कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 157, कुल 353 में से
संदर्भ में पढ़ें१५० सटीक कामसूत्रे [ २ अधिकरणे,
रणस्यापि प्रयोगप्रसङ्ग इत्याह—
न शास्त्रमस्तीत्येतावत्प्रयोगे कारणं भवेत् । शास्त्रार्थान्व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ॥ ३७ ॥
न शास्त्रमिति । अभिधायकं शास्त्रमस्तीति नैतावत्प्रयोगे कारणं,· शास्त्रार्थान्व्यापिन इति । आलिङ्गनादेरर्थस्य रत्यौपयिकत्वात्, सर्वा- नेव कामिनोऽधिकृत्य प्रवृत्तत्वात्, प्रयोगानेकदेशिकान्, कस्य चिदे- वार्थस्य शिष्टैः प्रवर्तनात् ॥ ३७ ॥
अयं च न्यायोऽन्यत्रापीत्याह—
रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके । कीर्तिता इति तत्किं स्याद्भक्षणीयं विचक्षणैः ॥ ३८ ॥
रसवीर्यविपाका इति । रसो मधुरादिः, वीर्यं सामर्थ्यम्, पाक उ- पयुक्तस्य परिणामो मधुरादिः, श्वमांसस्यापि कीर्तिता इति व्यापित्वं- रसादीनां, किम् भक्षणीयं विचक्षणैरित्येकदेशित्वम् ॥ ३८ ॥
यद्येवं शिष्टपरिहृतत्वादयहोपदेशानर्थक्यमित्याह—
सन्त्येव पुरुषाः के चित्सन्ति देशास्तथाविधाः । सन्ति कालाश्च तेष्वेते योगा न स्युर्निरर्थकाः ॥ ३९ ॥
सन्त्येवेति । सन्ति तादृशाः पुरुषा ये शुच्यशुचिषु निर्विकल्पाः, देशा- स्तथाविधा लाटसिन्धुविषयादयः, काला औपरिष्टकसात्म्याः, स्त्रयायत्ता यदायत्तजीवितादयः, योगा इति । मुखचुम्बनवद्विधयः ॥ ३९ ॥
तस्माद्देशं च कालं च प्रयोगं शास्त्रमेव च । आत्मानं चापि संप्रेक्ष्य योगान्युञ्जीत वा न वा ॥ ४० ॥
तस्मादिति । यतश्चैवं तस्मात्साधारणस्य वा यथास्वं देशकालौ संवीक्ष्य, प्रयोगमुपायं च प्रयुज्यतेऽनेनेति, शास्त्रमभिधायकम्, आत्मानं- च, कतरन्मे युक्तमिति, न वा प्रयुञ्जीतोभयमपि विद्वान् स्वमात्मानं- संवीक्ष्य ॥ ४० ॥
अथ वा नायं पुरुषादिनियम इत्याह—
अर्थस्यास्य रहस्यत्वाच्चलत्वान्मनसस्तथा । कः कदा किं कुतः कुर्यादिति को ज्ञातुमर्हति ॥ ४१ ॥
इति श्रीवात्स्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीयेऽधिकरण- औपरिष्टकं नवमोऽध्यायः । आदितश्चतुर्दशः ।