कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 172, कुल 353 में से
संदर्भ में पढ़ें१ अध्याये ] वरणविधानप्रकरणम् । १६५
सामर्थ्यादिकमस्ति तया, नैवान्येच्छया वरयेद्याच्चेत्यर्थः, घोटकमुख इति । परमतमभिमतमप्रतिषिद्धत्वात् ॥ १० ॥
वरणकाले कन्यां दृष्ट्वा निमित्तं पश्येदिति दर्शयन्नाह—
सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत् ॥ ११ ॥
सुप्तामिति । शयनमल्पायुषं सूचयति, रुदतीं दुःखभागिनीं, निष्क्रान्तां गृहान्निष्क्रामन्तीं गृहत्यागिनीं दृष्ट्वा, वरणकाले वरयिता वर्जयेत् ॥ ११ ॥
अप्रशस्तनामधेयां च गुप्तां दत्तां घोनां पृषतामृषभां विनतां-
विकटां विमुण्डां शुचिदूषितां सांकरिकीं राकां फलिनीं मित्रां-
स्वनुजां वर्षकरीं च वर्जयेत् ॥ १२ ॥
अप्रशस्तनामधेयामिति । भङ्गिका विन्नादिकेति, गुप्तामप्रदर्शितामाशङ्क्यमानदोषां, दत्तामित्यनन्यपूर्वामित्यस्य, घोनादयश्च लक्षणसम्पन्नामित्यस्य प्रपञ्चोऽवश्यत्यागार्थः, तत्र घोनां कपिलां पतिघ्नीम्, पृषतां शुक्लविन्दुयुतामर्थहानिकरीं पतिघ्नीं च, ऋषभां पुरुषसंस्थानां दुःशीलां, विनतां स्कन्धदेशावनतां दुःशीलां, विकटामसंहतोरूं दुःखभागिनीं, विमुण्डां बृहल्ललाटां पतिघ्नीं, शुचिदूषितां पितुर्मृतस्य दत्तोल्कां क्रियया न प्रशस्तां, सांकरिकीं पुरुषदूषितां, तस्यां-पत्नीयोगो न धर्मः, राकां जातरजसं रजसा क्षतयोनित्वाद्, फलिनीं-मूर्कां संव्यवहारबाह्याम्, मित्रां मित्रत्वेन गृहीतामगम्यां, स्वनुजामिति । त्रिवर्षात्प्रभृति न्यूनवयसमित्यस्य शेषः, सुष्ठु पश्चाज्जातामित्यर्थः, यथोक्तम्—
'चतुर्थादष्टमं यावत्कनिष्ठा वत्सरे वरात् ।
कन्यां परिणयेच्छुस्तां नेतरोऽतिवयाश्च या' ॥
वर्षकरीं स्विद्यत्करचरणां पतिघ्नीम् ॥ १२ ॥
नक्षत्राख्यां नदीनाम्नीं वृक्षनाम्नीं च गर्हिताम् ।
लकाररेफोपान्तां च वरणे परिवर्जयेत् ॥ १३ ॥
नक्षत्राख्यां श्रवणां विशाखामित्येवमादि, नदीनाम गङ्गायमुनेत्यादि, वृक्षनाम जम्बूः प्रियङ्गुरित्यादि, लकाररेफोपान्तां चेति । लकाररेफावन्ताक्षरसमीपे नाम्नि यस्याः, कमलू विमलू चारू तारू चेति ॥१३॥
यस्यां मनश्चक्षुषोर्निबन्धनं तस्यामृद्धिर्नेतरामाद्रियेतेत्येके ॥१४॥
मनश्चक्षुषोर्निबन्धनमिति केषाञ्चिन्मतं, यस्यामभिजनादिसद्भावे-