कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 123, कुल 353 में से
संदर्भ में पढ़ें| ११६ | सटीके कामसूत्रे | [ २ अधिकरणे, |
|---|
षष्ठोऽध्यायः ।
एवं देशप्रकृतिसात्म्यापेक्षयाऽऽलिङ्गनाद्युपचाराज्जातरागयोः संवेशनयोग्यत्वात्संवेशनप्रकाराः, तथा संवेशनविशेषत्वाच्चित्ररतानीति प्रकरणद्वयमत्राध्याये।
यदाह—
रागकाले विशालयन्त्येव जघनं मृगी संविशेदुच्चरते ॥ १ ॥
रागकाल इति । रागकालो यत्र स्तब्धलिङ्गता, साधनसद्भावयोः संयोगार्थं संवेशनं, तच्च तदानीमेव युज्यते, तेन प्रमाणतो रतमधिकृत्य; संवेशनप्रकाराः, तेनात्र विषमरतेषु प्रमाणान्तरासङ्क्रान्तिर्द्रष्टव्या, विशालयन्त्येवेति । ऊर्वोर्विश्लेषणात् प्रसारयन्ती तत्प्रसारणादस्य बर्धनं, केवलं जघनं विवृतमुखम्भवति, उच्चरत इति । वृषेण सम्प्रयुज्यमाना मृगी संविशेच्छयीत, तस्याः संवृतरन्ध्रत्वाद्, उपलक्षणं चैतद्, उच्चतररते चाश्वेन सम्प्रयोक्ष्यमाणा जघनं विशालयन्तीव संविशेद्, अत्रातिदेशं वक्ष्यति ॥ १ ॥
अवह्रासयन्तीव हस्तिनी नीचरते ॥ २ ॥
अवह्रासयन्तीवेति । ऊर्वोः संश्लेषणात्सङ्कोचयन्तीव, यथा संवृतमुखं भवति, हस्तिनी नीचरते वृषेण सम्प्रयोक्ष्यमाणा संविशेदित्येव, तस्या बहलरन्ध्रत्वाद्, शशेन तु नीचतररतेऽवह्रासयन्तीव, अत्राप्यतिदेशं वक्ष्यति ॥ २ ॥
न्याय्यो यत्र योगस्तत्र समपृष्ठम् ॥ ३ ॥
यत्र यस्मिन््रते न्यायादनपेतो योगः स्वभावसिद्धत्वात् समरतइत्यर्थः, तत्र समपृष्ठं संविशेदित्येव क्रियाविशेषणमेतत्, सङ्कोचनप्रसारणाभावात्समं जघनपृष्ठं यस्यां क्रियायामिति ॥ ३ ॥
आभ्यां बडवा व्याख्याता ॥ ४ ॥
साऽप्युच्चरतेऽश्वेन संप्रयोक्ष्यमाणा विशालयन्तीव, शशेनावह्रासयन्तीव, न्याय्यो यत्र वृषेण तत्र समपृष्ठं संविशेदिति, आभ्यां=मृगीहस्तिनीभ्यां, व्याख्याता, यथा चोक्तम्—
‘विवृतोरुकमुच्चं तु नीचं स्यात्संवृतोरुकम् ।
तथा स्थितोरुकं चापि समपृष्ठं समे रते’ ॥ ४ ॥
संवेशनस्य प्रतिग्रहफलत्वात्प्रतिग्रहमाह—
तत्र जघनेन नायकं प्रतिगृह्णीयात् ॥ ५ ॥
तत्रेति । संकोचनप्रसारणभेदात्समपृष्ठाच्च त्रिविधे संवेशने जघ-