कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 160, कुल 353 में से
संदर्भ में पढ़ें१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १५३
ग्रहणमच्छीकृतं चन्दनमन्यद्वाऽनुलंपने तस्या गात्रे स्वयमेव निवेशयेत् ॥ १४ ॥
सव्येन बाहुना चैनां परिरभ्य चषकहस्तः सान्त्वयन्पाययेत् ॥१५॥
जलानुपानं वा खण्डखाद्यकमन्यद्वा प्रकृतिसात्म्ययुक्तमुभावप्युपयुञ्जीयाताम् ॥ १६ ॥
अच्छरसरसयूषमम्लयवागूं भृष्टमांसोपदेशानि पानकानि चूतफलानि शुष्कमांसं मातुलुङ्गचक्रकाणि सशर्कराणि च यथादेशसात्म्यं च ॥ १७ ॥
तत्र मधुरमिदं मृदु विशदमिति च विदश्य विदश्य तत्तदुपाहरेत् १८
हर्म्यतलस्थितयोर्वा चन्द्रिकासेवनार्थमासनम् ॥ १९ ॥
तत्रानुकूलाभिः कथाभिरनुवर्तेत ॥ २० ॥
तदङ्कसंलीनायाश्चन्द्रमसं पश्यन्त्या नक्षत्रपङ्क्तिव्यक्तीकरणम् ॥२१॥
अरुन्धतीध्रुवसप्तर्षिमालादर्शनं चेति रतावसानिकम् ॥ २२ ॥
रतावसानिकमिति । वक्ष्यत इति शेषः, रागमतिवाह्य=रतिमनुभूय, असंस्तुतयोरिवेति । अपरिचितयोर्य्रथा व्रीडा तद्वत्सव्रीडयोरविनयाचरणाद्, एवं परस्परमपश्यतोः, तदवस्थदर्शनाद्वैराग्यमपि स्यादतः पृथक्पृथगाचारभूमिगमनं, नैकत्र शौचभूमौ शौचं कार्यमित्यर्थः, प्रतिनिवृत्त्याचारभूमेर्व्रीडायमानयोः, एकान्तेनापरित्यक्तलज्जत्वाद्, उचितदेशस्तदानीं शयनीयमपास्थान्यदेशः, ताम्बूलस्य ग्रहणं भक्षणं, तदानीं मुखस्याश्रीकत्वाद्वैरस्याच्च, तत्र क्षीणप्रधानधातुत्वाच्छरीरस्य बृंहणं बाह्यमाभ्यन्तरं च, तत्र बाह्यं ग्रीष्मकाले, अच्छीकृतं चन्दनमन्यद्वाऽनुलेपनं कालेपयिकं, स्वयमित्यनुरागख्यापनार्थं, निवेशयेत् पश्चादात्मन इत्यर्थः, आभ्यन्तरं पानादि, तत्रापि परिरभ्यालिङ्ग्य, चषको मद्यभाजनं, सान्त्वयन्प्रियाणि ब्रुवन् पाययेद्, जलानुपानं वा खण्डखाद्यकं बृंहणीयत्वाद्, अन्यद्वा तिलगर्भोत्करादिप्रकृतिसात्म्ययुक्तमुभावप्युपयुञ्जीयाताम्, अच्छरसरसयूषमिति, यूषं द्विविधं-मांसनिर्यूहं-व्रीहिनिर्यूहं च, बृंहणीयत्वान्मांसनिर्यूहं रसयूषमच्छमुपयुञ्जीयाताम्, अम्लयवागूं मांससिद्धाम्, बृंहणीयत्वात्, भृष्टं भर्जितं मांसं तदेवोप- दंशो येषां पानकानां, चूतफलानि पक्वानि, 'शुष्कमांसं बलवृंहणत्वाद्, मातुलुङ्गचक्रकाणीति । बीजपूरमीषदपनीतत्वकं खण्डशः कृत्तं श-
२० का० सू०