कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 121, कुल 353 में से
संदर्भ में पढ़ें११४ | सटीके कामसूत्रे | [ २ अधिकरणे,
स्थिरीकरणार्थं चेष्टितमुच्यते, तद् द्विविधं—रहसि प्रकाशे च सेवने, तत्र पूर्वमधिकृत्याह —
वार्यमाणश्च पुरुषो यत्कुर्यात्तदनु क्षतम् । अमृष्यमाणा द्विगुणं तदेव प्रतियोजयेत् ॥ ३७ ॥
वार्यमाण इति । आङ्गिकेन वाचिकेन वाऽभिनयेन निषिध्यमानः प्रकृतिसात्म्याद्, यदा त्वनिषिध्यमानस्तदा कृते प्रतिकृतं कुर्यादित्ययमेव पक्षः, न द्विगुणयोजनं कलहो वा, द्यूतकलहोऽपि द्यूतमधिकृत्योक्तम्, इह सात्म्यं विशेषः, अमृष्यमाणेति । अक्षममाणा, द्विगुणं प्रयुक्तादधिकरुच्छेद्यं यत्तदेव न विजातीयम्, प्रतियोजयेत्=प्रतीपं-योजयेत् ॥ ३७ ॥
कस्य किं द्विगुणमित्याह—
बिन्दोः प्रतिक्रिया माला मालायाश्चाभ्रखण्डकम् । इति क्रोधादिवाविष्टा कलहान्प्रतियोजयेत् ॥ ३८ ॥
बिन्दोरिति । मालेति बिन्दुमाला, तस्या अप्यभ्रखण्डकं प्रतीकारः, इत्येवं द्विगुणं प्रतीकारं बुद्ध्वा योजयेत्कलहं प्रति, तथाऽभ्रखण्डस्य वराहचर्वितकं, गूढस्योच्छूनकं, तस्य प्रवालमणिः, तस्यापि मणिमाला, तस्या अपि बिन्दुरिति, तत्र पूर्वाणि चत्वारि त्वचि स्थितानि, शेषाणि त्वचमतिक्रम्य; क्रोधादिवाविष्टेति । कृतककोपेन दर्शितावस्थाऽन्तरा, कलहान्तरं कृतककलहदर्शनार्थम् ॥ ३८ ॥
सकचग्रहमुन्नम्य मुखं तस्य ततः पिबेत् । निलीयेत दशेच्चैव तत्र तत्र मदेरिता ॥ ३९ ॥
मुखं पिबेदधरपानाख्येन चुम्बनेन, तत्र चायं विदग्धक्रमः, सकचग्रहमुन्नम्येति । पाणिनाैकेन कचेषु द्वितीयेन चिबुके परिगृह्योत्तानीकृत्येत्यर्थः, निलीयेत दृढं संश्लिष्येद्, दशेच्च तत्र तत्र च्छेद्यस्थाने यत्र यत्र वा तेन दष्टा, मदेरिता=पानमदप्रेरिता, तदेव चेष्टितं सुखयति ॥ ३९ ॥
विधानान्तरमाह—
उन्नम्य कण्ठे कान्तस्य संश्रिता वक्षसः स्थलीम् । मणिमालां प्रयुञ्जीत यच्चान्यदपि लक्षितम् ॥ ४० ॥
उन्नम्येति । संश्रिता वक्षसः स्थलीमेकेन बाहुपाशेनावेष्ट्य कण्ठमुन्नम्य द्वितीयेन हस्तेन चिबुकं गृहीत्वा; मणिमालां प्रयुञ्जीत, गले स्व-