कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 158, कुल 353 में से
संदर्भ में पढ़ें९ अध्याये ] रतारम्भावसानिकप्रकरणम् । १६१
अर्थस्येति । औपरिष्टकस्य रहसि भवत्वात् चित्तस्यास्थिरत्वात्, विशेषतो रागसंयुक्तस्य, कः कुर्याद् विद्वानितरो वेति, कदा किंमत्तावस्थायामितरस्यां वेति, किं कुर्यात् साधारणमसाधारणं लौकिकं वा सम्प्रयोगमिति, कुतो हेतोः किं रागाद्देशप्रवृत्तेर्वेति, को ज्ञातुमर्हति नैवेत्यर्थः ॥ ४ ॥ औपरिष्टकमेकोनविंशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां साम्प्रयोगिके द्वितीयेऽधिकरण औपरिष्टकं नवमोऽध्यायः ।
दशमोऽध्यायः ।
एवमौपरिष्टकान्तं रतमुक्तं, तस्यारम्भेऽवसाने च किं प्रतिपत्तव्यमिति तदुद्भवं रतारम्भावसानिकमुच्यते, तत्र यद्यपि प्रीतिविशेषानन्तरं रतारम्भिकं युक्तं रतावसानिकं चेहैव तथाभूतत्वादनुष्ठानक्रमस्येति, तथाऽपि प्रतीतिसम्भवत्वादालिङ्गनादीनां तदभिधानं तदनन्तरं च प्रतीकन्यायेन सर्वशेषतया रतारम्भः, तत्प्रतिबद्धत्वाच्चावसानिकम् ।
तत्र पूर्वमधिकृत्याह—
नागरकः सह मित्रजनेन परिचारकैश्च कृतपुष्पोपहारः सञ्चारितसुरभिधूपे रत्यावासे प्रसाधिते वासगृहे कृतस्नानप्रसाधनां युक्त्या पीतां स्त्रियं सान्त्वनैः पुनः पानेन चोपक्रमेत ॥ १ ॥
दक्षिणतश्चास्या उपवेशनम् ॥ २ ॥
केशहस्ते वस्त्रान्ते नीव्यामित्यवलम्बनम् ॥ ३ ॥
रत्यर्थं सव्येन बाहुनाऽनुद्धतः परिष्वङ्गः ॥ ४ ॥
पूर्वप्रकरणसंबद्धैः परिहासाऽनुरागैर्वचोभिरनुवृत्तिः ॥ ५ ॥
गूढाश्लीलानां च वस्तूनां समस्यया परिभाषणम् ॥ ६ ॥
सनृत्तमन्नृत्तं वा गीतं वादित्रम् ॥ ७ ॥
कलासु संकथाः ॥ ८ ॥
पुनः पानेनोपच्छन्दनम् ॥ ९ ॥
जातानुरागायां कुसुमानुलेपनताम्बूलदानेन च शेषजनविसृष्टिः ॥ १० ॥