कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 124, कुल 353 में से
संदर्भ में पढ़ें६ अध्याये ] संवेशनप्रकरणम् । ११७
नेन स्वेन नायकं प्रतिगृह्णीयात्, स्तब्धलिङ्गं प्रतीच्छेदित्यर्थः ॥ ५ ॥
अपद्रव्याणि च सविशेषं नीचरते ॥ ६ ॥
अपद्रव्याणि चेति । वृषेण शशेन वा प्रयुज्यमानानि कृत्रिमसा- धनानि वडवा हस्तिनी वा प्रतिगृह्णीयादित्येव, तत्रापि विशेषः-यदि समरतं साधनसदृशं कृत्रिमं तदा नावह्वासयन्ती विशालयन्ती वा, त- तोऽप्यधिकं चेद्विशालयन्तीव प्रतिगृह्णीयादित्यर्थः, नीचरत इति। उच्च- रतेऽपद्रव्यप्रयोगासम्भवात् ॥ ६ ॥
यया युक्त्या विवृतं संवृतं वा जघनं स्यात्तद्यथाक्रममाह-
उत्फुल्लकं विजृम्भितकमिन्द्राणिकं चेति त्रितयं मृग्याः प्रायेण॥७॥
उत्फुल्लकमिति । समरते लौकिकी युक्तिरुक्ता न शास्त्रीया, लोके हि ग्राम्यनागरभेदादुत्तानायाः संवेशनद्वयं प्रतीत पार्श्वे च संपुटकं,- तत्त्रितयमपि समपृष्ठं घटयतीति, यथा चोक्तम्-
'ग्राम्यमासीनकान्तोरुविन्यस्तप्रमदोरुकम् ।
नागरं च नरोरुस्थं स्त्रीपादाम्भोरुहद्वयम् ॥'
त्रितयमिति । त्र्यवयवं संवेशनम्, प्रायेणेत्येकान्तेन ॥ ७ ॥
शिरो विनिपात्योर्ध्वं जघनमूत्फुल्लकम् ॥ ८ ॥
शिर इति । शिरोभागमधस्ताच्छय्यायां विनिपात्योत्तानमूर्ध्वं ज- घनं कुर्यादितिभेदमेवंरूपं पश्चाद्भागेनेत्यर्थः, यद्यपि तत्स्वतो भवति तथाऽप्यतिविस्तारणार्थमुपर्युपरिस्थितपृष्ठे त्रिकभागं विनिवेशयेत्, पादपाणीं च स्फिचोर्बाह्यतः, एवं जघनस्योर्ध्वं विवृतत्वादुत्फुल्ल- मिवोत्फुल्लकम् ॥ ८ ॥
तत्रापसारं दद्यात् ॥ ९ ॥
तत्रेति । उत्फुल्लके, अपसारं दद्यादिति । नायकेन यन्त्रेण संयोज्य- माना कटिभागेनापसरेद्, नायको वा शनैः शनैः संयोज्यापसरेद्, या- वदार्द्रसंबाधता न भवति, सहसोपसृताया हि पीडा, नायकस्य च लि- ङ्गचर्मोद्वर्तनं, यदवपादिकेति वैद्यैरुच्यते ॥ ९ ॥
अनीचे सक्थिनी तिर्यगवसज्य प्रतीच्छेदिति विजृम्भितकम्॥१०॥
अनीचे इति । सक्थिनी=ऊरू, तिर्यगवसज्येति । तिरश्चीने कृत्वा, तत्रापि शय्यायां पादयोरुत्तानविन्यासादपि तिरश्चीने भवतः, किं तु नीचैरित्याह-अनीचेति । प्रतीच्छेन्नायकमित्यर्थः, जृम्भितमिवेति । जघनमिति, विवृतास्यत्वाज्जृम्भितमिव ॥ १० ॥