कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 10, कुल 56 में से
संदर्भ में पढ़ें६ कामकलाविलासः इतः परं प्रबन्धेन प्रधानप्रतिपाद्यां कामकलाक्षररूपिणी- मेव कामः शिवः तदक्षररूपां वक्तुमुपक्रमते, - 'परशिवरविकर इत्यादि, कला च दहनेन्दुविग्रहौ बिन्दू' इत्यन्तम् परशिवरविकरनिकरे प्रतिफलति विमर्शदर्पणे विशदे । प्रतिरुचिरुचिरे कुड्ये चित्तमये निविशते महाबिन्दुः ॥ ४ ॥ परशिवः प्रकाशैकस्वभावः परमशिवभट्टारक एव रवि- र्दिनकरः तस्य कराः किरणाः तेषां निकरः पुञ्जः, तस्मिन् विशदे निर्मले विमर्शदर्पणे, विमर्शो नाम अनवधिरेका विस्फुरणशक्तिः, तथा प्रत्यभिज्ञायाम् 'सा स्फुरत्ता......................................।' इत्यादिनेव दर्पणत्वेन निरूप्यते - स्वस्वरूपप्रकाशत्वात् । तत्र प्रतिफलनं नाम स्वरूपावलोकनं, तादृशप्रतिफलनरूपाव- लोकने सति, चित्तमये - ज्ञानैकस्वरूपे, प्रतिरुचिरुचिरे-प्रति- प्रकाशमनोहरे, कुड्ये, महाविन्दुः निविशते प्रतिष्ठितो भवति । चित्तस्य कुड्यत्वनिरूपणं महाबिन्द्राविर्भावकारणत्वात्,