भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 156, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 156

९ अध्याये ] औपरिष्टकप्रकरणम् १४९

यां, तस्य चेति । पुरुषकर्तृकस्य, व्यासः प्रकारः, मुखचुम्बनवदिति । कन्याचुम्बने निमितादिना, अन्यत्र समादिग्रहणेन यो विधिः सोऽस्यापि यथासम्भवं विज्ञेयः ॥ ३३ ॥ ... तत्र परिचारके कर्तर्यसाधारणं नायके तु साधारणमपि संभवति, यच्च युगपत्परिपाट्या वा, तत्र युगपत्कथमित्याह—

परिवर्त्तितदेहौ तु स्त्रीपुंसौ यत्परस्परम् ।
युगपत्सम्प्रयुज्येते स कामः काकिलः स्मृतः ॥ ३४ ॥

परिवर्तितदेहाविति । पार्श्वसम्पुटे पुमान् स्त्रिया ऊर्वोः शिरो निधत्ते स्त्री च पुंस इति युगत्संप्रयुज्येते, एकस्मिन्काले मुखेन परस्परोपस्थेन्द्रिय-ग्रहणात्, काकिलः स्मृत इति । स्त्री पुमांश्च काक इव काकः, मुखेना-मेध्यग्रहणात्, तौ विद्येते यस्मिन्, काम इति । पिच्छादिषु द्रष्टव्यं, ककनं वा काको लौल्यं, 'कक लौल्ये' इति धातुपाठात्, तद्विद्यते ययोः स्त्रीपुंसयोरीतिनिप्रत्ययः, तौ लात्यादत्त इति ॥ ३४ ॥

एतेन नरयोर्योषितोश्च परिवर्तितदेहयोर्व्याख्यातः, तत्र साधारणा-साधारणयोरसाधारणं श्रेयः, ततोऽपि परिचारकविषयं वेश्याविषयं हि खलसंसर्गादपरिशुद्धमिति दर्शयन्नाह—

तस्माद् गुणवतस्त्यक्त्वा चतुरांस्त्यागिनो वरान् ।
वेश्याः खलेषु रज्यन्ते दासहस्तिपकादिषु ॥ ३५ ॥

तस्मादिति । गुणवतः = नायकगुणयुक्तान्, चतुरान् = लोकयात्राकु-शलान्, त्यागिनः = दानशूरान्, वरान् = अभिजनाद्युपेतान्, खलेषु = नी-चेषु, तानेव दर्शयति—दासहस्तिपकादिष्विति । रज्यन्त इति । स्वभावा-ख्यानम्, अशिष्टधर्माचरणाद्वा, तेषु च रक्ता अपरचरितमपि प्रकाश-यन्ति ॥ ३५ ॥

न त्वेतद्ब्राह्मणो विद्वान्मन्त्री वा राजधूर्धरः ।
गृहीतप्रत्ययो वाऽपि कारयेदौपरिष्टकम् ॥ ३६ ॥

न त्वेतदिति । नैवं वेश्याभिः कारयेद्, ब्राह्मणो विद्वान्, श्रुतिस्मृत्य-र्थतत्त्वज्ञः, मन्त्री राजधूर्धरः प्राधान्येन यो राज्यं संवाहयति, समा-सान्तोऽत्रानित्यत्वान्न भवति, अन्यो वा कश्चिद् गृहीतप्रत्ययो-लोके विश्वास्यः, तासु क्रियमाणं लोके लब्धसमाख्यानं गौरवं व्या-वर्तयति, अतो मा भूद्वदनसंस्पर्शदोषः, असभ्यत्वदोषस्तु दुर्निवारो-नेतरेषामविवक्षितत्वात् ॥ ३६ ॥

ननु च व्यासस्तन्मुखचुम्बनवद्विधिरिति शास्त्रेऽभिहितत्वात्साधा-