कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
टीकाकर्त्तुः परिचयः
वास्ते भारतवर्ष एव नितरामाचारदीलागुरु-
यंवासन् रससंस्यदर्शनविदो व्यासालपादादयः :
श्रीवाचस्पतिमण्डनप्रभृतयो ये दर्शनोद्धारकाः
सञ्जाताः प्रवलान्धकाररवयः सर्वप्रधाना इह ॥तत्रास्तेऽखिललोक एव प्रथिता सद्दिप्रभूतान्विता-
गङ्गा-कौशिकि-गण्डकी हिमघनैर्या चैव सीमावृता ।
बाद्याशक्तिजनिश्च यत्र समभूत्स्वर्गात्मिका याऽवनी
सा नाम्ना मिथिलेति तन्त्रललिता विद्योतते सर्वतः ॥तस्यां चैव हि 'हारवल्ल' वलये 'उच्चैठ' पीठान्तिके
ख्याता 'चानपुरे'ति रम्यनगरी विद्वद्वरैर्मण्डिता ।
तत्रास्मत्कुलपूर्वजाः समभवन् सत्कर्मदीक्षाव्रताः
शास्त्रारण्यविहारिणो नृपकुललब्धप्रतिष्ठादिकाः ॥यत्रास्मज्जनकान्न यः समभवत् पूर्वक्रमे सप्तमो
योगाभ्यासरतो विचारनिपुणो ज्ञाने कनिष्ठो महान् ।
वत्सेत्यन्वयसन्मणिः मुनगरे शिष्योपशिष्यैर्युतः
मुत्वांत्तं समुपागतः खलु भवानन्दाभिधानो बुधः ॥एतस्माद्रघुनाथोऽभूच्छास्त्रविज्ञानतत्त्ववित् ।
तदात्मजौ खलु महा-महोपाध्यायसंयुतौ ॥तेजनाथ मेहवार्नौ विद्याविक्रान्तशालिनौ ।
अनेकग्रन्थकर्त्तारौ सञ्जातौ नृपमान्वितौ ॥तत्र जातः मुनिपुत्रो 'बाबूराम'-पदामिधः ।
तेजनाथाद्धि सर्वोपकारी लोकोक्तिसंग्रही ॥दर्पदत्तो धरभणी वेणीदत्ताभिधस्तथा ।
त्रयः पुत्राः समभवंस्तेषु तार्तीयकश्च यः ।
नैयायिकवरो भाइ नाथनामा श्रुतः किल ।
स श्रीजयपुरेगत्त्य प्रधानः पण्डितोऽभवन् ॥
छ चामलमाटोद्धारे—
वैकुण्ठान् पुरस्कृत्य लोकात्कश्मीरवातरत् ।
वैकुण्ठस्तु निजांशेन मिथिलाभूमिमाविशत् ॥
लतो निवासभूमिस्तु सर्वस्यानाद्विशिष्यते ॥
[ ६७२ ]
तथा च 'बदरीनाथो' वैयाकरणकेसरी ।
चतुष्प्संज्ञको जातस्त्वपरष्टीठराभिधः ॥
चतुष्वैतेषु बदरीनाथस्य खलु ये सुताः ।
निर्द्दिशामो हि तानत्र यथावत्प्रथिता भुवि ॥
तत्र ज्येष्ठः सुधीः श्रीमान् दैवज्ञो राजसत्कृतः ।
लोकनाथाभिधो ज्ञेयः सत्कीर्त्तिलसितो हि यः ॥
तथा शाब्दिकमर्मज्ञः प्राज्ञो योगविदग्रगः ।
श्रीयोगनाथः प्रथितः काव्यतीर्थस्तथा परः ॥
श्रीचेतनाथो देव्यास्तु समाराधनतत्परः ।
तत्सूनुः शाब्दिकः काव्यतीर्थोपाधिविभूषितः ॥
श्रीश्यामसुन्दरो ज्ञेयो दयालुर्भक्त आत्मवान् ।
पारम्पर्यक्रमेणैते ठकुरोपाधिसंयुताः ॥
श्रीकृष्णमोहनश्चाथ कमलाकान्तनामकः ।
सर्वजिच्च तथा ज्ञेयो जगदीश।दिसंज्ञकः ॥
एते श्रीलोकनाथस्य पुत्राः सन्ति महात्मनः ।
बरौनीसंज्ञके ग्रामे साम्प्रतं निवसन्ति हि ॥
माता मदीया लक्ष्म्याख्य यन्नाम्ना च मया कृता ।
साहित्यदर्पणस्यस्य व्याख्या छात्रहितैषिणी ॥
मातुः परिचयस्तावद्दीयतेऽत्र मया बुधाः ! ।
सत्कश्यपान्वये जातो गोविन्दो हि परोपकृत् ॥
दैवज्ञो लालजी ज्येष्ठस्ततः पञ्चमणिर्मतः ।
कनिष्ठश्च ततो जातो नाम्ना गृहमणिर्मणिः ॥
एतस्माज्जन्म मे मातुर्विज्ञेया इह भूतले ।
मध्यमः खलु यः पञ्च-मणिः ख्यातो हि बुद्धिमान् ॥
तत्पौत्रश्च गुणानन्दो दैवज्ञ इह कीर्त्तितः ।
तथा चैव रमानन्दो व्याकरणादिवित्सुधीः ॥
ज्ञेया 'चन्द्रकला' नाम्नी धर्मपत्नी मम प्रिया ।
या च कादम्बरीसख्या संयोज्य समलङ्कृता ॥
मद्ग्रन्थमध्ये बहवो हि दोषा नूनं भविष्यन्ति तथापि मान्याः ;
किं कण्टकाढ्यामपि केतकीं तु लोका न गृह्णन्ति वदन्तु सन्तः ।