भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 114, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 114

१०६ सटीक कामसूत्रे [ २ अधिकरणे, ५ अध्याये ]

मनुस्मरणार्थं रागवर्धनार्थञ्च विशेषान्दर्शयेत् ॥ २६ ॥

न त्विति। परपरिगृहीतासु वैचक्षण्ययुक्तास्वपि, एवमिति। वैचित्र्यं युक्तं, तासां प्रच्छन्ननायकोपभोग्यत्वात्, प्रच्छन्नेष्विति। ऊरुजघनवङ्क्षणादिषु, अनुस्मरणार्थमिति। ये नखच्छेद्यविशेषास्तान्दृष्ट्वा स्मरन्ति, नित्यसमागमस्य दुर्लभत्वाद्, रागवर्धनार्थञ्चेति। प्रमोदमात्रस्वरूपत्वाद्विस्रब्धिलक्षणां प्रीतिं महतीं जनयन्ति ॥ २६ ॥

स्मरणमधिकृत्यान्वयव्यतिरेकाभ्यां प्रशंसामाह—

नखक्षतानि पश्यन्त्या गूढस्थानेषु योषितः। चिरोत्सृष्टाऽप्यभिनवा प्रीतिर्भवति पेशला ॥ २७ ॥

नखक्षतानीति। गूढस्थानादिषु, अभिनवा प्रथमसमागम इव, प्रीतिः=स्नेहः, पेशला=अकृत्रिमा ॥ २७ ॥

चिरोत्सृष्टेषु रागेषु प्रीतिर्गच्छेद्वराभवम्। रागायतनसंस्मारि यदि न स्यान्नखक्षतम् ॥ २८ ॥

चिरोत्सृष्टेष्वनुभूय चिरपरित्यक्तेषु, पराभवं विनाशं, रागायतनसंस्मारीति। रूपं यौवनं गुणाश्चेति रागायतनं, तत्स्मारयितुं शीलं यस्येति, नखक्षतदर्शनात्तद्रूपादिषु स्मरणं, ततः प्रीतिवासनाप्रबोधः॥२८॥

सामान्येन प्रशंसामाह—

पश्यतो युवतिं दूरान्नखोच्च्छिष्टपयोधराम्। बहुमानः परस्यापि रागयोगश्च जायते ॥ २९ ॥

दूरादिति। तत्प्रकारमनुपलभ्यापि, उच्छिष्टं परिभुक्तं, बहुमानोऽतिगौरवं, परस्यापि येनापि न संगता, रागयोग इति। रागेण युज्यत इत्यर्थः ॥ २९ ॥

पुरुषश्च प्रदेशेषु नखचिह्नौर्विचिह्नितः। चित्तं स्थिरमपि प्रायश्चलयत्येव योषितः ॥ ३० ॥

पुरुषश्चेति। यथा पुरुषस्य तथा योषितोऽपि पुरुषं दृष्ट्वा रागः, प्रदेशे दष्टेषु, विचिह्नितो विलिखितः, स्थिरमपि तपश्चरणादिभिर्नियतपि प्रायश्चलयतीति प्रकृतेरित्यर्थः ॥ ३० ॥

नान्यत्पटुतरं किञ्चिदस्ति रागविवर्धनम्। नखदन्तसमुत्थानां कर्मणां गतयो यथा ॥ ३१ ॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चतुर्थोऽध्यायः।


दशनच्छेदप्रकरणम्। १०७

आदितो नवमः।

नान्यदिति। रागयोगेभ्यः, पटुतरं रागवृद्धौ योग्यतरं, दन्तग्रहणं तुल्यफलत्वदर्शनार्थं प्रासङ्गिकं, कर्मणां गतय इति। छेदनानां प्रवृत्तयो यथा देहान्तरस्थिता न तथा लोकेऽन्यदस्ति संप्रयोगेऽपि रागवर्धनं, पूर्वपूर्वमिति वक्ष्यति ॥ ३२ ॥

इति नखजातयो दशमं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे नखजातयश्चतुर्थोऽध्यायः।

अथ पञ्चमोऽध्यायः।

एवं नखच्छेद्यानुपक्रम्य तदधिकेन दशनच्छेद्येनोपक्रमितुं दशनच्छेद्यविधयस्तथाऽऽलिङ्गनादयो, देशप्रवृत्तिमभिनिरूप्य प्रयुज्यमाना न रागाहेतव इति देशेषु भवा देश्या उपचारा, इति प्रकरणद्वयमत्राध्याये, गहेतव इति देशेषु भवा देश्या उपचारा, इति प्रकरणद्वयमत्राध्याये, तत्र च्छेद्यस्य विषयस्वरूपकालानां पूर्वत्रानिर्दिष्टत्वात्स्थानादीन्याह—

उत्तरोष्ठमन्तर्मुखं नयनमिति मुक्त्वा चुम्बनवद्दशनरदनस्थानानि ॥ १ ॥

उत्तरोष्ठमिति। चुम्बनस्येवात्राप्युत्तरोष्ठं छिद्यमानमसुखावहम्, अन्तर्मुखं जिह्वां, शेषमपि दशनागोचरत्वाद्, नयनयोश्छेद्यत्वासंभवात्पर्यन्तपीडाकरत्वाद्रूप्यकरणाच्च मुक्त्वा, शेषा ललाटाधरोष्ठगलकपोलवक्षःस्तनाः, तथा ललाटामूरुसंधिबाहुमूलनाभिमूलानि सन्ति तानि स्थानानि, न तु सर्वजनप्रयोज्यानीति, एतत्सर्वं प्रयोज्यं चुम्बनेन सहैकविषयत्वाद्, दशनरदनस्थानानि, दन्तविलेखनस्थानानि, उत्तरोत्तरवैचित्र्यदर्शनार्थं चुम्बनविकल्पानन्तरमिदं नोक्तम् ॥ १ ॥

गुणानाह—

समाः स्निग्धच्छाया रागग्राहिणो युक्तप्रमाणा निश्छिद्रास्तीक्ष्णाग्रा इति दशनगुणाः ॥ २ ॥

समा अकरालास्तुल्यच्छेदं निष्पादयन्तीति, स्निग्धच्छाया अपरषाः, रागग्राहिणस्ताम्बूलभक्षणादौ, न पुष्पावदाताः, इति गुणद्वयं शोभाऽर्थं; युक्तप्रमाणा न श्लक्ष्णा न पृथवः, निश्छिद्राः=घनाः, तीक्ष्णाग्रा इति गुणत्रयं छेद्यार्थं शोभार्थं च ॥ २ ॥

कुण्ठा राज्युद्गताः परुषा विषमाः श्लक्ष्णाः पृथवो विरला इति च दोषाः ॥ ३ ॥