भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 132, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 132

६ अध्याये ] चित्ररतप्रकरणम् । १२५

वेश्यां विटाः, युवानं च स्त्रियः पूर्ववदनुरञ्जयेयुरित्यर्थः, बह्वीभिश्च गौयूथिकमित्येतत्स्वदारेषु नायकव्यापारमधिकृत्योक्तम् ॥ ४५ ॥

अधोरतं पायावपि दाक्षिणात्यानाम् ॥ ४६ ॥
इति चित्ररतानि ।

अधोरतमिति । अपानस्य जघनाधःस्थितत्वात्, तच्च स्त्रीपुंसविषयभेदेन द्विविधं, तदपि विमार्गमहेनाच्चित्रम्, औपरिष्टिकं तु तृतीयाप्रकृतिविषयत्वान्न चित्रं, स्त्रीपुंसयोश्च चित्रमेव, विमार्गमहेनाद्, दाक्षिणात्यानामिति । देशप्रवृत्तिं दर्शयति ॥ ४६ ॥

पुरुषोपसृप्तानि पुरुषायिते वक्ष्यामः ॥ ४७ ॥

पुरुषोपसृप्तानि तु संवेशनानन्तरत्वादवसरप्राप्तान्यपि पुरुषायिते वक्ष्यामः ॥ ४७ ॥

तत्राप्युपयोगित्वाच्चित्ररतस्य वर्धनमाह—
भवतश्चात्र श्लोकौ—

पशूनां मृगजातीनां पतङ्गानां च विभ्रमैः ।
तैस्तैरुपायैश्चित्तज्ञो रतियोगान्विवर्धयेत् ॥ ४८ ॥

पशूनामिति । तत्राधोदशनाः पशवः, ऊर्ध्वाधोदशना मृगाः, पतङ्गाः= पक्षिणः, तैस्तैरिति । ये ये प्रत्यक्षत उपलब्धाः, विभ्रमैरिति । विचेष्टितैः स्वरकायगतैः, चित्तज्ञ इति । स्त्र्यभिप्रायं बुद्ध्वेत्यर्थः, रतियोगानिति । रत्यर्थान्योगाम्, विवर्धयेदपरानपरान्प्रयोजयेदित्यर्थः ॥ ४८ ॥

तद्विवर्धने किं फलमित्याह—

तत्सात्म्याद्देशसात्म्याच्च तैस्तैर्भावैः प्रयोजितैः ।
स्त्रीणां स्नेहश्च रागश्च बहुमानश्च जायते ॥ ४९ ॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे संवेशनप्रकाराश्चित्ररतानि च षष्ठोऽध्यायः ।
आदित एकादशः ।

तत्सात्म्यादिति । नायिकायाः प्रकृतिसात्म्याद्, देशसात्म्यं प्रागुक्तं, तैस्तैरिति । पश्वादिविभ्रमैः, भावैरिति । भावहेतुत्वात्प्रयोजितैः, नायिकया प्रयोजितया तदभिप्रायेण हि नायकेन प्रयुज्यमानत्वाद्, भावैर्वा प्रयोजकैरिति योज्यं, स्नेहः=सक्तिः, रागस्तृप्तिः, बहुमानो गौरवं विदग्ध इति ॥ ४९ ॥

चित्ररतानि चतुर्दशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे संवेशनप्रकाराश्चित्ररतानि च षष्ठोऽध्यायः ।