भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 704, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 704

कादम्बरीवार्ताश्रवण० १२२ ] चन्द्रकला-विद्योतिनीसहिता । ६६७

हृदयादव्यतिरिक्तासि, इदानीं भवतीमेव पृच्छामि। उपदिश त्वम्; यदत्र मे साम्प्रतम्। एवंविधानां वृत्तान्तानामनभिज्ञाऽस्मि। अपि च मे१ गुरुजनवक्तव्यतां नीताया नितरां लज्जिताया जीवितान्मरणमेव श्रेयः पश्यति २हृदयम् इति।

एवंवादिनीं भूयस्तामहमेवमवोचम्—'अलमलमिदानीं देवि ! किमनेनाकारणमरणानुबन्धेन३, अनाराधितप्रसन्नेन कुसुमशरेण भगवता ते वरो दत्तः। का चात्र गुरुजनवक्तव्यता, यदा खलु कन्यकां गुरुरिव पञ्चशरः सङ्कल्पयति, मातेवानुमोदते, भ्रातेव ददाति, सखीवोत्कण्ठां जनयति, धात्रीव तरुणतायां४ रत्युपचारं शिक्षयति। कति वा५ कथयामि ते याः स्वयं वृतवत्यः पतीन्। यदि च नैवम्, अनर्थक एव तर्हि धर्मशास्त्रोपदिष्टः स्वयंवरविधिः।

हृदयादिति। अव्यतिरिक्तासि अभिन्नासि। इदानीम् अधुना भवतीमेव त्वामेव। साम्प्रतं युक्तं समीचीनमित्यर्थः 'युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः। अनभिज्ञा अपरिचिताऽस्मि। गुरुजनैः मातापित्रादिजनैः वक्तव्यतां गर्हणीयतां नीताया मदनेन प्रापितायाः, नितराम् अत्यर्थं लज्जितायाः त्रपायुक्तायाः मे मम मरणमेव श्रेयः श्रेष्ठमिति हृदयं पश्यति जानातीत्यर्थः।

एवमिति। अलमलम् एवमभिधेहीति शेषः। अकारणम् अहेतुं यन्मरणं तस्य अनुबन्धेन आग्रहेण, अनाराधितोऽनुपासितोऽपि प्रसन्नस्तेन। वरो दत्तः, समुचिताधिकारिणं प्रत्येव ते प्रीतिजननादित्याशयः।

देवि। गुरुजनवक्तव्यता मातापित्रादिनिन्दनीयता। तरुणतायां यौवने। गुरुः पितेव सङ्कल्पयति दानेच्छाविषयीकरोति, मातेव जननीव अनुमोदते एतत्तया साध्वनुष्ठितमिति श्लाघते। सखीव सहचरीव उत्कण्ठाम् औत्सुक्यं जनयति उत्पादयति। रतौ सम्भोगविषये उपचारं तदुपयोगिविभ्रमादिकं शिक्षयति अभ्यासं कारयति, अत एवास्याः पञ्चशरक्रियाया अवश्यंभावित्वान्नास्ति मातापित्रादिनिन्दनीयतेत्याशयः। इह प्रत्येकवाक्य एव श्रौतोपमा।

वतीति। याः पतीन् स्वयं वृतवत्यः आत्मनैव वरणं कृतवत्यस्ताः कति कथयानि बह्व्यः सन्तीत्यर्थः। अत एवाप्यनेकासां व्यवहारानास्ति दोष इत्याशयः।

यदीति। अपि च, एवं यदि न भवेदित्यर्थः। अनर्थक एव निष्प्रयोजन एव, अनुष्ठानलक्षणप्रामाण्याभावादित्याशयः। स्वयंवरविधिरिव गान्धर्वविधिः। तथा च याज्ञवल्क्यः—'गान्धर्वः समयान्मिथः' इति। मनुरपि—

'इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च। गान्धर्वः स तु विज्ञेया मैथुनः कामसम्भवः॥'

तुमसे ही पूछती हूँ। इस समय मेरे लिए जो उचित हो तुम वैसे ही उपदेश दो, क्योंकि—ऐसी-ऐसी घटनाओं से कुछ भी नहीं जानती। और भी देखो-कामदेवने मुझे गुरुजनोंकी निन्दाका पात्र बना दिया है, इसलिए मैं अत्यन्त लज्जित हो गई हूँ, अत एव हृदय समझता है कि—जीवनकी अपेक्षा मेरा मरण ही श्रेय (अधिक अच्छा) है।'

उनके इस प्रकार कहे हुए वचनोंको सुनकर मैं फिर उनसे इस प्रकार कहने लगी—'देवि ! आप इस समय यह मत कहें, मत कहें। यों निष्कारण मरनेके लिए आपका यह आग्रह कैसा ? महाल्हादकारी कामदेवकी आराधना न करनेपर भी उसने स्वयं ही आपके ऊपर प्रसन्न होकर वर दिया है। इस विषयमें गुरुजनोंकी निन्दा क्या ? जब स्वयं कामदेव यौवनकालमें कन्याका दान करनेके लिए सङ्कल्प करता है, माताके समान अनुमोदन करता है, भ्राताके समान दान करता है, सखीके समान उत्कण्ठा उत्पन्न करता है, और धात्रीके समान अनुरागके उपयोगी विलासादिको शिक्षा देता है। कहो तो, आपके सामने कितने ही कन्याओंकी ऐसी कथा कह दूँ, जिन्होंने अपने आप ही पतिको वरण किया है। यदि यह प्रकार ही नहीं होता, तो धर्मशास्त्रमें बताया हुआ स्वयंवर-विधान निरर्थक होता। इसलिये देवि ! आप प्रसन्न होइए, इस तरह मरनेके आग्रहका परित्याग जीवित्वा में आपके


१. क्वचिद् इदमिति नास्ति।
२. अपि च गुरु...।
३. ० मे हृदयम्।
४. वरात् ! अनाराधित...।
५. न्तिवेव ।
६. तरुणतायामुरत्युपचारम् ।
७. किञ्चिद, कति वा ।