कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 115, कुल 353 में से
संदर्भ में पढ़ें१०८ सटीक कामसूत्रे [ २ अधिकरणे,
राज़्युद्गता इति । मध्ये स्फुटिता लेखा उद्गता येषामित्याहिताग्न्यादिषु द्रष्टव्यं, गुणविपर्यये दोषाः सिद्धा अपि प्रधानदोषख्यापनार्थं पुनरुक्ताः, तेन रागाग्राहित्वं न दोषः, यतः शुद्धा एव दशनाः प्रायशो वर्ण्यन्ते, अत्रापि राज्युद्गतपरुषविषमाणांमाननकान्तिपरिपन्थित्वं, कुण्ठादीनां तु शेषाणां कार्यकारणेऽसामर्थ्यं दोषश्च ॥ ३ ॥
गूढकमुच्छूनकं बिन्दुबिन्दुमाला प्रवालमणिर्मणिमाला खण्डाभ्रकं वराहचर्वितकमिति दशनच्छेदनविकल्पाः ॥ ४ ॥
छेदनविकल्पा इति । रूपत उक्ताः ॥ ४ ॥
तेषां लक्षणं प्रयोगस्थानं चाह—
नातिलोहितेन रागमात्रेण विभावनीयं गूढकम् ॥ ५ ॥
रागमात्रेणेति । राग एव रागमात्रं क्षताभावाद्, अतिलोहितेनेति । तस्याधिक्यमाह, तेन विभावनीयं विज्ञेयं, एवं च गूढमिव गूढकम्, अस्फुटितत्वात्, तदेकेनैव राजदन्ताग्रेणावघृष्य निष्पाद्यम् ॥ ५ ॥
तदेव पीडनादुच्छूनकम् ॥ ६ ॥
तद् गूढकं यदाऽऽपीड्य निष्पाद्यते तदा जातश्वयथुत्वादुच्छूनकम्॥ ६ ॥
तदुभयं विन्दुरधरमध्य इति ॥ ७ ॥
तदुभयं गूढकमुच्छूनकं च, बिन्दुरिति । अयमितिशब्दश्चार्थे, बिन्दुश्च वक्ष्यमाणलक्षणः, त्रितयमधरमध्ये, तेषां स्वल्पाभोगत्वात् ॥ ७ ॥
उच्छूनकस्य वैशेषिकं स्थानमाह—
उच्छूनकं प्रबालमणिश्च कपोले ॥ ८ ॥
उच्छूनकं, प्रबालमणिश्च वक्ष्यमाणलक्षणः, कपोले तस्य शक्यक्रियत्वात् ॥ ८ ॥
कस्मिन्कपोले इत्याह—
कर्णपूरचुम्बनं नखदशनच्छेद्यमिति सव्यकपोलमण्डनानि॥९॥
सव्यकपोलमण्डनानीति । यथा कर्णपूरश्चारुत्वाद्वामे कर्णे विन्यस्तो वामकपोलस्य मण्डनं तथा, यथोक्तं—
'दन्तच्छेदं चुम्बनं सताम्बूलं रागमण्डनम्' ॥ ९ ॥
दन्तौष्ठसंयोगाभ्यासनिष्पादना प्रबाळमणिसिद्धिः ॥ १० ॥
दन्तौष्ठसंयोगाभ्यासनिष्पादनेति । उत्तरदन्ताधरोष्ठाभ्यामुत्तरोष्ठाधरदन्ताभ्यां वा स्थानस्य संयोगो यद् गृहीत्वा पीडनं तस्याभ्यासः पुनः पुनः करणं स एव निष्पादनं यस्याः सिद्धेः, निष्पाद्यतेऽनेनेति कृ-