भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 131, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 131

१२४ सटीक कामसूत्रे [ २ अधिकरणे,

बहुभिश्च गौयूथिकं, वृषगोयूथस्येवैकस्यां गवि स्त्रियां नायकयूथस्य प्रवर्तनात्, तथा वारीक्रीडितकमित्यादि तत्कर्मानुकृतियोगात्-देव गौयूथिकादिरतम् ॥ ४२ ॥
देशप्रवृत्तिं दर्शयन्नाह—

ग्रामनारीविषये स्त्रीराज्ये च बाह्लीके बहवो युवानोऽन्तःपुर-सधर्माण एकैकस्याः परिग्रहभूताः , तेषामेकैकशो युगपच्च यथा-सात्म्यं यथायोगं च रञ्जयेयुः ॥ ४३ ॥

ग्रामनारीविषय इति । स्त्रीराज्यसमीप एव परतो ग्रामनारीविषयः, युवानो व्यवायक्षमाः, अन्तःपुरसधर्माणो रक्षणयोगादस्वतन्त्राः, एकस्या योषितः परिग्रहं गताः, खरवेगत्वात्नैकेन तृप्तिरिति, ते तां कथं-रञ्जयेयुरित्याह—एकैकशो युगपच्चेति । एकैकेन कर्मणा यौगपद्येन चेत्यर्थः, यथासात्म्यं यथायोगं चेति । येन यस्या उपचारेण सात्म्यं यत्र यस्य च युज्यते प्रयोगस्तेन तामनुरञ्जयेयुः, तस्यास्तृप्तिं जनयेयुरित्यर्थः ॥ ४३ ॥
तदेवैकैकं कर्म यौगपद्यं च दर्शयन्नाह—

एको धारयेदेनामन्यो निषेवेतान्यो जघनं मुखमन्यो मध्य-मन्य इति वारं वारेण व्यतिकरेण चानुतिष्ठेयुः ॥ ४४ ॥

एको धारयेदिति । यस्याङ्कमपाश्रित्य संविष्टा, मुखमन्यो निषेवेत चुम्बनदशननखक्षतैः, जघनमन्थ उपसृप्तकैः, मध्यं मुखजघनयोश्चुम्ब-ननखदशनच्छेदग्रहणनैरन्य इत्येकैकेन कर्मणा, युगपच्चेति । तत्रापि पुन-र्विधानान्तरमाह—वारं वारेणानुतिष्ठेयुरिति । वारं नियोगं वारेण परि-पाट्या, तत्र यो जघनं निषेवितवान्, स निवृत्तरागत्वाद्द्वारेण वा-रमनुतिष्ठेद् , वारेण वारिको मुखवारं तद्वारिको मध्यवारं तद्वारिकश्च जघनवारमिति, व्यतिकरेण चेति । द्वितीयकर्मसंयोजनेन च, तद्यथा—जघनसेवको जघनं मध्यं च निषेवेत, मध्यसेवको मध्यं मुखं च, तत्से-वकश्च मुखं मध्यं च, वारिको धारयेन्मुखं च निषेवेतेति, अनेन विधि-ना तावदनुतिष्ठेयुर्यावत्सर्व एव जघनवारमनुप्राप्ताः ॥ ४४ ॥

एतया गोष्ठीपरिग्रहा वेश्या राजयोषापरिग्रहाश्च व्याख्याताः ॥४५॥

एतयेति । यथोक्तया स्त्रिया, अन्यत्रापि देशे सम्भवत्येतदतिदेशेन दर्शयति—गोष्ठीपरिग्रहा इति । विटैः सम्भूय परिगृह्यते या वेश्या, गोष्ठी येषां परिग्रह इति योषिच्छब्दसमानार्थो योषाशब्दः, संह-त्यान्तःपुरिकाभिर्योषिन्द्रियैं परिगृह्यन्ते परपुरुषाः, वक्ष्यति च—

‘संहत्य नव दशेत्येकैकं युवानं प्रच्छादयन्ति प्राच्यानाम्’ इति,