कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 705, कुल 709 में से
संदर्भ में पढ़ें| ६६८ | कादम्बरी- | [ कथायाम्- |
|---|
तत् प्रसीद, देवि ! अलममुना मरणावरोधेन, शपे ते पादपङ्कजस्पर्शेन, सन्विश, प्रेषय माम्, यामि, आनयामि देवि ! ते हृदयदयितम्' ।
इत्येवमुक्ते नया प्रीतिद्रवार्द्रया दृष्टया पिबन्तीव मां निरुध्यमानैरपि मकरकेतुशर-शत-जर्जरितां भिन्द्वेव लज्जां लब्धान्तरैर्निपतद्भिः अनुरागविभ्रमैराकुलीक्रियमाणा, प्रियवचनश्रवणप्रीत्या च स्वेदाश्लिष्टम् उत्क्षिप्य रोमाञ्चजालकेन दधतीवोत्तरीयांशुकम्, प्रेङ्खत्कुण्डलमाणिक्य पत्र मकर-कोटि-लग्नञ्च शशिकिरणमयं मरणपाशमिव मकरकेतुना निहितं कण्ठे हारमुन्मोचयन्ती, प्रहर्षविह्वलान्तःकरणापि कन्यकाजनसहजां लज्जामिवावलम्ब्य शनैः शनै-रवदत् - 'जानामि ते गरीयसीं प्रीतिम्, केवलमकठोर शिरीष-पुष्प-मृदुप्रकृतेः कुतः प्राग-
तदिति । मरणानुबन्धेन प्राणवियोगाग्रहेण । पादपङ्कजस्पर्शेन चरणकमलस्पर्शेन शपे शपथं करोमि, चित्तवल्लभमानयनं प्रत्येव शपथोऽयमित्यवधेयम् । संदिश आज्ञापय । प्रेषय प्रेरय । आनयामि तव समीप इति शेषः ।
इतीति । इत्येवं पूर्वोक्तप्रकारेण । उक्ते अभिहिते सति । सा कादम्बरी प्रीतिद्रवेण प्रमोदरसेन सार्द्रा तया दृष्ट्या लोचनेन मां पत्रलेखां पिबन्तीव पानं कुर्वन्तीव, निरुध्यमानैरपि संव्रियमाणैरपि, मकरकेतोः कामस्य शरशतेन बाणसमूहेन जर्जरिताम् अतएव भेदनं सुसाध्यमित्याशयः, लज्जां त्रपां भिन्द्वेव विदार्यैव लब्धान्तरैः प्राप्तावकाशैः, निपतद्भिः प्रकटीभवद्भिरित्यर्थः । अनुरागविभ्रमैः स्मिताद्यनुरागोद्योतकविलासैः आकुलीक्रियमाणा चञ्चलीक्रियमाणेत्यभिप्रायः। अपि च, प्रियस्य दयितस्य चन्द्रापीडस्य यद् वचनं वाक्यं तस्य श्रवणेन आकर्णनेन या प्रीतिरानन्दस्तया, ये स्वेदा घर्माः तैः आश्लिष्टं देहसंसक्तम्, उत्तरीयांशुकम् उपसंव्यानवस्त्रम्, रोमाञ्चानां पुलकानां जालेन समूहेन उत्क्षिप्य उद्धृतं विधाय दधतीव धारयन्तीव । अपि च, प्रेङ्खत्तञ्चलतः कुण्डलस्य कर्णभूषणस्य यो माणिक्यपत्रमकरः रत्नखचितपत्रात्मक-मकरसदृशभूषणं तस्य कोटौ अग्रभागे लग्नं सक्तम्, शशिकिरणमयम् अत्युज्ज्वलत्वाच्छुशिप्रभा निष्पन्नमित्यर्थः, मकरकेतुना कामदेवेन कण्ठे गले निहितं स्थापितं मरणपाशमिव मृत्युजालकमिव विद्यमानं हारं शेषामिधानम् उन्मोचयन्ती प्रच्यावयन्ती, प्रहर्षेण निरतिशयानन्देन विह्वलं व्याकुलम् अन्तःकरणं यस्याः सा तादृश्यपि, कन्यकाजनस्य कुमारिकाजनस्य सहजां स्वाभाविकीम् । लज्जां त्रपाम् अवलम्ब्य आश्वित्येव शनैः शनैः मन्दं मन्दम् अवदत् अवोचत् ।
इह केवलं 'मरणपाशमिव' इत्यत्र जायुरूपेक्षालङ्कारः । 'पिबन्तीव' 'भिन्द्वेव' 'उत्क्षिप्येव' 'दधतीव' 'अवलम्ब्येव' एषु सर्वत्र क्रियोत्प्रेक्षालङ्कारः ।
जानामीति । गरीयसीम् अतिशयेन गुर्वी प्रीतिं स्नेहं मयौति शेषः, अत एवं ब्रवीमीत्याशयः । तर्हि शीघ्रमेव स्वीयं वरणाय उद्योगं कथं न करोषीत्यत आह- केवलमिति । केवलं किन्तु, अकठोरं नूतनं यत् शिरीषपुष्पं तद्वत् मृदुः सरला प्रकृतिः स्वभावो यस्य तस्य नारीजनस्य, एतावान् स्वयं वरजरूपं
पाद-पद्मका स्पर्श कर शपथ (सौगन्ध) लेकर कहती हूँ कि-आप कुछ सन्देश देकर मुझे भेजिए, ताकि मैं जाकर आपके प्राणवल्लभको ले आऊं।'
मेरे इस प्रकार कहनेपर आनन्द-रससे आर्द्र हुई-स्निग्धदृष्टिसे मेरा मानो पान करती, छिपाये जानेपर भी काम-बाणके प्रहारसे जर्जरित हुई लज्जाको मानो भेदते, मार्ग पाकर बाहर निकलते ईषद् हास्यप्रभृति अनुराग-सूचक-विभ्रमोंसे आकुल होती, प्राणेश्वरसम्बन्धी प्रियवचन सुननेसे आनन्दवश उत्पन्न हुए स्वेदसे शरीरमें संलग्न (चिपटे) उत्तरीयांशुकको इधर उत्पन्न हुए रोमाञ्चके जालसे मानो उठाकर धारण करती, और दोलायमान (लटकते हुए) कर्णकुण्डलके रत्ननिर्मित मकराकार भागके अग्र (नोक) में उलझे हुए चन्द्रकिरणके समान शुभ्रवर्ण अपने हारको, कामदेवके द्वारा गलेमें समर्पण किए गए मृत्युपाशके समान उन्मुक्त करती (सुलझाती), वह अत्यन्त आनन्दसे अन्तःकरण विह्वल होने पर भी कन्याओंकी स्वाभाविक लज्जाका अवलम्बन करके ही मानो धीरे-धीरे कहने लगी-'पत्रलेखे ! मेरे ऊपर जो तुम्हारा अत्यन्त प्रेम है, उसे मैं जानती हूँ; किन्तु अभिनव-शिरीष कुसुमके समान कोमल-प्रकृतिवाली रमणियोंमें और फिर विशेष करके बाल-भावकी कुमारियोंमें इतनी
१. अलं मरणातु...।
२. शपामि ।
३. सन्विश माम्, याम्यानयामि तं देवं चन्द्रापीडं ते हृदयदयितम् ।
४. जर्जरिता ।
५. निष्पतद्भिः ।
६. स्वेदश्लिष्टम् ।
७. मरणाय पाशमिव ।
८. आलम्ब्य ।
९. शनैरवदत् ।
१०. पल्लव ।