कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 44, कुल 56 में से
संदर्भ में पढ़ें४० कामकलाविलासः ‘स्फुरत्तामात्मनः पश्येत्…।’ इति पूर्णानन्दमयात्मावलोकनसमये परिणमेत आकारान्त- रेण, तद्देहावयवानां - तस्यास्त्रिपुरायाः देहः तेजःपुञ्जात्मकः, तथा अवयवाः किरणाः, तेषां परिणतिः अवस्थान्तरापत्तिः। इह आवरणदेवताः - वशिन्याद्यणिमाद्यनन्तशक्तिनिकुरम्बं चिदानन्दसमुद्रात्मकमेव सकाशत्वे फेन-बुद्बुद-तरङ्गादिवत् अनन्तकोटिशक्तयः प्रादुर्भावतिरोभावौ भजन्ति, इत्यर्थः। आसीनेत्यादि. विन्दुमये सर्वानन्दाख्यपरमाकाशे - ‘बैन्दवे परमाकाशे’ इत्युक्तत्वात् इत्यर्थः। चक्रे - आत्मसंक्रमविहारपीठे, आसीना उपरि प्रदेशे विराजमाना, सा देशकालाकारानवच्छिन्ना तत्स्वरूपिणी, त्रिपुरसुन्दरी सर्वकारणत्वेन स्पृहणीया स्वच्छा वा, कामेश्वराङ्कनिलया - कामेश्वरस्य श्रीनाथस्य, अङ्कं वामोरुभागः, निलयः आवासस्थानं यस्याः सा। तथोक्तं परमशिवेन ‘कला विद्या पराशक्तिः श्रीचक्राकाररूपिणी। तन्मध्ये बैन्दवं स्थानं तत्रास्ते परमेश्वरी॥ सदाशिवेन संपृक्ता सर्वतत्त्वार्थगर्भिणी।’ इत्यादि। देवी विश्वसृजनादिव्यापारविनोदिनी, पाशः