कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 161, कुल 353 में से
संदर्भ में पढ़ें| १५४ | सटीके कामसूत्रे | [ २ अधिकरणे, |
|---|
कंशायुक्तं, हृद्यत्वाद्, यथादेशसात्म्यमिति । यस्मिन्देशे येन सात्म्यं तत्रेति । भक्ष्यद्युपयोगेऽनुरागख्यापनार्थो विधिः, विदश्य विदश्येति । उपलक्षणं चैतत्, इदं मृष्टमिदं वृष्यमित्यास्वाद्यास्वाद्य पानमपि तत्तदुपाहरेदु, हर्म्यतलस्थितयोर्वेति । यदि वासगृहस्थितयोरासने तापश्चन्द्रिका चोदिता, तदा तदुपरि सौधस्थितयोरूर्ध्वमासनं, तत्सेवनं च तापापनयनार्थं, यदि च तापेन न तत्र ताम्बूलग्रहणाद्यनुष्ठितं तदानीमिहानुष्ठेयं, तत्रेति । हर्म्यतले, भुक्तविरसत्वात्कामस्य बृंहणानन्तरं कामजननार्थं तदनुकूलाभिः कथामिरनुवर्तेत, तदङ्कसंलीनायाश्चेति । आसीनस्य नायकस्याङ्के न्यस्तदेहाया नियतं गगनतले दृष्टिः, तत्र चन्द्रमसं नयनानन्दजननम् पश्यन्त्याः प्रसङ्गान्नक्षत्रपङ्क्तिव्यक्तीकरणं, प्रायशः स्त्रीणां नक्षत्रपङ्क्तिष्वपरिचयात्, इयमरुन्धती भगवती सूक्ष्मा य एनां न पश्यति स षण्मासान्म्प्रियते, अयं ध्रुवः पञ्चदशतारकः, यद्दर्शनाद्दिवसगतं पापमपैति, एते च सप्तर्षयः पङ्क्त्या स्थिता इति सन्ददर्शयेत् ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥
द्वयमप्यधिकृत्याह—
तत्रैतद्भवति--
अवसानेऽपि च प्रीतिरूपचारैरुपस्कृता ।
सविस्रम्भकथायोगै रतिं जनयते पराम् ॥ २३ ॥
परस्परप्रीतिकरैरात्मभावानुवर्तनैः ।
क्षणात्क्रोधपरावृत्तैः क्षणात्प्रीतिविलोकितैः ॥ २४ ॥
हल्लीसकक्रीडनकैर्गायनैर्नाट्यरासकैः ।
रागलोलार्द्रनयनैश्चन्द्रमण्डलवीक्षणैः ॥ २५ ॥
आद्ये संदर्शने जाते पूर्वं ये स्युर्मनोरथाः ।
पुनर्वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः ॥ २६ ॥
कीर्तनान्ते च रागेण परिष्वङ्गैः सचुम्बनैः ।
तैस्तैश्च भावैः संयुक्तो यूनो रागो विवर्धते ॥ २७ ॥
तत्रेति । आरम्भेऽवसाने चोभयत्राप्येतद्वक्ष्यमाणकं भवति, अवसानेऽपीति । अपिशब्दादारम्भेऽपीति, प्रीतिः, स्त्रियाः पुंसश्च स्नेहः, उपचारैः स्रग्गन्धादिभिः पानादिभिश्च, उपस्कृतेत्यभिवर्धिता, सविस्रम्भकथायोगैरिति । सविश्वासाभिः कथाभिः सविशवासैश्च योगैः, रतिं वि-