कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 173, कुल 353 में से
संदर्भ में पढ़ें१६६ सटीक कामसूत्रे [ ३ अधिकरणे,
ऽपि मनःसङ्गश्चक्षुःप्रीतिश्चोभयमप्यस्ति, तस्यां पत्न्यां सत्यां सिद्धिस्त्रिवर्गप्राप्तिरित्ययमुत्तमः पक्षः, नेतरमिति । यस्यां नास्ति न तामाद्रियेतेत्यधमः पक्षः, केवलमभिजनाद्यपेक्षां वरयेत्, पूर्वामादरेणेति विशेषः, दोषेषु तु मनश्चक्षुर्निबन्धनेऽप्युपेक्षां, तत्रापि दोषाणां गौरवलाघवं परीक्ष्यमिति ॥ १४ ॥
कन्यापक्षे वरणनिमित्तं संविधानमाह—
तस्मात्प्रदानसमये कन्यामुदारवेषां स्थापयेयुरापराहिकञ्च ॥ १५॥
तस्मादिति । यतः सुप्ताद्यनिमित्तात्कन्या न व्रियते तस्मात्, प्रदानसमय इति । उपलक्षणार्थत्वाद्वरणकालेऽपि प्रसाधितां स्थापयेयुः कन्योपक्षीयाः, आपराह्निकमिति । प्रदानात्प्रागपराह्नभवं विधिं स्थापयेयुरित्येव ॥ १५ ॥
तमाह—
नित्यं प्रसाधितायाः सखीभिः सह क्रीडा यज्ञविवाहादिषु जनसन्द्रावेषु प्रायत्निकं दर्शनं तथोत्सवेषु च पण्यसधर्मत्वात् ॥ १६ ॥
नित्यमिति । सखीभिः सह क्रीडा रथ्याचत्वरादिषु, यज्ञविवाहादिषु चान्यदीयेषु, जनसन्द्रावेष्विति । जनाः संभूय द्रवन्ति येषु, प्रायत्निकमिति । प्रयत्नसाध्यम्, परिवाराधिष्ठितत्वात्कौतुकेन लोको यत्नेन पश्यति, तथोत्सवेषु च वसन्तकादिषु जनसन्द्रावेषु प्रायत्निकम्, पण्यसधर्मत्वादिति । विक्रेतव्यतुल्यं कौतुकेन हि लोको यत्नेन पश्यति, न दृश्यमाना पण्यवद् ध्रियेत ॥ १६ ॥
वरयितॄणां च लक्षणमुपचारं चाह—
वरणार्थमुपगतांश्च भद्रदर्शनान्प्रदक्षिणवाचश्च तत्सम्बन्धिसङ्गतान्पुरुषान्मङ्गलैः प्रतिगृह्णीयुः ॥ १७ ॥
वरणार्थमिति । अहीनाङ्गत्वान् मङ्गलाचारयुक्तत्वात्, प्रदक्षिणवाचइति । अनुकूलवाचः, तत्सम्बन्धिसंगतानिति । यत्प्रागुक्तं मित्राणि सम्बन्धिनश्चेति तैः सहेत्यर्थः, मङ्गलैर्दध्यक्षतादिभिः प्रतिगृह्णीयुः कन्यापक्षीयाः ॥ १७ ॥
कन्यां चैषामलंकृतामन्यापदेशेन दर्शयेयुः ॥ १८ ॥
अन्यापदेशेनेति । अन्यकार्यमपदिश्य न तूपेत्य दर्शयेद्, दानस्यानिश्चितत्वात् ॥ १८ ॥
दैवं परीक्षणं चावधिं स्थापयेयुराप्रदाननिश्चयात् ॥ १९ ॥