कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 689, कुल 709 में से
संदर्भ में पढ़ें६५२ | कादम्बरी- | [ कथायाम्-
सार इव कल्पपादपः, प्रत्यासन्नवर्त्तिभिर्जरापाण्डुमौलिभिश्चन्दनविलेपनैरनुपहतक्षौमधारि- भिः केयूरिभिरुष्णीषिभिः किरीटिभिः शेखरिभिर्बहुकैलासामिव बहुक्षीरोदामिव क्षितिं दर्श- यद्भिः प्रतिपन्नासि-वेत्र-च्छत्र-केतु-चामरैरनुगम्यमानो राजसहस्रैश्चरणाभ्यामेव प्रत्युज्जगाम । ^२चन्द्रापीडोऽपि ^३दृष्ट्वा पितरं दूरादेवावतीर्य वाजिनश्चूडामणिमरीचिमालिना मौलिना महीमगच्छत् । अथ प्रसारितभुजेन 'एह्येहि' इत्याहूय पित्रा ^४गाढमुपगूढः सुचिरं परिष्वज्य तत्कालसन्निहितानाञ्च ^६माननीयानां कृतनमस्कारः करे गृहीत्वा विलासवतीभवनमनीयत राज्ञा । तयापि तथैव सर्वान्तःपुरपरिवारया ^७प्रत्युद्गम्याभिनन्दितागमनः कृतागमनमङ्गला-
आसारो धारा येन स तथोक्तः कल्पपादप इव पारिजाततरुरिव स्थितः । इहोपमा । प्रत्यासन्नवर्त्तिभिः सततं निकटस्थायिभिः सहचारिभिरित्यर्थः, जरया वार्धकेन पाण्डवः श्वेताः मौलयः शिरांसि येषां तैः, चन्दनविलेपनैः मलयजाङ्गरागैः, अनुपहतानि अखण्डानि क्षौमाणि पट्टवस्त्राणि धारयन्तीति तैः, केयूर- मङ्गदं विद्यते येषां तैः, उष्णीषं शिरोवेष्टनं विद्यते येषां तैः, किरीटं कोटीरं विद्यते येषां तैः, शेखरः विद्यते येषां तैः, वहवोऽनेके कैलासाः पर्वता यस्यां तामिव, तथा वहवः क्षीरोदाः सागरा यस्यां तामिव, क्षितिं भूमिं दर्शयद्भिः प्रकाशयद्भिः, तुल्यश्वेतत्वात्सर्वेषामेव कैलासक्षीरसागरयोः सदृशत्वादित्याशयः । इह जात्युत्प्रेक्षाद्वयम्, तयोश्च परस्परं नैरपेक्ष्येण संसृष्टिः तथा प्रतिपन्नानि शिष्टताप्रकटनाय धृतानि (गृहीतानि) असिवेत्र च्छत्र-केतु-चामराणि खड्ग-वेत्रातपपताकावालव्यजनानि यैस्तैः, राजसहस्रैः स्वाधीननृपसमूहैः अनुगम्यमानोऽनुग्रज्यमानः सन् चरणाभ्यामेव पादाभ्यामेव प्रत्युज्जगाम अभिमुखं प्रतस्थे ।
चन्द्रेति । वाजिनः अश्वात् चूडामणेः शिरोरत्नस्य मरीचिमाला दीधितिश्रेणी अस्यस्येति तादृशेन, मौलिना शिरसा, मही भूमीम्, आगच्छत् प्राप्नोत् स्पर्शमकरोदित्यर्थः, प्रणामार्थमित्याशयः । इह च्छेकानुप्रासः ।
अथेति । अथ प्रणामानन्तरं प्रसारितभुजेन विस्तारितबाहुना । गाढमत्यर्थम् उपगूढ आलिङ्गितः सन् सुचिरं बहुकालं परिष्वज्य तातं प्रत्याश्लिष्येत्यर्थः, तत्कालसन्निहितानां तत्समयसमीपागतानां माननीयानां पूज्यानां च जनानामिति सम्बन्धविवक्षया षष्ठी, कृतो विहितो नमस्कारः प्रणामो येन स तादृशश्चन्द्रापीडः । विलासवतीभवनं मातृगृहं राज्ञा तारापीडेन अनीयत प्राप्यत ।
तयेति । सर्वाणि समस्तानि अन्तःपुराणि अवरोधपुरस्थजनाः परिवारा यस्यास्तया, तया विलासवत्याऽपि, प्रत्युद्गम्य अभिमुखमेत्य अभिनन्दितं श्लाघितम् आगमनम् उपस्थितैर्यस्य सः, तया कृतो विहित आमनस्य मङ्गलाचारः आभ्युदयिकव्यवहारो यस्य स चन्द्रापीडः । दिग्विजयसम्वृद्धाभिः
वर्षण करता (टपकाना) पैदल ही सामने मिलने आया और उसके पश्चात् महाराज तारापीडके अनुगमन करने वाले हजारों राजाओंका आगमन हुआ। उनके केश वृद्धावस्था होनेके कारण शुभ्रवर्ण हो गए थे। चन्दनका उन्होंने लेप किया था। और अच्छिन्न पट्टवस्त्र (कोरे रेशमी कपड़े), केयूर (बाजूबन्द), उष्णीष (पगड़ी), मुकुट और शेखर (शिरोमाल्य) धारण करनेसे वे पृथ्वीको बहुतेरे कैलास-पर्वत एवं बहुतेरे क्षीरोद-सागर-सम्पन्नके समान दरसाते थे, उन्होंने खड्ग (तलवार), छड़ी, ध्वज तथा चामर आदिको धारण किया था। पिताको दूरसे ही देखकर चन्द्रापीडने घोड़े परसे उतरे कर चूडामणिके किरण-जालसे व्याप्त हुए मस्तकके द्वारा नमस्कार करनेके लिए अवनत हो भूमिका स्पर्श किया। तदनन्तर—'आओ, आओ' इस प्रकार कह कर बाहु युगल प्रसारण पूर्वक (फैला) पिताने उसका गाढ आलिङ्गन किया। चन्द्रापीड भी बहुत काल तक पिताका प्रत्यालिङ्गन कर, उस समयमें निकटवर्ती माननीय व्यक्तियोंको नमस्कार किया। तदनन्तर महाराज तारापीड हाथ पकड़ कर उसको विलासवतीके महलमें ले गया। महारानीने भी उस भावसे ही अन्तःपुरस्थ समस्त रमणियोंके साथ मिलनेके लिए आगे आकर, आगमनका अभिनन्दन करके माङ्गलिक क्रियाएँ सम्पन्न कीं। उसके
१. धारिभिर्हारिभिः ।
२. क्वचित् 'चन्द्रापीडोऽपी'ति नोपलभ्यते ।
३. दृष्ट्वा च ।
४. आदरादाहूय ।
५. सुचिरं गाढमुपगूढः ।
६. माननीयानाममात्यानां महीपतीनां च ।
७. प्रत्युद्गमाभिनन्दितागमनः ।