कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 692, कुल 709 में से
संदर्भ में पढ़ें| कादम्बरीकथामुखम् ० १२२ ] | चन्द्रकला-विद्योतिनीसहिता । | ६३५ |
|---|
वा गोष्ठ्यः समभवन्, यादृश्यश्च कथाः समजायन्त, यो वातिशयेन तव स्मरति, यस्य वा त्वयि गरीयसी प्रीतिरस्तीति ।
'ततः खल्वागते देवे केयूरकेण सह प्रतिनिवृत्याहं¹ तथैव कुसुमशयनीयसमीपे समु-पाविशम् ; अतिदृञ्च सुखं नवनवाननुभवन्ती देवीप्रसादान् । किं बहुना, प्रायेण मम चक्षुषि चक्षुः, वपुषि वपुः, करे करपल्लवः², नामाक्षरेषु वाणी, प्रीतौ हृदयं देव्याः सकलमेव तं दिवसमभवन् अपराह्ने च मामेवावलम्ब्य निष्क्रम्य हिमगृहकान् सञ्चरन्ती यदृच्छया निषिद्धपरिजना वल्लभ-बालोद्यानं जगाम । तत्र सुधाधवलां कालिन्दीजलतरङ्गमय्येव मरकतसोपानमालया प्रमद-वनवेदिकामध्यारोहत्³ । तस्याञ्च मणिस्तम्भावष्टम्भस्थिता⁴ स्थित्वा च मुहूर्त्तन्निव हृदयेन सह दीर्घकालमवधार्य किमपि व्याहर्त्तु मिच्छन्ती निश्चलधृततारकेण निष्पन्दपक्ष्मणा चक्षुषा मुखं मे सुचिरं व्यलोकयन् । विलोकयन्त्येवं च कृतसङ्कल्पा मदनाग्निं प्रवेष्टुमिच्छन्ती स्नाताविब⁵
तत इति । तथैव प्राग्वदेव, कुसुमशयनीयसमीपे कादम्बर्याः पुष्पशयननिकटे समुपाविशं समुप-विश । देव्याः कादम्बर्याः प्रसादा अनुग्रहास्तान् ।
किमिति । मम 'चक्षुषिः चक्षुः' देव्या इत्यन्वयः, एवं सर्वत्राप्यनुमन्त्रेयः, अनेन सदवलोकनातिशयः 'वपुषि वपु'रित्यनेन सहमातिरेकः, 'करे करपल्लव' इत्यनेन मयि स्नेहाधिक्यम् , 'मम नामाक्षरेषु वाजी वचनम्' अनेन मुहुर्मुहुर्मम नामोच्चारणम् , 'मम प्रीतौ च हृदयम्' इत्यनेन च मम प्रीत्युत्पादने चित्तै-काग्रयं ध्वन्यते । इह समवदित्येकस्यां क्रियायामनेकेषां कर्तृत्वेनाभिसम्बन्धात्तुल्ययोगिता ।
अनेति । अवलम्ब्य आश्रित्य । निष्क्रम्य निर्गत्य । यदृच्छया स्वेच्छया सञ्चरन्ती व्रजन्ती निषिद्ध-परिजना निवारितपरिच्छदा, वल्लभं प्रिय यद् बालोद्यानम् अभिनवोपवनं तद् जगाम गतवती । तत्र वल्लभवालोद्याने कालिन्द्या यमुनाया जलतरङ्गैः सलिलकल्लोलैः रचिता कालिन्दीजलतरङ्गमयी तयेव, श्यामलत्वादिन्याद्याशयः, मरकतसोपानमालया अश्मगर्भसोपानपङ्क्त्या करणेन, सुधया चूर्णलेपेन धवला शुक्ला ताम् , प्रमदवनस्य क्रीडोद्यानस्य वेदिका .परिकृतोन्नतभूमिस्ताम् अध्यारोहत अधिरोहण कृतवती । क्रियोत्प्रेक्षा ।
तस्यामिति । अपि च मणिस्तम्भस्य अवष्टम्भेन आश्रयेण तदाधारेणेत्यर्थः । स्थिता उपविष्टा, हृद-येन सह दीर्घकालं बहुसमयम् अवधार्य सम्मन्त्रणेन निश्चित्य । व्याहर्त्तुं कथयितुम् इच्छन्ती अभिल-षन्ती, निश्चलं स्थिरं यथा स्यात्तथा धृता तारका कनीनिका यस्य तेन, निष्पन्दामि निश्चलानि पक्ष्माणि रोमाणि यस्य तेन । व्यलोकयत् अपश्यत् ।
विलोक्येति । विलोक्यन्त्येककृतसङ्कल्पा व्याहर्त्तुं प्राणान् परित्यक्तुञ्चेति शेषः । मदनः काम एव अभ्रिर्वह्निस्तं प्रवेष्टुं प्रवेशं कर्तु म् इच्छन्ती अभिलषन्ती, स्वेदाम्भसो घर्मजलस्य स्रोतसि प्रवाहे स्नातावित्र
[जैसे प्रस्ताव हुआ ], जो आपको अधिक स्मरण करती है और उनमें जिसकी अधिक प्रीति है, यह सब आप मनोयोग (ध्यान) देकर श्रवण कीजिए।"
आपके वहाँसे आने पर 'केयूरकके साथ पीछे लौटकर' मैं पूर्वके समान पुष्प-शय्याके समीप जा बैठी और देवी कादम्बरीके नए नए अनुग्रहका अनुभव करती वहाँ सुखसे रहने लगी । अधिक और क्या कहूँ, वहाँ मेरी आँख, वहाँ देवीकी; जहाँ मेरा शरीर, वहाँ देवीका; जहाँ मेरा हाथ, वहाँ देवीका हस्त-पल्लव; [ विद्यमान था ] वह मेरे नामके अक्षरोंका ही उच्चारण करती थी और मुझसे प्रीति करनेमें 'ही देवीका मन संलग्न था । इस प्रकार उस दिनोंके मध्यमें प्रतिदिन ही होता रहा । सन्ध्याकालमें मेरे ही सहारे हिम-गृहमें से निकल कर, समस्त परिजनोंको साथ आनेमें रोक कर, अपने इच्छानुसार भ्रमण करती वह अपने प्रिय नूतन उद्यान (फुलवारी, बगीचे) की ओर गयी । वहाँ यमुनाके जल-तरङ्गसे निर्मितके समान प्रतीत होती, एक मरकत-मणि की सोपान-माला (सीढ़ियों) पर होकर चूनेकेप (चूने) से शुभवर्ण होते हुए प्रमद-वनकी वेदिका (चबूतरे) पर चढ़ी और उस वेदिकाके ऊपर मणिमयस्तम्भका अवलम्बन (सहारा) लेकर क्षणभर खड़ी रहकर, मनके साथ बहुत समय तक स्थिर विचार करके, मुझसे कुछ कहनेकी अभिलाषासे नयनयुगलकी ताराओं और पलकोंको निश्चल भावसे मेरे मुखकी ओर अधिक काल तक अवलोकन करती रही । अवलोकन करते-करते ही कृतसङ्कल्प होकर मदनानन्दमें प्रवेश करनेकी अभिलाषासे घर्म-जलके स्रोतमें ही मानों स्नान किया । उस प्रवाहसे
१. प्रतिनिवृत्त्या । २. करपल्लवान् । ३. आरोह । ४. मणित्थूणावटन्मस्थिता । ५. व्यलोकयन्त्येव ।