भारतकोश
कालिका पुराण (सटीक हिन्दी अनुवाद सहित)

कालिका पुराण (सटीक हिन्दी अनुवाद सहित)

Kalika Purana with Hindi Translation

महर्षि व्यास द्वारा

स्रोत: कल्याण मन्दिर प्रयाग · कल्याण मन्दिर प्रयाग (उद्गम)

DevanagariSanskritpublished442 पृष्ठ

पृष्ठ 432, कुल 442 में से

संदर्भ में पढ़ें
पृष्ठ 432

यहाँ पृष्ठ पर मुद्रित पाठ का लिप्यंतरण प्रस्तुत है:

४३६ ൠ श्रीकालिका पुराणे ൠ श्रीकाली क्षमापराधस्तोत्रम् प्राग्देहस्थो यदाऽहं तव चरणयुंग नाशितो नार्च्चितोऽहं । तेनाद्या कीर्त्तिवर्गैर्जठरजदहने वर्द्ध्यमानो बलिष्ठैः ॥ क्षिप्त्वा जन्मान्तरान्नः पुनरिह भविता क्वाश्रयः क्वापि सेवा । क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥ बाल्ये बालाभिलाषैर्जडित-जडमतिर्बाललीलाप्रसक्तो । न त्वां जानामि मातः कलिकलुषहरां भोगमोक्षप्रदात्रीम् ॥ नाचारो नैव पूजा न च यजनकथा न स्मृतिर्नैव सेवा । क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥ प्राप्तोऽहं यौवनञ्चेद्विषधरसदृशैरिन्द्रियैर्दष्टगात्रो । नष्टप्रज्ञः परस्त्रीपरधनहरणे सर्व्वदा साभिलाषः ॥ त्वत्पादाम्भोजयुग्मं क्षणमपि मनसा न स्मृतोऽहं कदापि । क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥ प्रौढो भिक्षाभिलाषी सुतदुहितुकलत्रार्थमन्नादिचेष्टाः । क्व प्राप्स्ये कुत्र यामीत्यनुदिनमनिशञ्चिन्तया मग्नदेहः ॥ नो ते ध्यानं न चास्था न च भजनविधिर्नामसंकीर्त्तनं वा । क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥ वृद्धत्वे बुद्धिहीनः कृशविवशतनुश्श्वासकासातिसारैः । कर्म्मानर्होऽक्षिहीनः प्रगलितदशनः क्षुत्पिासाभिभूतः ॥ पश्चात्तापेन दग्धो मरणमनुदिनन्ध्येयमात्रन्नचान्यत् । क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥ कृत्वा स्नानं दिनादौ क्वचिदपि सलिलं नो कृतं नैव पुष्पं । ते नैवेद्यादिकञ्च क्वचिदपि न कृतं नापि भावो न भक्तिः ॥ न न्यासो नैव पूजा न च गुण कथनं नापि चाऽर्च्चा कृता ते । क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥ जानामि त्वां न चाहं भवभयहरणीं सर्व्वसिद्धिप्रदात्रीं । नित्यानन्दोदयाढ्यान्त्रितयगुणमयीं नित्यशुद्धोदयाढ्याम् ॥ मिथ्या कर्म्माभिलाषैरनुदिनमभितः पीडितो दुःखसङ्घैः । क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥ कालाभ्रां श्यामलाङ्गीं विगलितचिकुरां खड्गमुण्डाभिरामां । त्रास्त्राणेष्टदात्रीम् कुणपगणशिरो मालिनीं दीर्घनेत्राम् ॥ संसारस्यैकसारं भवजननहरां भावितो भावनाभिः । क्षन्तव्यो मेऽपराधः प्रकटितवदने कामरूपे कराले ॥ ब्रह्माविष्णुस्तथेशः परिणमति सदा त्वत्पदाम्भोजयुग्मम् । भाग्याभावान्न चाहम्भवजननि भवतपादयुग्मं भजामि ॥