कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 14, कुल 56 में से
संदर्भ में पढ़ें१० कामकलाविलासः परमेश्वरः स्वाङ्गभूताखिलप्रपञ्चविलयात्मकविमर्शशक्तिम् अनुप्रविश्य विन्दुभावं मन्यते, ततः सा विमर्शशक्तिरपि स्वान्तर्गतप्रकाशमयबिन्दुम् अनुप्रविशति, ततश्च बिन्दुरुत्पन्नो भवति, तस्माद्विन्दोः नादात्मिका समस्ततत्त्वगर्भिणी तेजो- मयी जीवरूपा बालाग्रवत् सूक्ष्मरूपिणी इति गत्या शृङ्गाट- करूपताम् उद्गृह्णाति । एवं च बिन्दुनादस्वरूपयोस्तयोः प्रका- शविमर्शयोरहमिति शरीरं भवति, एवं द्विरूपयोस्तयोर्मध्ये एको विमर्शो रक्तविन्दुरूपतां भजते, अपरः प्रकाशः शुक्रबिन्दु- भावम् एति, उभयोर्मेलने मिश्ररूपं सर्वतेजोमयं परमात्म- स्वरूपं भवति । श्रुतिरपि ‘ एको वर्णो बहुधा शक्तियोगात् वर्णाननेकान् निहितार्थो दधाति । ’ इति । एतदेव बिन्दुत्रयनिरूपणं विवृणोति, – बिन्दुरहंकारात्मा इति, विन्दुः सितरक्तस्वरूपः अहंकारात्मा अन्तर्गर्भितसम- स्तवर्णराशिः अनुत्तरस्फाररूपाहंकारः आत्मा तादात्म्य- स्वरूपं यस्य सः । ‘ वर्णात्कारः ’ इति सूत्रेण अहं-शब्दात् कारशब्दप्रत्ययः ऐकार इतिवत्, अत एव एतन्मिथुनसमर- साकारः – एतयोरकार-हकारवाच्ययोः प्रकाशविमर्शयोर्मि- थुनं द्वन्द्वं, तस्य दिव्यदम्पतिरूपस्य मिथुनस्य समरसः पर- स्परानुप्रवेशरूपम् आनुकूल्यं तदेव आकारः स्वरूपं यस्य