कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 122, कुल 353 में से
संदर्भ में पढ़ें५ अध्याये ] देश्योपचारप्रकरणम् । ११५
स्थाने कण्ठिकामिव, यच्चान्यदपि लक्षितं दशनच्छेद्यं मनोहारि, अत्रा- पि वैचित्र्यापेक्षेति सूचयति ॥ ४० ॥
प्रकाशे चेष्टितमाह—
दिवाऽपि जनसंबाधे नायकेन प्रदर्शितम् ।
उद्दिश्य स्वकृतं चिह्नं हसेदन्यैरलक्षिता ॥ ४१ ॥
दिवाऽपीति । रात्रौ नायिकया यत्कृतं सिद्धं तद्दिवाऽपि नायकेन क- थमस्मिञ्जनसमूहे प्रच्छाद्यमिति भावमाकारं ग्राहयेत्प्रदर्शयेद्, उद्दिश्य स्वयं कृतं चिह्नमिति दुष्टस्यायमेव निग्रहो युक्त इति भावं ग्राहयन्ती हसेद्, अन्यैरलक्षितेति । नायकेनाप्यलक्षितेति योज्यम्, अन्यथा द्वा- वप्यनागरकौ जनसम्बाधे स्यातामिति ॥ ४१ ॥
साऽपि तत्कृतानि चिह्नानि प्रदर्शयेदित्याह—
विकूणन्तीव मुखं कुत्सयन्तीव नायकम् ।
स्वगात्रस्थानि चिह्नानि सास्रूयेव प्रदर्शयेत् ॥ ४२ ॥
विकूणन्तीव । व्यर्थचुम्बनार्थं सङ्कोचयन्तीव सङ्कोचस्येष्टत्वात्, कुत्सयन्तीव भ्रूनयनविकारैर्धिग्धिग्दुर्विदग्धमिति, 'तर्जयन्ती' इति पाठान्तरं, फलमस्य प्राप्स्यसीति तर्जनं, सासूयेवाक्षममाणेव ॥ ४२ ॥
परस्परा नुकूल्येन तदेवं लज्जमानयोः ।
संवत्सरशतेनापि प्रीतिर्न परिहीयते ॥ ४३ ॥
इति श्रीवात्स्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीयेऽधिकरणे
दशनच्छेद्यविधयो देश्याश्चोपचाराः पञ्चमोऽध्यायः ।
आदितो दशमः ।
तदिति । तस्मात् संवत्सरशतेन पुरुषायुः प्रमाणेनेत्यर्थः, प्रीतिर्न परिहीयते स्थिरीभवतीत्यर्थः, भोजनमपि ह्येकरसमुपसेव्यमानं विरा- गं जनयति ॥ ४३ ॥
देश्या उपचारा द्वादशं प्रकरणम् ।
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे दशनच्छेद्यविधयो देश्या उपचाराश्च पञ्चमोऽध्यायः ।