कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 693, कुल 709 में से
संदर्भ में पढ़ें६५६ कादम्बरी- [ कथायाम्-
स्वेदान्भसः स्रोतसि¹, स्रोतसेव तरलीकृता समकम्पत, कम्पिताङ्गी च पतनभियेवागृह्यत विषादेन ।
अथ मया विदिताभिप्रायया तन्मुख-विनिवेशित-निष्कम्प-नयन-दत्तावघानया 'आज्ञापय' इति विज्ञापिते निजावयवैरपि वेपथुमद्भिर्निवार्यमाणेव, रहस्यश्रवणलज्जया² आत्मप्रतिमामपि लिखित-मणिकुट्टिमेन चरणाङ्गुष्ठेनापक्रमायेवामृशन्ती, भवनकलहंसान् कुट्टिमोल्लेखमुखर-नूपुरेण चरणारविन्देन विसर्जयन्ती, कर्णोत्पलमधुकरानपि स्विन्नवदनव्यजनीकृतेन³ अंशुकपल्लवेनोत्सारयन्ती, ताम्बूलवीटिकाशकलमुत्कोचमिव दन्तखण्डितं शिखण्डिने ददती, वनदेवताश्रवणशङ्कितेव मुहुर्मुहुरितस्ततो विलोकयन्ती, वक्तुकामापि न शक्नोति स्म
स्नानं कृतवतीव । अन्योऽपि भर्तुकामोऽग्निप्रवेशायाभिलपन् प्रथमं स्नाति । स्रोतसा घर्मप्रवाहेन तरलीकृतेव चालितेव सती समकम्पत । अन्योऽपि घर्मजलेन चालितः सन् कम्पते । विषादेन वियोगोद्वेगेन, कम्पिताङ्गी, कादम्बरी, पतनभियेव च्युतिभीत्येव अगृह्यत अवालम्ब्यत । अन्यमपि अपस्मारप्राप्त्यादिना कम्पिताङ्गं च्युतिभीत्या अन्य आदत्ते । इहाद्ये द्वे क्रियोत्प्रेक्षे, तृतीया च गुणोत्प्रेक्षा ।
अथेति । विदितो ज्ञातः अभिप्रायः कादम्बर्या हृद्गतभावप्रकाशाशयो यया तया, तस्याः कादम्बर्या मुखे वदने विनिवेशिते स्थापिते निष्कम्पे निश्चले नयने लोचने यया सा चासौ दत्तम् अवधानं चित्तैकाग्र्यं यया सा चेति तया । विज्ञापिते निवेदने कृते । वेपथुमद्भिः कम्पवद्भिः निजावयवैः स्वाङ्गरपि निवार्यमाणेव निषिध्यमानेव । अन्योऽपि कम्पयुक्तः सन् बन्धुमनर्थान्निषेधयति । रहस्यस्य गोपनीयवस्तुनः श्रवणलज्जया आकर्णनत्रपया । अग्रिमवाक्येऽप्येवत्कारणमित्यवधेयम् । लिखितं संघृष्टं मणिकुट्टिमं रत्नबद्धभूमिः येन तेन चरणाङ्गुष्ठेन पादाङ्गुष्ठेन, अपक्रमायेव अपसारणायेव, आत्मप्रतिमानपि निजप्रतिविम्बमपि आमृशन्ती स्पर्शं कुर्वन्ती । कुट्टिमस्य बद्धभूमेः उल्लेवेन घर्षणेन मुखरं वाचालं नूपुरं पादकटकं यस्य तेन, चरणारविन्देन पादकमलेन, भवनकलहंसान् गृहकादम्बान् विसर्जयन्ती अपसारयन्तीव, चरणे नूपुरशब्दो नास्ति मन्ये तस्माद् स्थानादपसरणस्यैव स शब्द इत्यभिप्रायः । स्विद्यतो घर्माक्तीभवतो वदनस्य मुखस्य व्यजनीकृतेन अंशुकपल्लवेन वस्त्रप्रान्तेन, कर्णोत्पलमधुकरानपि श्रवणोत्पलभ्रमरानपि उत्सारयन्तीव दूरीकुर्वन्तीव । शिखण्डिने गृहमयूराय, दन्तैर्दशनैः खण्डितं चर्वितम्, ताम्बूलवीटिकायाः नागवल्लीदलवीटिकायाः शकलं खण्डम् उत्कोचमिव अपसारणार्थं 'रिश्वत' इति यवनभाषाप्रसिद्धं गुप्तं द्रव्यदानमिव ददती अर्पयन्ती । अन्योऽप्यर्थी स्वाभीष्टस्थानादपसर्तुं कस्मैचित् द्रव्यं ददाति । तथा वनदेवतानाम् अरण्याधिष्ठात्रीणां श्रवणात् आकर्णनात् शङ्कितेव सती। लज्जया त्रपया कलितो विहितो गद्गदः अस्फुटस्वरो यस्याः सा, गदितुम् अभिधातुं न शक्नोति स्म न समर्था बभूव ।
इह 'निवार्यमाणेव' 'अपक्रमायेव' 'शङ्कितेव' इत्येतेषु वाच्याः क्रियोत्प्रेक्षालङ्काराः । 'विसर्जयन्ती' 'उत्सारयन्ती' इत्युभयत्र प्रतीयमानक्रियोत्प्रेक्षे । 'उत्कोचमिव' इत्यत्र तु जात्युत्प्रेक्षालङ्कारः ।
सञ्चालित होकर ही मानों काँपने लगी और उस समय कम्पित होनेके कारण गिर जानेके भयसे ही मानो विषाद ने आकर उनको पकड़ लिया ।
उसके बाद मैने उनका अभिप्राय समझ लिया और उनके मुख-मण्डल पर निश्चल भावसे नेत्रोंको रख मनोयोगपूर्वक उनसे कहा—'देवि ! आप अपने मनका भाव व्यक्त करें' इस प्रकार निवेदन करनेपर उनके अवयव भी कम्पित होकर मानो उसको रोकने लगे; गुप्त-विषय सुननेकी लज्जासे अपने प्रतिबिम्बको भी मानो हटानेके लिए चरणके अङ्गुष्ठसे मणि-मय भूतल कर्षेण (घिस) कर वह उसे स्पर्श करने लगी; मणि-मय भूतलपर अङ्गुष्ठ घर्षण (घिसने) से शब्दायमान (झनझनाहट करते) नूपुरवाले चरणकमलोंसे गृहपालित कलहंसोंको भी मानों दूर भगाने लगीं; घर्माक्त मुखमण्डल पर हवा करनेके लिए सञ्चालित वसनाञ्चलसे कर्णोत्पलस्थित भ्रमरोंको भी मानो उड़ाने लगीं; गृह-पालित मयूरोंको (बकवा न करनेके लिए) उत्कोच (रिश्वत) के समान दन्त-चर्वित ताम्बूल खण्डको देने लगीं; 'वनदेवताएँ सुन लेगीं' इस आशंकासे मानो बारम्बार इधर-उधर दृष्टिपात करने लगीं; और
१. स्वेदान्भःस्रोतसि ।
२. नप्रतिमाम् ।
३. स्विन्नवदनव्यजनक्षिप्तेन ।
४. ददवान्... ।