कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 99, कुल 709 में से
संदर्भ में पढ़ें५० कादम्बरी- [ कथामुखे-
नातिदूरवर्त्तिन्या ससम्भ्रम-प्रधावितया प्रतीहार्य्या प्रसारितं बाहुम् अवलम्ब्यानवरत-वेत्रलताग्रहण-प्रसङ्गादतिजरठ-किसलयानुकारि-करतलं। करेणं अभ्यन्तरसञ्चारसमुचितेन परिजनेनानुगम्यमानः, धवलांशुकै-परिगतपर्य्यन्ततया स्फटिक-मणिम॑य-भित्ति-बद्धमिवोप-लक्ष्यमाणम्, अतिसुरभिणा मृगनाभिपरिमलेना-मोदिना चन्दनवारिणा सिक्तशिशिरंमणि-भूमिम्, अविरलविप्रकीर्णेन विमल-मणिकुट्टिम-गगनतलतारागणेनेव कुसुमोपहारेण निरन्तरनिचितम्, उत्कीर्णशालभञ्जिकानिवहेन सन्निहितगृहदेवतेनेव गन्धसलिल-क्षालितेन कलधौतमयेन स्तम्भसञ्चयेन विराजमानम्, अतिबहलागुरु-धूप-परिमलम्, अखिल-
कृटादिरचिनद्रव्यविशेषो येन सः, गृहीतं मुखाभ्यन्तरे घृतं ताम्बूलं नागवल्लीदलं येन स तथोक्तः । प्रमृष्टः सलिलादिना संस्कृतो यो मणिकुट्टिमप्रदेशः रत्नमयबद्धस्थलं तस्मात्, उत्थाय उत्थानं विधाय, नातिदूरं वर्तते या सा तया, ससम्भ्रमं सत्रासं प्रधावितया शीघ्रं व्रजन्त्या प्रतीहार्य्या द्वारिपालिकया प्रसारितं विस्तारितम्, अनवरतं निरन्तरं वेत्रस्य वेतसस्य या लता मृदुयष्टिः तस्या ग्रहणे धारणं तस्य प्रसङ्गाद् अभ्यासात्, अतिजरठम् अतिकठिनम् अत्यन्तपरिणतमित्यर्थः यत् किसलयं पल्लवं 'पल्लवोऽस्त्री किसलयम्' इत्यमरः, तदनुकर्तुं शीलं यस्य तत्तथोक्तं करतलं हस्तोधःप्रदेशो यस्य तत्तथोक्तम्, बाहुं भुजं 'भुजवाहू प्रवेष्टो दोः' इत्यमरः, अवलम्ब्य तदाश्रयं कृत्वेत्यर्थः, अभ्यन्तरे वाह्यजनागम्ये गृहप्रदेशे या सञ्चारः सञ्चरणं गमनागमनमित्यर्थः, तत्र समुचितेन योग्येन परिजनेन सेवक्लोकेन अनुगम्यमानः अनुव्रज्यमानः ।
धवलांशुकेति । धवलानि निर्मलांनि यानि अंशुकानि वस्त्राणि तैः परिगताः परिवेष्टिताः पर्यन्ताः प्रान्तभागा यस्य तस्य भावस्तत्ता तया कारणेन, स्फटिकमणिमयी या भित्तिः कुड्यं तया निबद्धं रचितमिव उपलक्ष्यमाणम् अवलोक्यमानम् । अनेन वस्त्राणां शुभ्रत्वं सौक्ष्म्यातिशयश्च प्रतीयते । इह क्रियोत्प्रेक्षा, सा च वाच्या । इत आरभ्य द्वितीयान्तपदानि, 'आस्थानमण्डपम्' इत्यस्य विशेषणानि बोध्यानि ।
अतिसुरभिणेति । अतिसुरभिणा अत्यन्तघ्राणतर्पणेन 'सुरभिर्घ्राणतर्पणः' इत्यमरः, मृगनाभिपरिमलेन कस्तूरीगन्धेन 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे' इत्यमरः, आमोदिना अत्यन्तसुगन्धिना चन्दनवारिणा मलयजमिश्रितपानीयैन, सिक्ता अत एव शिशिरा शीतला मणिभूमी रत्नबद्धा भूर्यत्र तं तथोक्तम् ।
अविरलेति । अविरलं सान्द्रं यथा स्यात्तथा विप्रकीर्णेन विक्षिप्तेन, तथा विमलं निर्मलं मणिकुट्टिमं रत्नवद्धभूमिः गगनतलतारागणेन आकाशस्थितनक्षत्रमण्डलेनेव कुसुमोपहारेण पुष्पसमूहेन निरन्तरम् अनवरतं निचितं सान्द्रभावेन व्याप्तम् । इहोपमालुप्तोपमयोः परस्परमङ्गाङ्गिभावेन सङ्करालङ्कारः ।
उत्कीर्णेति । उत्कीर्णं उत्कीर्य विहितः शालभञ्जिकानिवहः पुत्तलिकापुंजो यस्मिन् तथोक्तेन, अत एव सन्निहिता निकटस्था गृहदेवताः भवनाधिष्ठात्र्यो देव्यो यस्मिन् तथोक्तेनैव स्थितेन, गन्धसलिलैः सुगन्धिवारिभिः क्षालितेन धौतेन, कलधौतमयेन सुवर्णनिर्मितेन, स्तम्भानां स्थूणानां सञ्चयेन समुदायेन विराजमानं शोभमानम् । इह सन्निहितगृहदेवतेनेत्यत्र क्रियोत्प्रेक्षा ।
अतीति । अतिवहलः अत्यन्तप्रचुरो योऽगुरुः कृष्णागुरुः तस्य धूपस्य परिमलः सौरभं यस्मिंस्तत् तथोक्तम् ।
ओर अपनी बाहें फैला दीं। राजा ने भी निरन्तर बेंत की छड़ी लेने के कारण घट्टे पड़े हुये पल्लवों के समान उसकी हथेली अपने हाथ में ले ली। महल के भीतर तक आ जा सकने वाले सेवक भी राजा के पीछे-पीछे चल पड़े उस आस्थान-मंडप (वह सभा-मंडप जहाँ भोजन के बाद राजा का खास दरबार लगता था) के चारों ओर उजले रेशमी पर्दे पड़े हुये थे, जिससे वह विल्लौरी दीवारों का बना हुआ प्रतीत हो रहा था। वहाँ की मणियों से बनी हुई भूमि कस्तूरी मिले अत्यन्त सुगन्धित जल से सिंची होने के कारण बहुत ही शीतल थी, जिस पर थोड़ी-थोड़ी दूर पर फूलों के गुच्छों से सजावट की गई थी, जिसने वह ऐसी प्रतीत हो रही थी मानों मणिभूमि रूपी निर्मल आकाश में गुच्छे रूपी अत्यन्त घने तारों के झुण्ड दिखाई पड़ रहे हों। उस मण्डप में अनेक सोने के खम्भे बने हुये थे जो सुगन्धित जल से पखारे गये थे। उन पर पुतलियों की प्रतिमायें गढ़कर काढ़ी गई थीं
१. प्रसारितबाहुम्, प्रसारितम् । २. 'अनवरत' इति पाठः क्वचिन्नाप्युपलभ्यते । ३. प्रसङ्गानति, प्रसङ्गादनति...। ४. करतलकरेण । ५. शुक्लयवनिकापरिगत...। ६. स्फटिकमय । ७. निबद्ध । ८. अतिसुरभि । ९. परिगतेन । १०. शिशिरकर । ११. विमलमणिकुट्टिमं गगनतलं तारागणेनेव । १२. दैवतेनेव ।