भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 171, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 171

१६४ सटीके कामसूत्रे [ ३ अधिकरणे,

र्थः, श्रावयेयुः, तस्याः पितरावित्यर्थात्,

कौलान्कुले भवान्, शीलशौण्डीर्यादीन् नायकगुणान्, पौरुषेयान् पुरुषकारनिष्पन्नाञ् शास्त्रकलाग्रहणादीन्, अभिप्रायसंवर्धकांश्चेति । पित्रोः कन्यादानाभिप्रायं संवर्धयन्ति ये, विशेषतः कन्यामातुर्येऽनुक्कूला भवन्ति ते बाह्यवयस्तवादयः, तदात्वायतियुक्तानिति । वर्तमानेनानागतेन च कालेन फलदानात्संयुतान्, 'तत्कालस्तु तदात्वं स्यादायतिः काल उत्तरः' इत्यमरः, दर्शयेयुः, मित्राणीत्येव ॥ ५-६ ॥

दैवमधिकृत्याह—

दैवचिन्तकरूपश्च शकुननिमित्तग्रहलग्नबललक्षणदर्शनेन नायकस्य भविष्यन्तमर्थसंयोगं कल्याणमनुवर्णयेत् ॥ ७ ॥

दैवचिन्तरूपश्चेति। सांवत्सरव्यञ्जनो नायकप्रहितः, शान्तायां दिशि रटतः काकादेः शकुनस्य निमित्तस्य तज्जात्यादेः, शुभग्रहाणां लग्नादुपचयस्थानेषु स्थितानां यद् बलं दिक्कालस्थानस्वभावैस्तस्य दर्शनेन, लक्षणस्य शङ्खचक्रादेर्दर्शनेन भविष्यन्तमनागतमर्थसंयोगं सेनापत्याध्यक्ष्यपत्तनादिलाभं, कल्याणमिति । कल्याणहेतुत्वाद्, अर्थानुबन्धमित्यर्थः ॥ ७ ॥

अपरे पुनरस्यान्यतो विशिष्टेन कन्यालाभेन कन्यामातरमुन्मादयेयुः ॥ ८ ॥

अपर इति। दैवचिन्तरूपाः, अस्य नायकस्य, अन्यत इति। यतो व्रियते कन्या ततोऽन्यस्माद्, विशिष्टेनेति । अमुष्य सेनापतेर्थंरूपवती दुहिताऽस्मै दातुमिष्यते; येन वयं ह्यस्तने नक्षत्रसंयोगं पृष्टा इत्यनेन कन्यामातरमुन्मादयेयुरनुरञ्जयेयुः, येनानुरक्ता दुहितरं दद्यात् ॥ ८ ॥

दैवनििमत्तशकुनोपश्रुतीनामानुलोम्येन कन्यां वरयेद्दद्याच्च ॥९॥

दैवनििमत्तशकुनोपश्रुतीनामिति । पूर्वजन्मकृतं शुभमशुभं वा कर्म दैवं, तस्याभिव्यञ्जकत्वान्नक्षत्रग्रहा अपि दैवमुच्यते, अस्यानुकूल्येन षट्काष्टकादियोगाभावात् , किमियमूढा कल्याणकरी नेति ? शास्त्रोक्तं निमित्तं; शुकुनपृच्छा च कार्या; निशीथे चोपश्रुतिर्ग्राह्या, तेषामानुकूल्येन वरयेद् दीयमानामीप्सेत, दद्याच्च कन्यापक्षः ॥ ९ ॥

न यदृच्छया केवलमानुषयेति घोटकमुखः ॥ १० ॥

केवलमानुषयेति । केवलं मानुषं कर्म यस्यां यदृच्छायामभिजन-