कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 694, कुल 709 में से
संदर्भ में पढ़ेंकादम्बरीवार्त्ताश्रवण० १२२ ] चन्द्रकला-विद्योतिनीसहिता । ६५७
किञ्चिदपि लज्जाकलितगद्गदं गदितुम् । प्रयत्नतोऽपि चास्यां निःशेषं ज्वलता मदनानलेनेव दग्धा, प्रवहता नयनोदकेनेवोढा, प्रविशद्भिर्दुःखैरिवाक्रान्ता, पतद्भिः कुसुमचापशरैरिव शकलीकृता, निष्पतद्भिर्निश्वासितैरिव निर्वासिता, हृदयवर्त्तिभिश्चिन्ताशतैरिव विवृता, निश्वासपायिभिः मधुकरकुलैरिव निपीता, न प्रावर्त्तत वाणी । केवलं दुःखसहस्रगणनाय मुक्ताक्षमालिकामिव कल्पयन्ती गलद्भिरस्पृष्टकपोलस्थलैः शुचिभिरधोमुखी नयनजलविन्दुभिर्दुर्दिनमदर्शयत् । तदा च तस्याः सकाशादशिक्षतेव लज्जापि लज्जालीलाम्, विनयोऽपि विनयाति-
प्रत्नत इति। अस्याः कादम्बर्या वाणी वाक्, निःशेषं समस्तावयवं यथा स्यात्तथा ज्वलता कामाग्निना दग्धेव सती, प्रवहता स्रवता नयनोदकेन अश्रुणा ऊढा सङ्गाह्य प्रापितेव सती, प्रविशद्भिः वदनच्छिद्रद्वारा हृदयं प्राप्नुवद्भिः दुःखैः क्लेशैः आक्रान्तेव व्याप्तेव सती, पतद्भिः उपरि पतनं कुर्वद्भिः कुसुमचापस्य कामस्य शरैर्वाणैः शकलीकृता खण्डीकृता छिन्नेव सती, निष्पतद्भिर्निःसरद्भिः निश्वासवायुभिः वदनानिलैः निर्वासिता बहिष्कृतेव सती, हृदयवर्त्तिभिः मानसख्यायिभिः चिन्ताशतैः विवृता आकृष्टेव सती, निश्वासपायिभिः वदनानिलपानकारिभिः तिरतिशयसौरभत्वादित्याशयः, मधुकरकुलैः भ्रमरसमूहैः निपीतेव पानविषयीकृतेव सती च, प्रयत्नतोऽपि अत्यधिकोद्योगानपि न प्रावर्त्तत वदनान्न निरगच्छत् । इह प्रत्येकविशेषण एव क्रियोत्प्रेक्षा ।
केवलमिति । कादम्बरी अधोमुखी अवाङ्मुखी सती दुःखसहस्रगणनाय क्लेशसहस्रपृथक्संख्याविधानाय मुक्ताक्षमालिकां मुक्तामयजपमालां कल्पयन्तीव रचयन्तीव, अवाङ्मुखत्वादेव अस्पृष्टकपोलस्थलैः विद्यमानैः गलद्भिः स्रवद्भिः शुचिभिः श्वेततवर्गैः नयनजलविन्दुभिः बाष्पकणैः केवलं दुर्द्दिनं वृष्टिम् अदर्शयत् प्रकटनकारयत् । इह क्रियोत्प्रेक्षा । 'घनान्धकारे वृष्टौ च दुर्द्दिनं कवयो विदुः' इति कोशः ।
तदेति । अपि च, लज्जा त्रपापि तदा तस्मिन् समये तस्याः कादम्बर्याः सकाशात् लज्जालीलां त्रपाकार्यं सङ्कुचितभावम् अशिक्षतेव शिक्षितवतीव । लज्जाया लज्जा जाता, अर्थात् लज्जावशाङ्गना सङ्कुचिताऽभवदित्यनेन न्यूना लज्जा जातेति प्रतीयते । यदि लज्जा प्रबला स्यात्तदा चन्द्रापीडप्रणयो वाण्या कथं प्रकाशयेत ? किन्तु विश्वासवशात्तस्या न्यूनत्वे सति प्रणयप्रकाशनं सञ्जातसित्यभिप्रायः । परमार्थतस्तु—इयन्तं समयपर्यन्तं लज्जा स्वकृत्यं सङ्कुचितभावं न जानाति स्म, तस्याः सकाशात् शिक्षगोत्तरमेव तं प्रकाशितवतीति रहस्यम् ।
इह क्रियोत्प्रेक्षालङ्कारः, तेन च कादम्बर्याः निरतिशयलज्जया संकुचितभावो, ध्वन्यत इत्युक्तद्वारेण वस्तुध्वनिः । उत्तरत्राप्येवंविध एवाभिप्रायोऽलङ्कारो ध्वनिश्चोहनीयः । विनयः शिष्टाचारोऽपि
बोलनेकी अभिलाषा रहने पर भी लज्जासे कण्ठ गद्गद (स्वर अस्पष्ट) हो जानेके कारण कुछ भी बोलनेमें समर्थ न हुई। उनकी वाणी मानो प्रज्वलित मदनानलने निःशेष करके दग्ध कर (जला) दी हो, अनवरत नयन-जल-प्रवाहने मानो वह (सञ्चालित होकर ले) गई हो, हृदयमें प्रवेश करते हुए ही मानो दुःखों ने आक्रमण किया हो, मदनके बाण गिरते रहनेसे ही मानो टुकड़े-टुकड़े कर दी गई हो, निकलने हुए निश्वासों ने मानो निर्वासन कर (बाहर निकाल) दी हो, 'हृदय में रहनेवाली सैकड़ों चिन्ताओने मानों आकर्षण कर (पकड़) गल्ता हो और निश्वासको पान करते हुए भ्रमरों ने मानो पान कर लिया हो—इस प्रकार विशेष यत्न करने पर भी निकलनेमें प्रवृत्त न हुई । हजारों दुःखोंकी गणना करनेके लिए ही मानो मोतीके दानों की जपमाला निर्माण करती हों, इस प्रकार वह अधोमुख होकरके, कपोल (गाल) का स्पर्श न करें ऐसे निर्मल अश्रु-बिन्दुओंके द्वारा केवल वृष्टि प्रदर्शन करने लगीं।
उस समय लज्जाने भी मानो उनके समीपसे लज्जाके कार्यकी शिक्षा ली, विनयने भी मानो अत्यन्त
१. लज्जाकुलितगद्गदया। २. क्वचिद् 'अस्याः' इति पदं न विद्यते । ३. दग्धा। ४. मोहिता। ५. निश्वासितैरिव, श्वसितैरिव । ६. आकृष्टा । ७. निश्वासनायिभिः, निश्वासपातिभिः। ८. लज्जापि लज्जां लीलामिव शिक्षिता विनयोपदेशम् ।