कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 108, कुल 353 में से
संदर्भ में पढ़ें१६० सटीक कामसूत्रे [ २ अधिकरणे,
कर्मभेदेन संप्रयुङ्क्ते तेनैव प्रयोजयेद्, एवं रतमाकारग्रहणेन स्फुटरसं स्यात् तच्चित्तानुविधानादिति ।
इति चुम्बनविकल्पा नवमं प्रकरणम् ।
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे चुम्बनविचारस्तृतीयोऽध्यायः ।
चतुर्थोऽध्यायः ।
एवं चुम्बनेनोपक्रम्य ततोऽधिकेन नखच्छेद्येनोपक्रमयितुं नखरदनजातय उच्यन्ते, नखविलेखनप्रकारा इत्यर्थः ।
तदेव स्वरूपेण दर्शयन्नाह—
रागवृद्धौ संघर्षात्मकं नखविलेखनम् ॥ १ ॥
संघर्षात्मकमिति । प्रदेशस्य नखैर्यत्समन्ततो घर्षणमवपृथक्करणं तन्नखविलेखनं तत्स्वभावत्वात्, तच्च रागवृद्धौ सत्याम्,
यत्तु नखाग्रेण नुदनं तद्रागमान्द्ये सति तत्र च्छेद्यस्याभावाद्, नखविलेखनस्यैव प्रकाराः कथ्यन्ते ॥ १ ॥
तस्य क्व प्रयोगः कदा चेत्याह—
तस्य प्रथमसमागमे प्रवासप्रत्यागमने प्रवासगमने क्रुद्धप्रसन्नायां मत्तायां च प्रयोगो न नित्यमचण्डवेगयोः ॥ २ ॥
तस्येति । नखविलेखनस्य, अचण्डवेगयोरिति । मन्दमध्यवेगयोः, न नित्यप्रयोगः, कदा तर्हीत्याह—प्रथमसमागमे तथा प्रवासप्रत्यागमने तयोरुत्कण्ठितयोः प्रवृद्धरागत्वात्, प्रवासगमने स्मरणार्थं, क्रुद्धप्रसन्नायामिति । नायकेन प्रसादिता सती हर्षाद्विवृद्धरागा भवति, मत्तायां च मद्यमदेन रागस्योच्चिङ्गितत्वाद्, एवं क्रुद्धप्रसन्ने मत्ते च नायके द्रष्टव्यं, चण्डवेगयोस्तदाऽन्यदा च प्रयोगो नित्यमर्थोक्तम् ॥ २ ॥
तथा दशनच्छेद्यस्य सात्म्यवशाद्वा ॥ ३ ॥
तथा, दशनच्छेद्यस्य प्रयोग इत्येव, तस्यैतावता तुल्यत्वादित्यतिदेशः, तेन स्वरूपमपि योज्यं, रागविवृद्धौ संघर्षात्मकं दशनच्छेद्यं, रागमान्द्ये तु दशनग्रहणमिति, सात्म्यवशाद्वा तयोः प्रयोगो यदि तदाऽचण्डवेगौ प्रकृतिसात्म्यान्न सहेतां तदा नैवेत्यर्थः ॥ ३ ॥
तदाच्छुरितकमर्धचन्द्रो मण्डलं रेखा व्याघ्रनखं मयूरपदकं शशप्लुतकमुत्पलपत्रकमिति रूपतोऽष्टविकल्पम् ॥ ४ ॥