कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 162, कुल 353 में से
संदर्भ में पढ़ें१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १५५
सृष्टिलक्षणां परामुत्कृष्टां जनयते, कारणस्य तथाविधत्वात्, तत्र विस्रम्भ- योगमधिकृत्याह—परस्परप्रीतिकरिति। स्त्रीपुंसयोस्तदन्ते सुखकरैः, कैरित्याह-आत्मभावानुवर्तनैरिति। आत्माभिप्रayeण यान्यनुवर्तनान्या- लिङ्गनादीनि, अनुवर्त्यन्ते एभिरिति कृत्वा, क्षणात्क्रोधपरावृत्तैः क्षणात्प्री- तिविलोकनैरिति। अन्तरा प्रणयकलहात्क्षणक्रोधेन यानि परावर्तनानि पुनः प्रसादात्क्षणं प्रीत्या यानि विलोकनानि तैः, स्नेहो विवर्धत इति प्र- तिपदं योज्यं, हल्लीसकक्रीडनकैरिति। हल्लीसकक्रीडनं येषु गीतेषु, य- थोक्तम्।
'मण्डलेन च यत्स्त्रीणां नृत्तं हल्लीसकं तु तत् ।
नेता तत्र भवेदेको गोपस्त्रीणां यथा हरिः ॥'
नाट्यरासकैरन्योन्यदेशीयैः, तेषां श्राव्यत्वाद्रीतविशेषणमेतद्, राग- लोलार्द्रनयनैरिति। रागेण चञ्चलानि सबाष्पाणि च नयनानि येषु गी- तकेषु, अनेन रक्तकण्ठत्वं दर्शयति, चन्द्रमण्डलवीक्षणैरिति। मनोहरित्व- स्तूपलक्षणम्, एतेऽनुवर्तनादयो विस्रम्भयोगाः, विश्वासेन प्रयुज्यमान- त्वाद्, विस्रम्भकथामधिकृत्याह—आद्य इति। प्रथमे मनोरथाः कदाऽ- नेन वा सङ्गमोऽस्त्वित्यादयः, पुनर्वियोगे सन्तप्तयोर्दुःखमस्वास्थ्यं की- र्तनान्ते चेति। पुनर्विस्रम्भयोगस्यावर्तनमिति दर्शयति, तैस्तैरिति। अ- न्यैरपि विस्रम्भयोगैर्भावसंयुक्तैः, यून इत्येकशेषनिर्देशाद्, यूनो युवत्याश्च ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥
रतारम्भावसानिकमेकोनविंशं प्रकरणम् ॥
आरम्भावसानयो रतावयवत्वात्तद्ग्रहणे यथा रतं त्र्यवस्थं तथा व्यवस्था स्वाभाविकादिरागभेदादपि विशिष्यत इत्यतो रतविशेषा उ- च्यन्ते—
रागवदाहार्यरागं कृत्रिमरागं व्यवहितरागं पोटारतं खलरत- मयन्त्रितरतमिति रतविशेषाः ॥ २८ ॥
रागवदित्यादिना स्वभाविक आहार्यः कृत्रिमो दर्पजो विस्रम्भज- श्चेति रागविशेषाः, तद्भेदाद्रागवदाद्यंाऽपि रतविशेषाः ॥ २८ ॥
एषां लक्षणमुपचारं चाह—
संदर्शनात्प्रभृत्युभयोरपि प्रबुद्धरागयोः प्रयत्नकृते समागमे प्रवासप्रत्यागमने वा कलहवियोगयोगे तद्रागवत् ॥ २९ ॥
सन्दर्शनादिति। प्रथमदर्शनात्प्रभृति चक्षुःप्रीत्याद्यवस्थावशात्प्र- बुद्धरागयोर्दू तसम्प्रेषणादिप्रयत्नात्कृते समागमे यद्रतं, यच्च प्रवा-