कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 125, कुल 353 में से
संदर्भ में पढ़ें१९८ सटीके कामसूत्रे [ २ अधिकरणे,
पार्श्वयोः सममूरू विन्यस्य पार्श्वयोर्जानुनी निदध्यादित्य- भ्यासयोगादिन्द्राणी ॥ ११ ॥
पार्श्वयोरिति । जङ्घासंश्लिष्टावूरू पार्श्वयोः सममनुकार्यं विन्य- स्य पार्श्वयोर्जानुनी निदध्यात्, कक्षावहिर्भागयोरित्यर्थः, एवं च बाहु- मूलाभ्यामवष्टभ्य गृहीतत्वात्पूर्वस्माद्विवृततरं भवति, अभ्यासयोगादि- ति । सहसा निष्पादयितुमशक्यत्वादस्याः, इन्द्राणीति । शचीप्रोक्तत्वा- त्तत्संज्ञया व्यपदेशः, तत्राप्यपसारं दद्यादिति योज्यम् ॥ ११ ॥
तयोच्चतररतस्यापि परिग्रहः ॥ १२ ॥
तयेति । इन्द्राण्या, उच्चतररतस्यापीति । न केवलमिन्द्राण्या मृगी वृषं प्रतीच्छेत् प्रतिगृह्णीयाद्, अश्वमपि, तस्या धृतरागत्वाद्विवृतराग- हेतुत्वात्, तत उच्चतररतेति । विशालयन्तीवेति सिद्धं भवति, तदुत्फुल्ल- कजृम्भितकाभ्यां तु मृगी वृषमेव, बडवाऽपि ताभ्यामेवाश्वमित्यर्थो- क्तम्, पूर्वमतिदिष्टत्वात् ॥ १२ ॥
संपुटेन प्रतिग्रहो नीचरते ॥ १३ ॥
संपुटेनेति । हस्तिनी संपुटेन वक्ष्यमाणलक्षणेन वृषं प्रतिगृह्णी- यादित्यर्थः ॥ १३ ॥
एतेन नीचतररतेऽपि संपुटकं पीडितकं वेष्टितकं वाडवक- मिति हस्तिन्याः ॥ १४ ॥
नीचतररतेऽपीति । शशमपि प्रतिगृह्णीयादित्यर्थः, तस्य संवृतहेतु- त्वात्, तेन च प्रतिगृहीते पीडितकादि प्रयोक्तव्यं, तेनाप्यवहासयन्ती- वेति सिद्धं, बडवाऽपि संपुटकेन शशं प्रतिगृह्णीयादित्यर्थोक्तम्, पूर्व- मतिदिष्टत्वात् ॥ १४ ॥
संपुटकयुक्तिमाह—
ऋजुप्रसारितावुभावप्युभयोश्चरणाविति संपुटः ॥ १५ ॥
ऋज्विति । प्रगुणं प्रसारितौ यथा यन्त्रयोगः स्याद् , उभयोरिति । स्त्रीपुंसयोः, संपुट इति । संपुट इवोभयोरेकत्र संश्लेषात् ॥ १५ ॥
स द्विविधः पार्श्वसंपुट उत्तानसंपुटश्च तथा कर्मयोगात् ॥ १६॥
तथा कर्मयोगादिति । तेन प्रकारेण रतानुष्ठानयोगादित्यर्थः, तत्र पार्श्वसंविष्टयोः पार्श्वसंपुटः, उत्तानसंविष्टाया उपर्यर्वाक् संविष्टस्यैकः, विपर्ययेण द्वितीय इति द्विविध उत्तानसंपुटकोऽन्यतरेण व्यपदिश्यते, कथमत्र यन्त्रयोग इति नाशङ्कनीयं सुकरत्वात्, पार्श्वसंपुटके तु ना-