भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 73, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 73

२४ कादम्बरी- [ कथामुखे-

अथ प्रतीहारी नरपतिकथनानन्तरमुत्थाय तां मातङ्गकुमारीं प्रवेशयत् । प्रविश्य च स नरपतिसहस्र-मध्यवर्तिनमशनिभय-पुञ्जितकुलशैलमध्यगतमिव कनकणिखरिणम्, अनेक-रत्नाभरण-किरण-जालकान्तरितावयवमिन्द्रायुध-सहस्र-सञ्छादिताष्टदिग्विभागमिव जलधरदिवसम्, अवलम्बितस्थूलमुक्ताकलापस्य कनकभृङ्खला-नियमितमणिदण्डिकाचतुष्टयस्य गगन-सिन्धु-फेन-पटल-पाण्डुरस्य नातिमहतो दुकूलवितानस्याधस्तादिन्दुकान्तमणिपर्य्य-ङ्किकानिषण्णम्, उदूधूयमान-कनकदेण्डचामरकलापम्, उन्मयूखमुख-कान्तिनिर्चय-पराभव-

तेषां विरोधोऽस्ति न वेत्यवबोधार्थम्, सति तु विरोधे नयनेङ्गितेनापि यत्प्रतिषेधसूचनसम्भवादित्याशयः । को दोषो न काप्यापत्तिः प्रवेश्यताम् इति एवम् आदिशेश आज्ञापितवान् ।

अथेति । अथ राज्ञः आदेशदानान्तरम् उत्थाय उत्थानं विधाय प्रतीहारी द्वारपालिका तां मातङ्गकुमारीं चण्डालकन्याकां प्रवेशयत् प्रावेशमकारयत् ।

प्रविश्य चेति । चण्डालकन्यका प्रविश्य प्रवेशं कृत्वा राजानमद्राक्षीदपश्यदिति दूरस्थक्रियया सग्रन्धः। अत्र सर्वाणि द्वितीयान्तपदानि क्रियाविशेषणानीत्यवधेयानि । अशनेरिन्द्रायुधाद्वज्रात् यद्भयं पक्षच्छेदनरूपमातङ्कस्तेन पुञ्जिता एकत्र मिलिता ये कुलशैलाः क्षेत्रसीमाकारिभूधरास्तेषां मध्यगतं तदन्तर्वर्तिनं कनकणिखरिणं सुमेरुपर्वतमिव नरपतीनां नृपाणां यत्सहस्रं तन्मध्यवर्त्तिनं तदन्तःस्थितमित्यर्थः । अत्रोपमालङ्कारः ।

पुरा पक्षधारिणो भूधरा यथा पक्षिणः अन्यस्माद्देशादुड्डीय देशान्तरे निपतन्ति तथैव निपतन्तः श्रैते यं देशं सम्प्राप्तास्तं तत्क्षणमेव सञ्चूर्णयामासुः । ततः सुरेशः कुलिशेन तेषां पक्षान् कर्त्तितुं प्रवृत्तस्तदा त्रस्तास्ते स्वस्वरक्षणोपायविचारणाय एकत्र मिलिता आसन्निति रामायणीया कथा ।

भूयो राजानं विशिनष्टि-अनेकेति । अनेकानि नानाविधानि रत्नाभरणानि मणिखचितालङ्काराः तेषां यानि किरणजालकानि रश्मिसमूहाः स्वार्थे कन्, तैरन्तरिता आवृता अवयवा अङ्गानि यस्य तं तथोक्तम्, अत एव इन्द्रायुधसहस्रेण शक्रधनुःसमूहेन 'इन्द्रा युधं शक्रधनुः' इत्यमरः सञ्छादिता अन्तरित अष्टौ दिग्विभागा दिशां प्रदेशा यस्मिंस्तत्तादृशम्, जलधरदिवसमिव मेघावृतदिनमिव (वर्त्तमानम्) अनेन राजा मेघवर्ण आसीदित्यवधार्यते । इहाप्युपमाऽलङ्कारः।

पुनस्तमेव राजानं विशेषयितुं प्रथमं वितानं विशिनष्टि-अवलम्बीति । अवलम्बिताः शिल्पिमिरधोलम्बितत्वेन आश्रिताः स्थूलानां स्थविष्ठानां मुक्तानां रसोद्भवानां कलापाः पङ्क्तयो यत्र तस्य तथोक्तस्य कनकं सुवर्णं तस्य याः शृङ्खला बन्धनरजवस्ताभिर्नियमिताः चतुर्षु कोणेषु बद्धा मणिदण्डिका रत्नखचिता यष्टयस्तासां चतुष्टयं यस्मिंस्तस्य, गगनसिन्धोर्मन्दाकिन्याः फेनपटलवत् अब्धिकफसमूहवत् 'डिण्डीरोऽब्धिकफः' इति कोशः, पाण्डुरं शुभ्रवर्णं तस्य एतानि षष्ठ्यन्तानि वितानविशेषणानि ।

अथ राजानं विशिनष्टि-नातीतिति । नातिमहतः किञ्चिद्बृहतः स्थानोचित्तप्रमाणस्य दुकूलवितानस्य क्षौमवसननिर्मितोल्लोचस्य 'उल्लोचो वितानं कन्दकोऽपि' इति कोशः, तस्य अधस्तात् निम्नप्रदेशे इन्दुकान्तमणिपर्य्यङ्किका चन्द्रकान्तमणिरचितमञ्चिका तत्र निषण्णम् उपविष्टम् । 'फेनपटलपाण्डुरे'त्यत्र लुप्तोपमा।

भूयो राजानं विशिनष्टि-उद्धूयेति । उद्धूयमानो भृत्यैः संवीज्यमानः कनकदण्डः सुवर्णाऽवल्म्वदन्यष्टियेषु तथाविधश्चामरकलापः प्रकीर्णकसमूहो यस्य तं तादृशम् ।


राजा का आदेश सुनने के बाद वह उठ खड़ी हुई और उस चांडाल-कन्या को भीतर ले आयी ।

उसने भीतर जाकर वज्राघात के भय से इकट्ठे हुए सभी पर्वतों के बीच स्थित सुमेरु पर्वत के समान सामन्त राजाओं के बीच बैठे हुए राजा शूद्रक को देखा । उसके आठों अंग अनेक रत्नों से जड़े हुए आभूषणों की किरणों से ढक गये थे जिससे वह इस प्रकार जगमगा रहा था मानो आठों दिशाओं में छाये हुए हजारों इन्द्रधनुषों को धारण करने वाला वर्षा का दिन हो। वह आकाशरूपी समुद्र के फेन की तहों जैसे उज्ज्वल तथा


१. जलधरसमयदिवसम् । २. आलम्बित ० । ३. पाण्डरस्य । ४. इन्दुकान्तपर्य्यंङ्गिका । ५. सुवर्णदण्ड ००० । ६. उन्मयूखमुखविजयपराभवप्रणते, उन्मयूखमुखकान्तिविजिते पराभवप्रणते ।