गैर्हस्तपादादिभिरवयवैः, क्रूरतां रौद्रताम् उद्वहन्तीं धारयन्तीम्।
अन्दरमें देवीके चरणके समीपमें एक वेदी थी वह आल्ताके रससे रञ्जित एक वस्त्रसे आच्छादित थी, उससे प्रतीत होता था कि वहाँ समस्त पशुओं का जीवन आकर मानो शरणागत होकर रहता है। वहाँ परशु और पट्टिश (भाला) आदि कितने ही जीवहत्या करनेके शल थे, उनमें कृष्णवर्ण चामरोंका प्रतिबिम्ब (परछाईं) पड़नेसे ऐसा प्रतीत होता था कि—शिरश्छेद हो जानेसे उनके केश-कलाप ही मानो चिपक रहे हों। इस प्रकारके शस्त्रोंकी प्रभासे प्रचुर अन्धकार हो जानेके कारण देवी पाताल-वासिनीके समान देखनेमें प्रतीत होती थी। देवी कण्ठदेशमें कितनी विल्व-पत्रकी मालाएं पहन कर भूषित हुई थी, उनके बीच-बीचमें रक्त-चन्दन-रञ्जित (लाल-चन्दन-लिप्त) बहुतर विल्व-फल और विल्व-पत्र संयोजित (चिपके) हुए चमक रहे थे अत एव वे मालाएं बालकोंके मुण्ड की लम्बी-लम्बी मालाओं के समान प्रतीत होती थीं। रुधिरसे रक्त हुए कदम्ब-पुष्पके गुच्छोंसे अर्चन किए गए और पशुओंका बलिदान करते समय बजाई गई दुन्दुभीके उत्पन्न हुए उच्च शब्द श्रवण
१. '...अलक्तकपट्टैः, अलक्तकपटेः, अलक्तरक्तरक्तपट्टैः। २. कलापानाम्। ३. असिपरशु'। ४. बहलदद्द। ५. पातालनिवासिनीम्, पातालगृहवासिनीम्***। ६. स्फुरत्फलक। ७. विल्वदामभिः ८. कृतमण्डलाम् ९. शोणिताताम्र***।