कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 13, कुल 56 में से
संदर्भ में पढ़ेंश्रीमत्पुण्यानन्दाचार्यविरचितः ९ वागर्थसृष्टिहेतुः परस्परानुप्रविष्टविस्पष्टम् ॥ ६ ॥ बिन्दुरहंकारात्मा रविरेतन्मिथुनसमरसाकारः । कामः कमनीयतया कला च दहनेन्दुविग्रहौ बिन्दू ॥ ७ ॥ सितः शुभ्रः, शोणो रक्तः, तद्रूपौ बिन्दू, तयोर्युगलम्, अत एव विविक्तशिवशक्ति - अन्योन्यविहरणपरे शिवशक्ती यस्मिन् कर्मणि तत्, अत एव संकुचत्प्रसरं - संकुचन् मुकुलीभवन् प्रसरः जगत्सृष्टिरूपो यस्मिन् तत्, वाचः - परा-पश्यन्त्या- दिरूपसमस्तशब्दाः, अर्थाः - शिवादि-क्षित्यन्तषट्त्रिंशत्तत्त्व- रूपाः, तेषां सृष्टिः षडध्वात्मकजगन्निर्मितिः, तत्र हेतुः कार- णम्। परस्परानुप्रविष्टविस्पष्टम् - परस्परम् अन्योन्यम् अनुप्र- विष्टम् अन्तर्गतं विस्पष्टं पृथग्भूतं च तत्, एवं-भूतं सितशोण- बिन्दुयुगलं - कामकामेश्वरीरूपं दिव्यमिथुनं, विभावयेत् इति पूर्वेण संबन्धः । अत्र इदमतिरहस्यम् । 'यः परः स महेश्वरः ।' इति श्रुत्युक्तरीत्या निखिलवेदादिशब्दोत्पादकानुत्तराभिधेयः 2