भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 75, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 75
२६कादम्बरी-[ कथामुखे-

पवनप्रनर्त्तितान्तदेशे, दुकूले वसानम्, अतिसुरभि-चन्दनानुलेपन-धवलितोरःस्थलम्, उपरि-विन्यस्त-कुङ्कुम-स्थासकम्, अन्तरनिपतितबालातपच्छेदमिव कैलाशाशिखरिणम्⁵, अपर-शशि-शङ्कया नक्षत्रमालयेव हारलतया कृतमुखपरिवेषम्¹, अतिचपल-राजे²-लक्ष्मी-बन्धन³निगड-शङ्कामुपजनयतेन्द्रमणि⁴-केयूरयुगलेन मलयज-रस-गन्धलुब्धेन भुजङ्गद्वयेनेव वेष्टितबाहुयुगलम्, ईषदालम्बि⁶-कर्णोत्पलम्, उन्नत-घोणम्, उत्फुल्लपुण्डरीक-लोचनम्⁷, अमलकलधौतपट्टायतम्⁸, अष्टमीचन्द्र-शकलाकारम्, अशेष-भुवन-राज्याभिषेकसलिलपूतम्⁹,

अतीति। अतिसुरभिश्चन्दनस्य अतिसुगन्धितमलयस्य अनुलेपनेन अङ्गरागेण धवलितं शुभ्रीकृतम् उरःस्थलं वक्षःस्थलं यस्य तं तादृशम् ।

उपरीति । उपरि तच्चन्दनलेपनोपरि विन्यस्ता विहिताः कुङ्कुमस्य केसरस्य स्थासका हस्तविम्बा यस्य तम् 'स्थासकं हस्तविम्बम्' इति कोशाः, अपरे तु 'चर्चा तु चर्चित्तं स्यामकम्' इति । अत एव अन्तरा-न्तरा मध्ये मध्ये निपतिताः पर्यस्ता बालातपच्छेदा अभिनवोदितसूर्यमयूखखण्डा यस्य तं कैलासशिख-रिणं हिमाचलमिव ( वर्तमानम् ) इहोपमा ।

भूयस्तमेव प्रकारान्तरेण विशिनष्टि—अपेरेति । अपरोऽन्यो यः शशी चन्द्रस्तस्य शङ्कया भ्रान्त्या प्राप्ता या नक्षत्रमाला तारापङ्क्तिस्तयेव हारलतया लतावह्रह्ममानया मुक्तास्रजा कृतो मुखस्य वदनस्य परिवेषः परिधिः परिवेष्टनमिति यावत्, यस्य स तम्, परिवेषस्तु परिधिः' इत्यमरः ।

इह मुखे शशीभ्रान्त्या भ्रान्तिमानलङ्कारः, 'नक्षत्रमालयेवे'त्युत्प्रेक्षा, अङ्गाङ्गिभावेन धानयोः सङ्करः तेन च मुखस्य चन्द्रसाम्यं हारलताया लत्यन्तनैर्मल्यं च ध्वनितमित्यलङ्कारेण वस्तुध्वनिः ।

अतीति। अतिचपला अत्यन्तं चञ्चला या राजलक्ष्मीराधिपत्यश्रीः तस्या बन्धो बन्धनं नियमन-मिति यावत्, तदर्थं यो निगडः शृङ्खला तस्य शङ्कां भ्रान्तिम् उपजनयता कुर्वता, एवम्भूतेन इन्द्रमणि-नीलकान्तमणिः तेन युक्तं खचितं यत्केयूरयुग्मम् अङ्गदद्वयं तेन तथोक्तेन, अत एव मलयजश्चन्दनसिक्तो यो द्रवस्तत्य गन्धेन परिमलेन लुब्ध आसक्तस्तेन तादृशेन भुजङ्गद्वयेनेव सर्पयुगलेनेव वर्तमानेन वेष्टितं परिक्षिप्तं बाहुयुगलं भुजद्वयं यस्य तं तादृशम् । इह राजलक्ष्मीस्थिरीकरणाय शृङ्खलाशङ्कामुपजनयतीति भ्रान्तिमानलङ्कारः, 'भुजङ्गद्वयेनेवे'त्युत्प्रेक्षा च, अनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।

ईषदिति । ईषदकिञ्चित् बालम्बिनो लम्बमाने कर्णोत्पले पद्माकारकर्णभूषणे यस्य तं तथोक्तम्, उन्नता उच्चा घोणा नासिका यस्य स तम्, 'घोणा नासा च नासिका' इत्यमरः, उत्फुल्लं विकसितं यत्पुण्डरीकं सिताम्भोजं तद्वत् लोचने नयने यस्य स तम्, इह लुप्तोपमा। अमलं स्वच्छं यत्कलधौतं कनकं तस्य यः पट्टः फलकं तद्वद् आयतं विस्तीर्णम्, अष्टमीचन्द्रस्य अष्टमीतिथावुदितसुधांशोः यत् शकलं तदर्धभागस्तद्वदाकार आकृतिर्यस्य तम् । इह द्वे अपि लुप्तोपमे । अर्धभागवन्दभयोरपि अष्टम्यामष्टावेव कला इत्यभिप्रेत्येत्यवधेयम् ।

अशेषानि समस्तानि यानि भुवनानि भूमण्डलानि तेषां राज्यम् आधिपत्यं तस्य अभिषेकसलिलं मङ्गलस्नानजलं तेन पूतं पवित्रन, तया ऊर्णा भ्रूयुग्ममध्यवर्ती लोमावर्तः तया सनाथं युक्तम्, 'ऊर्णा मेषा-


चँवर की हवा से फहरा रहे थे। उसका वक्षस्थल अति सुगन्धित चंदन के लेप से अत्यन्त उज्ज्वल हो उठा था, जिस पर बीच-बीच में कुंकुम के छापे भी मारे गये थे, जिससे वह कहीं-कहीं प्रातःकालीन सूर्य की धूप से सुशोभित कैलास की चोटी के समान प्रतीत हो रहा था। उसके कंठ में मोतियों की माला ऐसी प्रतीत हो रही थी मानो तारों ने उसके मुख को दूसरा चन्द्रमा समझ कर उसके चारों ओर मण्डप बाँध दिया हो । वह मानो चन्दन की सुगन्ध के लोभ से आये हुए दो सर्पों के समान अपनी दोनों भुजाओं पर इन्द्रनीलमणियों के दो केयूर ( बाजूबन्द ) पहिने था जो मतवाली राजलक्ष्मी को बाँधने की दो जालों का भ्रम उत्पन्न कर रहे थे। उसके कानों के कमल कुछ-कुछ लटके हुए थे, नाक ऊँची थी, आँखें विकसित श्वेत कमलों के समान खिली हुई थीं तथा निर्मल सोने के पट्ट के समान चौड़े, अष्टमी के अर्धचन्द्र के समान आकृतिवाले एवं सभी लोकों के राज्याभिषेक-जल से पवित्र ललाट पर भौंहों के बीच ऊर्णा (बालों की भँवरी) सुशोभित हो रही थी।


१. परिवेषन् । २. राज्य । ३. बन्धन । ४. 'नील' इत्यधिकः पाठः । ५. शङ्कुशिखरम् ६. आलम्बित । ७. नेत्रम् । ८. पट्टियितम् । ९. अभिषेकपूतम् ।