कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
१ अध्याये ] वरणविधानप्रकरणम् । १६५
सामर्थ्यादिकमस्ति तया, नैवान्येच्छया वरयेद्याच्चेत्यर्थः, घोटकमुख इति । परमतमभिमतमप्रतिषिद्धत्वात् ॥ १० ॥
वरणकाले कन्यां दृष्ट्वा निमित्तं पश्येदिति दर्शयन्नाह—
सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत् ॥ ११ ॥
सुप्तामिति । शयनमल्पायुषं सूचयति, रुदतीं दुःखभागिनीं, निष्क्रान्तां गृहान्निष्क्रामन्तीं गृहत्यागिनीं दृष्ट्वा, वरणकाले वरयिता वर्जयेत् ॥ ११ ॥
अप्रशस्तनामधेयां च गुप्तां दत्तां घोनां पृषतामृषभां विनतां-
विकटां विमुण्डां शुचिदूषितां सांकरिकीं राकां फलिनीं मित्रां-
स्वनुजां वर्षकरीं च वर्जयेत् ॥ १२ ॥
अप्रशस्तनामधेयामिति । भङ्गिका विन्नादिकेति, गुप्तामप्रदर्शितामाशङ्क्यमानदोषां, दत्तामित्यनन्यपूर्वामित्यस्य, घोनादयश्च लक्षणसम्पन्नामित्यस्य प्रपञ्चोऽवश्यत्यागार्थः, तत्र घोनां कपिलां पतिघ्नीम्, पृषतां शुक्लविन्दुयुतामर्थहानिकरीं पतिघ्नीं च, ऋषभां पुरुषसंस्थानां दुःशीलां, विनतां स्कन्धदेशावनतां दुःशीलां, विकटामसंहतोरूं दुःखभागिनीं, विमुण्डां बृहल्ललाटां पतिघ्नीं, शुचिदूषितां पितुर्मृतस्य दत्तोल्कां क्रियया न प्रशस्तां, सांकरिकीं पुरुषदूषितां, तस्यां-पत्नीयोगो न धर्मः, राकां जातरजसं रजसा क्षतयोनित्वाद्, फलिनीं-मूर्कां संव्यवहारबाह्याम्, मित्रां मित्रत्वेन गृहीतामगम्यां, स्वनुजामिति । त्रिवर्षात्प्रभृति न्यूनवयसमित्यस्य शेषः, सुष्ठु पश्चाज्जातामित्यर्थः, यथोक्तम्—
'चतुर्थादष्टमं यावत्कनिष्ठा वत्सरे वरात् ।
कन्यां परिणयेच्छुस्तां नेतरोऽतिवयाश्च या' ॥
वर्षकरीं स्विद्यत्करचरणां पतिघ्नीम् ॥ १२ ॥
नक्षत्राख्यां नदीनाम्नीं वृक्षनाम्नीं च गर्हिताम् ।
लकाररेफोपान्तां च वरणे परिवर्जयेत् ॥ १३ ॥
नक्षत्राख्यां श्रवणां विशाखामित्येवमादि, नदीनाम गङ्गायमुनेत्यादि, वृक्षनाम जम्बूः प्रियङ्गुरित्यादि, लकाररेफोपान्तां चेति । लकाररेफावन्ताक्षरसमीपे नाम्नि यस्याः, कमलू विमलू चारू तारू चेति ॥१३॥
यस्यां मनश्चक्षुषोर्निबन्धनं तस्यामृद्धिर्नेतरामाद्रियेतेत्येके ॥१४॥
मनश्चक्षुषोर्निबन्धनमिति केषाञ्चिन्मतं, यस्यामभिजनादिसद्भावे-
१६६ सटीक कामसूत्रे [ ३ अधिकरणे,
ऽपि मनःसङ्गश्चक्षुःप्रीतिश्चोभयमप्यस्ति, तस्यां पत्न्यां सत्यां सिद्धिस्त्रिवर्गप्राप्तिरित्ययमुत्तमः पक्षः, नेतरमिति । यस्यां नास्ति न तामाद्रियेतेत्यधमः पक्षः, केवलमभिजनाद्यपेक्षां वरयेत्, पूर्वामादरेणेति विशेषः, दोषेषु तु मनश्चक्षुर्निबन्धनेऽप्युपेक्षां, तत्रापि दोषाणां गौरवलाघवं परीक्ष्यमिति ॥ १४ ॥
कन्यापक्षे वरणनिमित्तं संविधानमाह—
तस्मात्प्रदानसमये कन्यामुदारवेषां स्थापयेयुरापराहिकञ्च ॥ १५॥
तस्मादिति । यतः सुप्ताद्यनिमित्तात्कन्या न व्रियते तस्मात्, प्रदानसमय इति । उपलक्षणार्थत्वाद्वरणकालेऽपि प्रसाधितां स्थापयेयुः कन्योपक्षीयाः, आपराह्निकमिति । प्रदानात्प्रागपराह्नभवं विधिं स्थापयेयुरित्येव ॥ १५ ॥
तमाह—
नित्यं प्रसाधितायाः सखीभिः सह क्रीडा यज्ञविवाहादिषु जनसन्द्रावेषु प्रायत्निकं दर्शनं तथोत्सवेषु च पण्यसधर्मत्वात् ॥ १६ ॥
नित्यमिति । सखीभिः सह क्रीडा रथ्याचत्वरादिषु, यज्ञविवाहादिषु चान्यदीयेषु, जनसन्द्रावेष्विति । जनाः संभूय द्रवन्ति येषु, प्रायत्निकमिति । प्रयत्नसाध्यम्, परिवाराधिष्ठितत्वात्कौतुकेन लोको यत्नेन पश्यति, तथोत्सवेषु च वसन्तकादिषु जनसन्द्रावेषु प्रायत्निकम्, पण्यसधर्मत्वादिति । विक्रेतव्यतुल्यं कौतुकेन हि लोको यत्नेन पश्यति, न दृश्यमाना पण्यवद् ध्रियेत ॥ १६ ॥
वरयितॄणां च लक्षणमुपचारं चाह—
वरणार्थमुपगतांश्च भद्रदर्शनान्प्रदक्षिणवाचश्च तत्सम्बन्धिसङ्गतान्पुरुषान्मङ्गलैः प्रतिगृह्णीयुः ॥ १७ ॥
वरणार्थमिति । अहीनाङ्गत्वान् मङ्गलाचारयुक्तत्वात्, प्रदक्षिणवाचइति । अनुकूलवाचः, तत्सम्बन्धिसंगतानिति । यत्प्रागुक्तं मित्राणि सम्बन्धिनश्चेति तैः सहेत्यर्थः, मङ्गलैर्दध्यक्षतादिभिः प्रतिगृह्णीयुः कन्यापक्षीयाः ॥ १७ ॥
कन्यां चैषामलंकृतामन्यापदेशेन दर्शयेयुः ॥ १८ ॥
अन्यापदेशेनेति । अन्यकार्यमपदिश्य न तूपेत्य दर्शयेद्, दानस्यानिश्चितत्वात् ॥ १८ ॥
दैवं परीक्षणं चावधिं स्थापयेयुराप्रदाननिश्चयात् ॥ १९ ॥
वरणसंविधानं त्रयोविंशं प्रकरणम् ॥
१ अध्याये ] वरणविधानप्रकरणम् । १६७
दैवं परीक्षणं चेति । यावत्प्रदानं न निश्चीयते तावद् दैवं प्रजापत्यधीनमिति, परीक्षणं च मित्रस्वजनैः सह निरूपयाम इत्यवधिं स्थापयेयुः,
अन्यस्त्वाह—
'गोष्ठसीताह्रदवृक्षश्मशानेरिणदेवतः । चतुष्पथाच्च मृत्पिण्डैः कुर्याद् दैवपरीक्षणम्' ॥ १९ ॥
स्नानादिषु नियुज्यमाना वरयितारः सर्वं भविष्यतीत्युक्त्वा न तदहरेवाभ्युपगच्छेयुः ॥ २० ॥
स्नानादिषु नियुज्यमानाः कन्यापक्षीयाः, वरयितार इति । वृण्वन्ति ये, सर्वमिति । स्नानादिकम्, भविष्यति प्रजापतावन्ुकूले, न तदहरेवेति । तं दिवसं स्नानादिभिर्नाङ्गीकुर्युः ॥ २० ॥
देशप्रवृत्तिसात्म्याद्वा ब्राह्मप्राजापत्यार्षदैवानामन्यतमेन विवाहेन शास्त्रतः परिणयेदिति वरणविधानम् ॥ २१ ॥
देशप्रवृत्तिसात्म्याद्वेति । यस्मिन्देशे या प्रवृत्तिस्तदानुकूल्यादित्यर्थः, ब्राह्मप्राजापत्यार्षदैवानामिति । एषां धर्म्यत्वाद्, अन्यतमेन,
तथा चोक्तम्—
'सकृदाहूय कन्यां तु ब्राह्मे दद्यात्स्वलंकृताम् । सह धर्मं चरेत्येवं प्राजापत्योऽभिधीयते ॥ वसुगोमिथुनं दत्त्वा विवाहस्त्वार्ष उच्यते । अन्तर्वेद्यां तु दैवः स्यादृृत्विजे कर्म कुर्वते' ॥
शास्त्रत इति । गृह्योक्तेन विधिना ॥ २१ ॥
वरणसंविधानं त्रयोविंशं प्रकरणम् ॥
अभिजनादिभिः शीलितायामप्यनिश्चिते सम्बन्धे वरणाभावात्सम्बन्धनिश्चय उच्यते—
भवन्ति चात्र श्लोकाः—
समस्याद्याः सहक्रीडा विवाहाः सङ्गतानि च । तादृशैरेव कार्याणि नोत्तमैर्नापि वाऽधमैः ॥ २२ ॥
समस्याद्या इति । सम्भूय क्रीडामादिं कृत्वा क्रीडाः, सङ्गतानि सख्यानि, तादृशैरिति । समानैः तुल्यजात्यभिजनद्रव्यायत्तिव्तात् ॥ २२ ॥
तेन समानाधमोत्तमसम्बन्धिभेदात्सम्बन्धस्त्रिविधः, तस्य कार्यद्वा-
सम्बन्धनिश्चयश्चतुर्विंशं प्रकरणम् ॥
१६८ सतीके कामसूत्रे [ ३ अधिकरणे,
रेण लक्षणमाह—
कन्यां गृहीत्वा वर्तेत प्रेष्यवद्यत्र नायकः ।
तं विद्यादुच्चसम्बन्धं परित्यक्तं मनस्विभिः ॥ २३ ॥
कन्यामिति । गृहीत्वा=परिणीय, प्रेष्यवद्=भृत्यवद्, द्रव्यायत्यभावाद्, उच्चसम्बन्धमिति । अधिकेन सम्बन्धिना, परित्यक्तं मनस्विभिः, ये तु नैवं ते कुर्वन्त्येव ॥ २३ ॥
स्वामिवद्विचरेद्यत्र बान्धवैः स्वैः पुरस्कृतः ।
अश्लाघ्यो हीनसम्बन्धः सोऽपि सद्भिर्विनिन्द्यते ॥ २४ ॥
स्वामिवदिति । कन्यां गृहीत्वा प्रभुवद्विचरेद्, द्रव्यायतिमत्त्वाद्, बान्धवैः श्वशुरश्यालकादिभिः प्रेष्यभूतैः परिवृतः, अश्लाघ्य इति । अश्लाघनीयस्तदनुरूपलोकाचाराभावात्, सद्भिरिति । लोकव्यवहारज्ञैः ॥ २४ ॥
परस्परसुखास्वादा क्रीडा यत्र प्रयुज्यते ।
विशेषयन्ती चान्योन्यं सम्बन्धः स विधीयते ॥ २५ ॥
परस्परसुखास्वादेति । वरपक्षस्य कन्यापक्षस्य च सुखानुभवो यस्यां परस्परप्रयुक्तायां क्रीडायां, विशेषयन्ती चान्योन्यं प्रयुज्यते यस्मिन्सः; सम्बन्धो विधीयत इति । सद्भिः क्रियत इत्यर्थः, पूर्वौ तु न विधीयेते इत्यर्थोक्तम् ॥ २५ ॥
तयोरपि कः श्रेयानित्याह—
कृत्वाऽपि चोच्चसम्बन्धं पश्चाज्ज्ञातिषु संनमेत् ।
न त्वेव हीनसम्बन्धं कुर्यात्सद्भिर्विनिन्दितम् ॥ २६ ॥
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासं प्रयुक्तके तृतीयेऽधिकरणे वरणविधानं सम्बन्ध निश्चयश्च प्रथमोऽध्यायः ।
कृत्वाऽपीति । ज्ञातिषु संनमेदिति । ज्ञातिगृहे स्वयं यायाद्, न श्वशुरगृह इत्यर्थः, न त्वेवेत्येकान्तेनैव प्रतिषेधः ॥ २६ ॥
सम्बन्धनिश्चयश्चतुर्विंशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां कन्या सम्प्रयुक्तके तृतीयेऽधिकरणे वरणविधानं सम्बन्धनिश्चयश्च प्रथमोऽध्यायः ।
२ अध्याये ] कन्याविस्रम्भणप्रकरणम् । १६९
द्वितीयोऽध्यायः ।
एवमधिगताऽप्यविश्वासिता न संप्रयोगाहैति; कन्याविस्रम्भणमुच्यते, तत्र विवाहानन्तरं मङ्गलाचारमाह—
संगतयोस्त्रिरात्रमधःशय्या ब्रह्मचर्यं क्षारलवणवर्जमाहारस्तथा सप्ताहं सतूर्यमङ्गलस्नानं प्रसाधनं सहभोजनं च प्रेक्षा संबन्धिनां च पूजनमिति सार्ववर्णिकम् ॥ १ ॥
संगतयोरिति । परिणयात्प्राप्तसमागमयोः, त्रिरात्रमिति । रात्रिग्रहणं रात्रिकर्मप्रदर्शनार्थम्, अधःशय्या भूमौ शयनं, न खट्वायाम्, ब्रह्मचर्यं यावच्चतुर्थिकाहोमो न क्रियते दिवामैथुनस्य प्रतिषिद्धत्वात्, क्षारः फाणितगुडादिः, लवणं सैन्धवादि, तद्वर्जं भोजनं मधुक्षीरघृतसंस्कृतप्रायं, तच्च नक्तं स्याद्, रात्रिकर्मवर्गे पठितत्वात्, तथा सप्ताहम् इति । यथा त्र्यहं, तदूर्ध्वमपराणि सप्ताहानीत्यर्थः, अहर्ग्रहणं दिनकर्मप्रदर्शनार्थं, सवाद्यं समङ्गलं सगीतं स्नानं च, प्रसाधनं मण्डनं, सहभोजनं चेति । एकस्मिन्स्थाने, पूर्वत्रापि सहभोजनं किं तु व्रतस्थत्वात्क्षारलवणवर्जं नक्तं च तदिति, प्रेक्षा संबन्धिनां नटादीनां च दर्शनम्, पूजनं च गन्धमाल्यादिभिः, सार्ववर्णिकमिति । चतुर्ष्वपि ब्राह्मणादिवर्णेषु भवमविरुद्धत्वाद् , एतच्च लोके दशरात्रिकमित्युच्यते, तथा चोक्तं--
‘कन्यावेश्मनि निर्वर्त्य राजवद्दशरात्रिकम् ।
सभार्यः स्वगृहं यायात्स्थित्वेर्वा कुलदेशयोः’ इति ॥ १ ॥
विस्रम्भणोपायमाह—
तस्मिन्नेतां निशि विजने मृदुभिरुपचारैरुपक्रमेत ॥ ३ ॥
तस्मिन्निति । दशरात्रिके, कन्या द्विविधा, संसर्गयोग्या; इतरा च, पूर्वस्या विस्रम्भणं रतापेक्षया, द्वितीयाया भयलज्जाऽपगमापेक्षया, निशि मन्दसाध्वसत्त्वाद् , विजने कौतुकगृहे लज्जाऽपगमाद्, मृदुभिरुपचारैरिति । अनुद्वेगकरैरालापस्पर्शनादिभिः ॥ ३ ॥
किमर्थमुपक्रम्यत इत्याह—
त्रिरात्रमवचनं हि स्तम्भमिव नायकं पश्यन्ती कन्या निर्विद्येत परिभवेच्च तृतीयामिव प्रकृतिमिति बाभ्रवीयाः ॥ ४ ॥
त्रिरात्रमिति । स्तम्भमिव मूकं निश्चेष्टं तत्र निर्वचनं पश्यन्ती निर्विद्येत, मूकेन ग्राम्येण चाहमूढेति खिद्येत्, परिभवेच्चेति । निश्चेष्टत्वा-
२२ का० सू०
१७० सटीक कामसूत्रे [ ३ अधिकरणे,
नपुंसकमिति, तिरस्कारबुद्धिं तत्र कुर्यात् ॥ ४ ॥
अस्मिन्पक्षे सर्वस्याविशङ्कया करणे प्राप्ते प्रतिषेधमाह—
उपक्रमेत विस्रम्भयेच्च, न तु ब्रह्मचर्यमतिवर्तेतेति वात्स्यायनः॥५॥
उपक्रमेत यथा न निर्विद्येत, विस्रम्भयेच्च यथा सम्प्रयोगेऽनुकूला भवति न तु ब्रह्मचर्यमतिवर्तेत; अनुकूलायामप्यकाले व्रतखण्डनस्याधर्मत्वात् ॥ ५ ॥
उपक्रममाणश्च न प्रसह्म किञ्चिदाचरेत् ॥ ६ ॥
उपक्रममाणश्चेत्यादिना मृदुभिरुपचारैरित्यस्य प्रपञ्चः, न प्रसह्म किञ्चिदिति । स्पर्शनमपि नाभिभूय कुर्यादित्यर्थः ॥ ६ ॥
किमर्थमित्याह—
कुसुमसाधर्माणो हि योषितः सुकुमारोपक्रमाः, तास्त्वनधिगतविश्वासैः प्रसभमुपक्रम्यमाणाः सम्प्रयोगद्वेषिण्यो भवन्ति तस्मात्साम्नैवोपचरेत् ॥ ६ ॥
कुसुमसाधर्माण इति । कुसुमतुल्याः, योषित इति । सर्वा एव, विशेषतः कन्याः, सुकुमारोपक्रमा इति । मृदुरुपक्रमः स्पर्शनादिलक्षणो यासु, अनधिगतविश्वासैरिति । लब्धविश्वासैस्तु प्रसहोपक्रमो न दोषाय, सम्प्रयोगद्वेषिण्यो जातानिच्छकत्वात्, तस्मात्साम्नेति । मृदुना, सर्वोपचाराणामयं प्राथमिको विधिः ॥ ६ ॥
तत्रालब्धप्रसरस्योपचारयोगासम्भवात्तदुपायमाह—
युक्त्याऽपि तु यतः प्रसरमुपलभेत तेनैवानुप्रविशेत् ॥ ७ ॥
युक्त्येति । कया चिदर्थयुक्त्या तत्कालभाविन्या, यतः प्रसरमिति । तत्सख्या सह सम्भाषणे क्रीडने वाऽऽत्मनोऽवकाशमुपलभेत, तेनैव सम्भाषणेन क्रीडनेन वा द्वारेण तामनुप्रविशेत् ॥ ७ ॥
ततो लब्धप्रसरस्य प्रथममुपगूहनेनोपक्रम इत्याह—
तत्प्रियेणालिङ्गनेनाचरितेन नातिकालत्वात् ॥ ८ ॥
तत्प्रियेणेति । कथं तत्प्रियमित्याह—नातिकालत्वादिति । यद्धृष्ट्वाऽनन्तरमेवापनीयते तस्यानुद्वेजनकत्वात् ॥ ८ ॥
पूर्वकायेन चोपक्रमेत विषह्यत्वात् ॥ ९ ॥
पूर्वकायेन चेति । तस्या यो नाभेरूर्ध्वभागस्तेन प्रथममुपक्रमेत, विषह्यत्वादिति । तेनोपक्रमः शक्यते सोढुं नाधरकायेनोद्वेजनकत्वात्॥९॥
दीपालोके विगाढयौवनायाः पूर्वसंस्तुतायाः, बालाया अपू-
२ अध्याये ] कन्याविस्रम्भणप्रकरणम् । १७१
२ अध्याये ] कन्याविस्रम्भणप्रकरणम् । १७१
वर्याश्चान्धकारे ॥ १० ॥
दीपालोके कौतुकगृहवर्तिनि, विगाढयौवनापूर्वसंस्तुतयोर्भयलज्जाऽभावाद्, बालाऽपूर्वयोरन्धकारे लज्जाऽऽधिक्याद्, विगाढयौवनाऽप्यन्यशुभलक्षणयोगादूढा लघुदोषत्वात् ॥ १० ॥
अङ्गीकृतपरिष्वङ्गायाश्च वदनेन ताम्बूलदानं तदप्रतिपद्यमानां च सान्त्वनैर्वाक्यैः शपथैः प्रतियाचितैः पादपतनैश्च ग्राहयेद् व्रीडायुक्ताऽपि योषिदत्यन्तक्रुद्धाऽपि न पादपतनमतिवर्ततइति सार्वत्रिकम् ॥ ११ ॥
वदनेन ताम्बूलदानमिति। स्वेन मुखेन, चुम्बनक्षान्तेरभिप्रेतत्त्वात्, तदप्रतिपद्यमानामिति । ताम्बूलमगृह्णतीं, सान्त्वनवाक्यैः प्रियाभिधायिभिः, शपथैरिति । मच्छरीरेण शप्ताऽसीति, प्रतियाचितैस्त्वमेतन्मे देहीति, पादपतनेन चान्त्यावस्थायां ग्राहयेद्, यतः स्त्रिया व्रीडात्याजने क्रोधापनयने च न पादपतनादूर्ध्वमुपायोऽस्ति, सार्वत्रिकमिति । न कन्यायामेवान्यस्यामपि भवति ॥ ११ ॥
तद्दानप्रसङ्गेन मृदु विशदमकाहळमस्याश्चुम्बनम् ॥ १२ ॥
तत्र सिद्धामालापयेत् ॥ १३ ॥ तच्छ्रवणार्थं यत्किंचिदल्पाक्षराभिधेयमजानन्निव पृच्छेत् ॥ १४ ॥ तत्र निष्प्रतिपत्तिमित्युद्वेजयन्सान्त्वनायुक्तं बहुश एव पृच्छेत् ॥ १५॥ तत्राप्यवदन्तीं निर्बध्नीयात् ॥ १६ ॥
मृद्विति । यत्र ग्रहणं नास्ति, तस्योद्वेजकत्वाद्, विशदं स्पर्शकरम्, अकाहलमशब्दं सशब्देन लज्जिता स्यात्, तत्र सिद्धां, चुम्बनेनानुकूलामालापयेद् यथा ब्रवीति, अत्रोपायमाह—तच्छ्रवणार्थमिति । आलापश्रवणार्थं, यत्किंचिदिति । दृष्टं श्रुतं वा तदानीम्, अल्पाक्षराभिधेयं सुकथनीयत्वाद्, अजानन्निवेति । अन्यथा विहावयतीति जानीयाद्, निष्प्रतिपत्तिं तूष्णीं स्थितां, सान्त्वनायुक्तं चाटुयुक्तं, निर्बध्नीयाद् अनेनैव क्रमेण ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥
निर्बन्धे विरुज्यतीति चेदाह—
सर्वा एव हि कन्याः पुरुषेण प्रयुज्यमानं वचनं विषहन्ते,
न तु लघुमिश्रामपि वाचं वदन्तीति घोटकमुखः ॥ १७ ॥
सर्वा एवेति । प्रयुज्यमानमिति । पुनः पुनरुच्यमानं विषहन्ते, आविर्भवन्मन्मथत्वाद्, लघुमिश्रामपीति । कतिपयाक्षरामन्यार्थश्लिष्टामपि न वदन्ति, लज्जापरतन्त्रत्वात् ॥ १७ ॥
| १७२ | सटीक कामसूत्रे | [ ३ अधिकरणे, |
|---|
अत्र कन्याया आलापयोजनोपायमाह—
निर्बध्यमाना तु शिरःकम्पेन प्रतिवचनानि योजयेत्, कलहे तु न शिरः कम्पयेत् ॥ १८ ॥
निर्बध्यमानेति। शिरःकम्पेनेति। किमिदं जानासीति ? पृष्टा, जानामीत्यूर्ध्वाधः शिरश्चालनेन, न जानामीति तिर्यक् शिरश्चालनेन योजयेद्, धार्ष्ट्यपरिहारार्थं, कलहे त्विति। अस्यामवदन्त्यां यदि कदाचिदर्थयुक्त्या प्रेरणप्रतिप्रेरणादिलक्षणो वाक्कलहो जातस्तस्मिन् किं कुपिताऽसि नेति पृष्टा, न शिरः कम्पयेत् कोपख्यापनार्थम् ॥ १८ ॥
अकलहे तु स्नेहजिज्ञासायामालापयोजनमाह—
इच्छसि मां नेच्छसि वा, किं तेऽहं रुचितो न रुचितो वेति पृष्टा चिरं स्थित्वा निर्बध्यमाना तदानुकूल्येन शिरः कम्पयेत् प्रपञ्च्यमाना तु विवदेत् ॥ १९ ॥
इच्छसि मां नेच्छसि वेति ? वार्तमानिकः प्रश्नः, किं तव रुचितोऽहमरुचितो वेति ? परिणयात्पूर्वकालिकः प्रश्नः, चिरं स्थित्वेति। संकटः प्रश्नः—यदि पूर्वपक्षमाश्रयेयं तदा धार्ष्ट्यं लाघवं च, इतरं चेत्तदा नैष्ठुर्यमिति निर्बध्यमाना नायकेन संकटप्रश्ने किमनुष्ठास्यतीति तस्या निर्बध्यमानाया उभयपक्षाश्रयणमेव युक्तमित्याह—तदानुकूल्येनेति। पूर्वपक्षोत्तरपक्षानुकूल्येनोभयथाऽपि शिरः कम्पयेदित्यर्थः, प्रपञ्च्यमाना त्विति। अनिश्चितार्थप्रकाशनान्नायकेन प्रतार्यमाणा विवदेत, कोपख्यापनार्थं विरुद्धं वदेद्, न मे रुचितोऽसि नेच्छामि त्वामिति ॥१९॥
यदि पूर्वपरिचिता तदाऽऽलापयोजने विधिमाह—
संस्तुता चेत्सखीमनुकूलामुभयतोऽपि विस्रब्धां तामन्तरा कृत्वा कथां योजयेत् ॥२०॥ तस्मिन्नधोमुखी विहसेत् ॥२१॥ तां चातिवादिनीमधिकषिपेद्विवदेत वा ॥२२॥ सा तु परिहासार्थमिदमनयोक्तमिति चानुक्तमपि ब्रूयात् ॥ २३ ॥ तत्र तामपनुद्य प्रतिवचनार्थमभ्यर्थ्यमानां तूष्णीमासीत ॥ २४ ॥ निर्बध्यमाना तु नाहमेवं ब्रवीमीत्यव्यक्ताक्षरमनवसितार्थं वचनं ब्रूयात् ॥२५॥ नायकं च विहसन्ती कदा चित्कटाक्षैः प्रेक्षेतेत्यालापयोजनम् ॥ २६ ॥
संस्तुता चेदिति। सखीमिति। सखीनां मध्ये याऽनुकूला विस्रब्धा, उभयत इति। द्वयोरपि विस्रब्धा विदितपूर्ववृत्तान्तत्वात्, तामन्तरा
२ अध्याये ] कन्याविस्रम्भणप्रकरणम् । १७३
२ अध्याये ] कन्याविस्रम्भणप्रकरणम् । १७३
कृत्वा व्यवधाय कथायोजनं, नायकस्य तु पूर्ववृत्तां कथां योजयेत् , किमहमस्या रुचिरो न वेत्यर्थः, तस्मिन्निति। यदैव तस्यां क्रीडायां परिचयोऽभूत्तत एव प्रभृति रुचिरोऽसीति सख्या कथने क्रियमाणेऽधोमुखी लज्जया विहसेदेवमेतदिति ख्यापनार्थं नायिका, तां चेति । सखीम्, अतिवादिनीमिति । अनुरागातिशयं कथयन्तीमधिक्षिपेदभिनुदेद्, विवदेत च, तया सह कलहायेत, सा त्विति । सखी, अनुक्तमपि नायिकया, ब्रूयाद् अद्यैव यदि पाणिं गृह्णासि साधु भवतीति, तत्रेति । अनुक्तकथने, अनवसितार्थमक्षराणामस्पष्टत्वाद् ब्रूयाद् मुग्धत्वख्यापनार्थं, नायकं च विहसन्ती कदा चिदन्तराऽन्तरे परिचयवशात्कटाक्षेणोन्मुखीव प्रेक्षेतानुरागातिशयख्यापनार्थम् ॥ २०॥ २१॥ २२॥ २३॥ २४॥ २५॥ २६॥
एवं जातपरिचया चानिर्वदन्ती तत्समीपे याचितं ताम्बूलं विलेपनं स्रजं निदध्यादुत्तरीये वाऽस्य निबध्नीयात् ॥ २७॥ तथा युक्तामाच्छुरितकेन स्तनमुकुलयोरुपरि स्पृशेत् ॥२८॥ वार्यमाणश्च त्वमपि मां परिष्वजस्व ततो नैवमाचरिष्यामीति स्थित्या परिष्वञ्जयेत्, स्वं च हस्तमानाभिदेशात्प्रसार्य प्रसार्य निवर्तयेत् क्रमेण चैनामुत्सङ्गमारोप्याधिकमधिकमुपक्रमेताप्रतिपद्यमानां च भीषयेत् २९
एवमालिङ्गनताम्बूलचुम्बनालापैर्जातपरिचयाऽनिर्वदन्ती, गृहाणेति याचितं नायकेन निदध्यात्स्थापयेत् , तथा युक्तामिति । निदधतीमुत्तरीये वा निबध्नतीम् , आच्छुरितेन पूर्वोक्तेन, स्तनमुकुलयोरिति । मुकुलग्रहणमतिस्पर्शनिवृत्त्यर्थं बालत्वाद्, वार्यमाणश्चेति । स्पर्शनस्थित्या व्यवस्थया परिष्वञ्जयेत् , स्थितिमाह-त्वमपीति । आनाभिप्रदेशादिति । नाभिप्रदेशं यावत् , प्रसार्य प्रसार्य निवर्तयेदिति । वीप्साऽत्र क्षान्त्यर्थम्, प्रसार्य प्रसार्येत्यर्थः, क्रमेणेति । न सहसोत्सङ्गमारोपयेद् , अधिकमधिकमिति । नखदशनपदैरप्रतिपद्यमानामधिकोपक्रमं भीषयेत् ॥ २७॥ २८॥ २९॥
कथमित्याह—
अहं खलु तव दन्तपदान्यधरे करिष्यामि स्तनपृष्ठे च नखपदम् आत्मनश्च स्वयं कृत्वा त्वया कृतमिति ते सखीजनस्य पुरः कथयिष्यामि सा त्वं किमत्र वक्ष्यसीति बालविभीषिकाभिर्बालप्रत्यायनैश्च शनैरेनां प्रतारयेत् ॥ ३०॥ द्वितीयास्यां तृतीयास्यां च
| १७४ | सटीके कामसूत्रे | [३ अधिकरणे, |
|---|
रात्रौ किञ्चिदधिकं विस्रम्भितां हस्तेन योजयेत् ॥ ३१ ॥
अहमिति । आत्मनश्च स्वयं कृत्वा दन्तपदं नखपदं च, किमसौ प्रतिपत्स्यते सखीजनो नवोढादुश्चेष्टितादन्यत्रेत्येतद्बालविभीषिका, अस्मिन्वचनानुष्ठाने तु नाहमेवं करिष्यामीति, बालप्रत्यायनमर्थोक्तं, शनैरेनां प्रतारयेत्, कार्याभिमुखीं कुर्यादिति, एतत्प्रथमायां रात्रौ विस्रम्भणं, तस्मात्किञ्चिदधिकं द्वितीयायां रात्रौ, तृतीयायां च हस्तेन योजयेदिति । कक्षोरुजघनेषु हस्तस्पर्शसम्बन्धिनीं कुर्यात् ॥ ३० ॥ ३१ ॥
हस्तेन योजनोपायमाह—
सर्वाङ्गिकं चुम्बनमुपक्रमेत ॥ ३२ ॥
सर्वाङ्गिकमिति । ललाटनयनादिषु विचुम्ब्यमाना पर्याकुला सर्वमभ्युपगच्छति ॥ ३२ ॥
हस्तयोजनविधिमाह—
ऊर्वोश्चोपरि विन्यस्तहस्तः संवाहनक्रियायां सिद्धायां क्रमेणोरुमूलमपि संवाहयेत् ॥ ३३ ॥ तत्र निवारिते संवाहने को दोष इत्याकुलयेदेनाम् ॥ ३४ ॥ तच्च स्थिरीकुर्यात् तत्र सिद्धायां गुह्यदेशाभिमर्शनं रशनावियोजनं नीवीविस्रंसनं वसनपरिवर्तनमूरुमूलसंवाहनं चैते चास्यान्यापदेशाः ॥ ३५ ॥ युक्तयन्त्रां रञ्जयेद् न त्वकाले व्रतखण्डनमनुशिष्याच्च ॥ ३६ ॥ आत्मानुरागं दर्शयेद्, मनोरथांश्च पूर्वकालिकाननुवर्णयेदायत्यां च तदानुकूल्येन प्रवृत्तिं प्रतिजानीयात् सपत्नीभ्यश्च साध्वसमवच्छिन्द्यात् ॥ ३७ ॥ कालेन च क्रमेण विमुक्तकन्याभावामनुद्वेजयन्नुपक्रमेतेति कन्याविस्रम्भणम् ॥ ३८ ॥
ऊर्वोरिति । तत्रायं क्रमः—प्रथमं पूर्वकायस्य संवाहनक्रिया, तस्यां सिद्धायामूरुमूले, आकुलयेत् चुम्बनाच्छुरितकैः, तच्चेति । यत्पूर्वाभ्युपगतं संवाहनं तच्च स्थिरीकुर्यात् क्षान्त्यर्थं, तत्रेति । ऊरुमूलसंवाहने सिद्धायां गुह्यदेशाभिमर्शनं, संवाहनव्यपदेशेन रसनावियोजनाद्यपि कुर्यात्, पुनरूरुमूले संवाहनग्रहणमपरित्यागार्थं, गुह्यस्पर्शहेतुत्वाद्, एत इति । गुह्यस्पर्शनादयो व्यापाराः, अस्येति : नायकस्य, अन्यापदेशा इति । त्रिरात्रादर्वागन्यमपदिश्य कर्तव्या न तु व्रतखण्डनमधिकृत्येत्यर्थः, युक्तयन्त्रां च चातुर्थिकहोमादूर्ध्वं रञ्जयेदिति । रञ्जन-
२ अध्याये ] कन्याविस्रम्भणप्रकरणम् । १७५
मनुद्वेज्य सुखोत्पादनम्, अनुशिष्याद्, चातुःषष्टिकान्योगान् शिक्षयेद्, आत्मानुरागं च दर्शयेद् इङ्गिताकाराभ्याम्, मनोरथान् पूर्वकालीनाननुवर्णयेद्, ये ये तस्यामधरपानादयश्चिन्तिताः, आयत्यामिति। अनागतकाले तदानुकूल्येन प्रवृत्तिं प्रतिजानीयाद्, 'यदाह भवती तन्मया विधातव्यमिति, सपत्नीभ्यः साध्वसमवच्छिन्द्याद्, यद्यधिविन्ना स्यात्, कालेन च गच्छता मुक्तकन्याभावां युवतीमनुद्वेजयन्नुपक्रमेत, तदाऽप्ययमेव क्रमः स स्फुटः कर्तव्यः ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ॥ ३७ ॥३८॥
उक्तमुपसंहरन्नाह— भवन्ति चात्र श्लोकाः—
एवं चित्तानुगो बालामुपायेन प्रसाधयेत् ।
तथाऽस्य साऽनुरक्ता च सुविस्रब्धा प्रजायते ॥ ३९ ॥
एवमिति । चित्तानुग इति । चित्ताभिप्रायं बुद्ध्वा, उपायेनेति । युक्त्या, प्रसाधयेद्विश्वासयेत्, किमेवं स्यादित्याह—तथेति । सुविस्रब्धा सती, अनुरक्ता प्रजायत इति योज्यम् ॥ ३९ ॥
तत्रापि विशेषमाह—
नात्यन्तमानुलोम्येन न चातिप्रातिलोम्यतः ।
सिद्धिं गच्छति कन्यासु तस्मान्मध्येन साधयेत् ॥ ४० ॥
नात्यन्तमिति । सिद्धिं सुखं, तत्र तदानुलोम्येन प्रवृत्तौ स एवोत्तरकालमपि मार्गः स्यात्, ततश्चास्य स्वेच्छाविघातात्तद्विषया सिद्धिः, प्रातिलोम्येनातिप्रवृत्तौ तु तदानीमेव विरक्तत्वात्कथं तद्विषया सिद्धिः ? तस्मान्मध्येनोपायेन साधयेत् ॥ ४० ॥
विस्रम्भणं किंफलमिति ? आह—
आत्मनः प्रीतिजननं योषितां मानवर्धनम् ।
कन्याविस्रम्भणं वेत्ति यः स तासां प्रियो भवेत् ॥ ४१ ॥
आत्मन इति । वर्धनमिति । उपचारस्य तथाविधत्वात् , कन्यानामिति वक्तव्ये, योषिद्ग्रहणं प्रथमसमागमे सर्वविषयमिदमिति दर्शनार्थं, तत्परिज्ञानफलमाह—प्रियो भवेदिति ॥ ४१ ॥
अतिलज्जाऽन्वितेत्येवं यस्तु कन्यामुपेक्षते ।
सोऽनभिप्रायवेदीति पशुवत्परिभूयते ॥ ४२ ॥
सहसा वाऽप्युपक्रान्ता कन्याचित्तमविन्दता ।
भयं वित्रासमुद्वेगं सद्यो द्वेषं च गच्छति ॥ ४३ ॥
१७६ सटीके कामसूत्रे [ ३ अधिकरणे,
१७६ सटीके कामसूत्रे [ ३ अधिकरणे,
सा प्रीतियोगमप्राप्ता तेनोद्वेगेन दूषिता । पुरुषद्वेषिणी वा स्याद्विद्विष्टा वा ततोऽन्यगा ॥ ४४ ॥
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासम्प्रयुक्तके तृतीयेऽधिकरणे कन्याविस्रम्भणं द्वितीयोऽध्यायः ।
अतिलज्जाऽन्वितेति । अस्मात्कारणात्कन्या नोपेक्षणीया, अनेन त्रिरात्रं निर्वचनं पश्यन्ती निर्विद्येत, परिभवेच्चेत्यस्य प्रपञ्चः, सहसेति। अनेनापि न प्रसह्य किं चिदाचरेदित्यस्य प्रपञ्चः, उपक्रान्तेति। उपसर्पिता, भयं यतो दर्शनपथेऽपि न तिष्ठति, वित्रासं तत्स्मरणाच्छरीरविधूननम्, उद्वेगं भोजनादिभ्यो व्यावर्तनम्, प्रीतियोगमप्राप्ता, लज्जाऽन्वितेत्यु-पेक्षितत्वाद्, उद्वेगेन दूषिता, सहसोपक्रान्तत्वात्, पुरुषद्वेषिणी स-र्वान्पुरुषान्द्वेष्टि, सर्वोऽप्येवंविध इति द्विष्ठा प्रीतियोगमप्राप्तत्वात्, ततश्च तं मुक्त्वाऽन्यं पुरुषं गच्छति ।
इति कन्याविस्रम्भणं पञ्चविंशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाSSख्यायां कन्या-संप्रयुक्तके तृतीयेऽधिकरणे कन्याविस्रम्भणं द्वितीयोऽध्यायः ।
तृतीयोऽध्यायः ।
वरणसंविधानपूर्वकमधिगतायां विस्रम्भणमुक्तं, या तु व्रिय-माणा न लभ्यते, तत्र गान्धर्वादयश्चत्वारो विवाहाः, तत्रालाभकारणा-न्येव तावदाह—
धनहीनस्तु गुणयुक्तोऽपि, मध्यस्थगुणो हीनापदेशो वा, स-धनो वा प्रातिवेश्यो, मातापिताभ्रातृषु च परतन्त्रो, बालवृत्तिरु-चितप्रवेशो वा कन्यामलभ्यत्वान्न वरयेत् ॥ १ ॥ बाल्यात्प्रभृति चैनां स्वयमेवानुरञ्जयेत् ॥ २ ॥ तथायुक्तश्च मातुलकुलानुवर्ती द-क्षिणापथे बाल एव मात्रा च वियुक्तः परिभूतकल्पो धनोत्कर्षाद-लभ्यां मातुलदुहितरमन्यस्मै वा पूर्वदत्तां साधयेत् ॥ ३ ॥ अन्या-मपि बाह्यां स्पृहयेद् बालायामेवं सति धर्माधिगमे संवननं श्ला-घ्यमिति घोटकमुखः ॥ ४ ॥
३ अध्याये ] बालोपक्रमप्रकरणम् । १७७
३ अध्याये ] बालोपक्रमप्रकरणम् । १७७
धनहीनस्त्वभिजनादिगुणयुक्तोऽपि दरिद्रः कन्यां न लभते, मध्यस्थगुणो हीनापदेशो वेति । मध्यस्था रूपशीलादयो गुणाः, अभिजनः-प्रधानं तदभावादीनव्यपदेशः, सधनो वा प्रातिवेश्य इति । स्वगृहसमीपवासी सीमासम्बन्धेन कलहादिजनकत्वाद् धनगर्वान्न लभते, मातापित्रोर्भ्रातृषु च सत्सु, परतन्त्रोऽन्यप्रधानः सधनोऽपि न लभते, बालवृत्तरुचितप्रवेशो वेति । यो लाडीकवद् दृश्यते सोऽनिषिद्धगृहप्रवेशोऽपि परिभवान्न लभते, यदि न वरयेत्कथमधिगच्छेदित्याह-बाल्यादिति । अनुरञ्जयेद् , अनुरक्ता हि स्वयमेव गान्धर्वेण विवाहेन पाणिं ग्राहयति, यतः 'स्वयं संयोगे गान्धर्वः' इति, तस्मादनुरञ्जनार्थं बालायामुपक्रमादनेकप्रकारा उच्यन्ते, यत्र च देशे प्रायेणैवंविविधा वृत्तिस्तामधिकृत्याह-तथायुक्तश्चेति । धनहीनत्वादियुक्तः, दक्षिणापथ इति । तत्र हि मातुलदुहिता परिणीयते, वियुक्तः पित्रोर्मृतत्वात्परिभूतकल्पो मातुलकुलगतः, अन्यस्मै वा पूर्वदत्तामदत्तां वा, अन्यामपि बाह्यामिति । या मातुलदुहिता न भवति पित्रोः सम्बन्धबाह्या तामपि स्पृहयेत् , तत्र कर्तुः क्रिययाऽऽप्तुमिष्टतमत्वेन विवक्षितत्वात्कर्मत्वम्, अनेनान्यस्मिन्नपि देशे विधिरयमिति दर्शयति, बाल्यात्प्रभृति सति धर्माधिगमे बालायां धर्मार्थमधिगमे सन्दर्शनालापलक्षणे सति संवननं वशीकरणमनुरञ्जनलक्षणं-श्लाघ्यम्, अन्यथा दर्शनात्कथं संवननं स्याद्, धर्म्यश्च गान्धर्वोविवाहः, यथोक्तं—'तत्र पूर्वं धर्म्याश्चत्वारः, षडित्येके' ॥ २ ॥ ३ ॥ ४ ॥
उपक्रान्तो वरो द्विविधो, बालो युवा च, तत्र पूर्वमधिकृत्यानुरञ्जनमाह—
तया सह पुष्पावचयं ग्रथनं गृहकं दुहितृकाक्रीडायोजनं भक्तपाककरणमिति कुर्वीत परिचयस्य वयसश्चानुरूप्यात् ॥ ५ ॥
तयेति । बालया, अवचयमुच्चपादपाद् , ग्रथनं पुष्पाणां, गृहकं-काष्ठमयं मृण्मयं वा स्वल्पं, दुहितृका सूत्रदारर्वादियमयी, भक्तपाककरणमिति । सङ्कक्तं तण्डुलैरितरत्पांसुभिः, परिचयस्य वयसश्चेति । आत्मनः स्वल्पमधिकं वा परिचयं, बाल्यं तारुण्यं वा वयो बुद्ध्वा तदनुरूपमाचरेद् नोक्तमित्येव ॥ ५ ॥
आकर्षंक्रीडापट्टिकाक्रीडामुष्टिद्यूतक्षुल्लककाद्यूतानि मध्यमाङ्गुलिग्रहणं षट्पाषाणकादीनि च देश्यानि तत्सात्म्यात्तदाप्तदासचेटिकाभिस्तया च सहानुक्रीडेत ॥ ६ ॥
आकर्षंक्रीडा पाशकक्रीडा, पट्टिकाग्रथनम्, मुष्टिद्यूतं प्रसिद्धं, क्षु-
२३ का० सू०
१७८ सटीके कामसूत्रे [ ३ अधिकरणे,
ल्लकद्यूतं पञ्चसमयादि, मध्यमाङ्गुलिग्रहणमिति । अङ्गुलिविपर्यासेन गोपितुर्मध्यमाङ्गुलेर्ग्रहणं, षट्पाषाणकादीनीति । यत्र स्वल्पानि षट्पाषाणानि हस्तस्य क्रोडेनोत्क्षिप्य पृष्ठेन गृह्यन्ते, आदिशब्दादन्यानि च देश्यानि पञ्चिकाप्रसृतकादीनि, तत्साम्यादिति । यत्र नायिकाया अभिनिवेशः, तदाप्तदासचेटिकाभिश्चित । तस्या ये दासाश्चेटिकाश्च ताभिः क्रीडन्ताभिः सहानुक्रीडेत ततोलब्धप्रसरतया च ॥ ६ ॥
श्वेडितकानि सुनिमीलितिकामारब्धिकां लवणवीथिकामनिलताडितिकां गोधूमपुञ्जिकामङ्गुलिताडितिकां सखीभिरन्यानि च देश्यानि ॥ ७ ॥
श्वेडितकानि येष्वङ्गव्यायामाः, तान्याह—सुनिमीलितिकामिति । यत्रैकस्य कश्चिन्नेत्रे निमीलयति शेषाः प्रच्छन्नेष्वात्मानं गोपायित्वा तिष्ठन्ति, ततोऽसावुन्मीलितचक्षुर्यं गृह्णाति तस्य नेत्रनिमीलनमिति, आरब्धिकां, हस्तेन छोटिकां दत्त्वा यत्र पलायते परस्य संग्रहार्थं तां क्रीडामारब्धिकामनाडुः, लवणवीथिकां लवणवीथिकाभ्यांकृतयोस्तद्वीथिकान्तरयोर्मध्ये लवणे स्वस्थानमाक्राम्यति तदा लवणयोगो भवति तां क्रीडां, लवणहार इति प्रतीताम्, अनिलताडितिकां, यत्र पक्षवद् भ्रमणं, गोधूमपुञ्जिकामिति । गोधूमग्रहणं व्रीह्युपलक्षणं, यत्र बहूनामेकः प्रत्येकं रूपकानादाय व्रीहिषु क्षिप्त्वा संमिश्र्य च तावतो भागान्करोति, अतस्ते यथेच्छमेकैकं भागमादाय रूपकमन्विष्यन्ते, तत्र यो न लभते सोऽन्यद्ददाति, अङ्गुलिताडितिकामिति । यत्रैकं निमीलितनेत्रमन्यैर्ललाटे आहत्य केनाभिहतोऽसीति? पृष्टो यमाघातकरंचेत्तयति स आहन्यते, अन्यानि च देश्यानि मण्डूकिकैकपादिकादीनि, एते प्रायशो बालस्योपक्रमाः ॥ ७ ॥
यूनस्तु ये प्रायशस्तानाह—
यां च विश्वास्यामस्यां मन्यते तया सह निरन्तरां प्रीतिं कुर्यात् परिचयाच्च बुध्येत ॥ ८ ॥
अस्यामिति । नायिकायां विश्वास्यां, निरन्तररामनवच्छिन्नां प्रीतिं कुर्याद्, साऽपि हि धात्रेयिका मत्कार्यं करिष्यतीति परिचयाच्चावबुध्येत, प्रीतिं किमप्यस्यामपि करोतीति ॥ ८ ॥
धात्रेयिकां चास्याः प्रियहिताभ्यामधिकमुपगृह्णीयात्, सा हि प्रीयमाणा विदिताकाराऽप्यप्रत्यादिशन्ती तं तां च योजयितुं श-
३ अध्याये ] बालोपक्रमप्रकरणम् । १७९
३ अध्याये ] बालोपक्रमप्रकरणम् । १७९
क्नुयादनभिहिताऽपि प्रत्याचार्यकम् ॥ ९ ॥
धात्रेयिकां धात्र्या दुहितरम्, प्रियं तदात्वे सुखकरं, हितमायत्याम्, अधिकोपग्रहे फलमाह—सा हीति । प्रीयमाणा स्निह्यमाना, विदिताकाराऽपीति । नायको नायिकामिच्छतीति ज्ञाताभिप्रायाऽपि, अप्रत्यादिशन्ती तमिति । नायकमप्रत्याचक्षाणा, तां चेति । नायिकांभयलज्जाव्यपनयनेन प्रतार्य योजयितुं शक्नुयाद्, अनभिहिताऽपि प्रत्याचार्यकमिति । संयोजने त्वमाचार्या भवेत्येतत्प्रति, नायकेनानुक्ताऽपि सती योजयितुं शक्नुयादिति योज्यम् ॥ ८ ॥
अविदिताकाराऽपि हि गुणानेवानुरागात्प्रकाशयेद्, यथा प्रयोज्याऽनुरज्येद् ॥ १० ॥
अविदिताकाराऽपीति । यद्यपि नायक एनामिच्छतीति न ज्ञातवती तथाऽपि गुणानेव प्रकाशयेद्; अनुरागादिति । नायकविषये धात्रेयिकाऽनुरागाद् ॥ १० ॥
यत्र यत्र च कौतुकं प्रयोज्यायास्तदनुप्रविश्य साधयेत् ॥११॥
यत्र यत्र चेति । प्रतारणप्रकारे, तदनुप्रविश्येति । विज्ञाय, साधयेदिति । संपादयेत् ॥ ११ ॥
क्रीडनकद्रव्याणि यान्यपूर्वाणि यान्यन्यासां विरलशो विद्येरंस्तान्यस्या अयत्नेन संपादयेत् ॥ १२ ॥
क्रीडनकद्रव्याणि वक्ष्यति, अन्यासामिति । कन्यायां, विरलशो, न बाहुल्येन, अयत्नेनेति । संपादनसामर्थ्यं दर्शयति ॥ १२ ॥
तत्र कन्दुकमनेकभक्तिचित्रमल्पकालान्तरितमन्यदन्यच्च संदर्शयेद्, तथा सूत्रदारुगवलगजदन्तमयीर्दुहितृका मधूच्छिष्टपिष्टमय्यीश्च ॥ १३ ॥
क्रीडनकद्रव्याण्याह—कन्दुकमिति । अल्पकालान्तरितमिति । कौतुकप्रबन्धाभ्युपगमार्थम्, अन्यदन्यं भक्तीनां वैसादृश्याद्, दारु=काष्ठं,-गवलं=शृङ्गं, दुहितृकाः=पुत्रिकाः, संदर्शयेदित्येव, मधूच्छिष्टं सिक्थम्१३
भक्तपाकार्थमस्या महानसिकस्य च दर्शनं काष्ठमेढ्रकयोश्च, संयुक्तयोः स्त्रीपुंसयोरजैडकानां देवकुलगृहकानां मृद्विदलकाष्ठविनिर्मितानां शुकपरभृतमदनसारिकालावककुक्कुटतित्तिरिपञ्जरकाणां च विचित्राकृतिसंयुक्तानां, जलभाजनानां च यन्त्रकाणां-
| १८० | सटीक कामसूत्रे | [ ३ अधिकरणे, |
|---|
वीणिकानां पिण्डोलिकानां पटोलिकानामलक्तकमनःशिलाहरिता-
लहिङ्गुलकश्यामवर्णकादीनां, तथा चन्दनकुङ्कुमयोः पूगफलानां
पत्राणां कालयुक्तानां, च शक्तिविषये प्रच्छन्नं दानं प्रकाशद्रव्याणां
च प्रकाशं, यथा च सर्वाभिप्रायसंवर्धकमेनं मन्येत तथा प्रयति-
तव्यम् ॥ १४ ॥
महानसिकस्येति। महानसविषयं कर्म महानसिकमित्युक्तम्, भक्तग्र-
हणमुपलक्षणार्थम् भक्तादिपाकार्थस्य कर्मणस्तत्तच्छास्त्रोक्तेन विधिना
दर्शनं, स्त्रीणां प्रधानविद्यात्वाद्, संयुक्तयोरिति। एककाष्ठघटितयो-
स्त्रीपुंसयार्मेढ्रकयोरविप्रयोगार्थं दर्शनम्, अजैडकानां काष्ठमयानाम्,
उपलक्षणार्थत्वाद् गवाश्वादीनां च, मृदा वंशविदलैः काष्ठैर्वा विनिर्मि-
तानां देवकुलानां देवगृहाणां च, शुकादिपञ्जराणां मृदादिनिर्मितानां-
तत्र मदनसारिका पठति, जलभाजनानां शङ्खशुक्तिखण्डानां मृत्काष्ठशि-
लानिर्मितानां, विचित्राणां वर्णिकयाऽऽकृतियुक्तानां संस्थानवतां,-
यन्त्रकाणामिति । यन्त्रमातृकोक्तानां, वीणिका स्वल्पवीणा, पिण्डो-
लिका यत्र दुहितृकाः स्थाप्यन्ते, पटोलिका यत्र प्रसाधनं विधीयते,
श्यामवर्णकं राजावर्तचूर्णं चित्रकर्मोपयोगि पत्राणि ताम्बूलस्य,
कालयुक्तानामिति । यस्मिन्काले येनार्थिनी, तत्र तस्य दर्शनमित्यर्थः,
शक्तिविषय इति । यस्मिन् प्रच्छन्ने स्वयं प्रवेष्टुं सामर्थ्यं तत्र दानं, कुङ्कु-
मादीनामप्रकाशयत्वात्, प्रकाशद्रव्याणां कन्दुकादीनां प्रकाशदानं, तैरेव
कल्पनीयत्वाद्, सर्वाभिप्रायसंवर्धकमिति । सर्वाभिलाषपूर्वकं यद्यन्म-
मेप्सितं तत्तत्संपादयतीति, दीयमानं च यथा प्रच्छन्नमर्थयेत् ॥ १४ ॥
किंनिमित्तमित्याह--
वीक्षणे च प्रच्छन्नमर्पयेत्, तथा कथायोजनम् ॥ १५ ॥
वीक्षणे चेति। दर्शननिमित्तम्, प्रच्छन्ने दृश्यमाना निःशङ्कमुपच-
र्यते; तथा कथायोजनमिति । अन्यमुखेन संवर्धनार्थं च कथां यो-
जयेत् ॥ १५ ॥
प्रच्छन्नदानस्य तु कारणमात्मनो गुरुजनाद्भयं ख्यापयेद्,
देयस्य चान्येन स्पृहणीयत्वमिति ॥ १६ ॥
प्रच्छन्नस्य तु कारणमुभयं, तत्रात्मनो गुरुजनाद्भयं ख्यापयेत्,
तच्च पितरौ रुष्यत इति, अन्येन स्पृहणीयत्वमिति । अन्योऽप्येतद् दृष्ट्वा
स्पृहयति ततश्च गृह्णीयादिति ॥ १६ ॥
३ अध्याये ] बालोपक्रमप्रकरणम् । १८१
३ अध्याये ] बालोपक्रमप्रकरणम् । १८१
वर्धमानानुरागां चाख्यानके मनः कुर्वतीमन्वर्थाभिः कथाभि-
श्चित्तहारिणीभिश्च रञ्जयेत् ॥ १७ ॥
अन्वर्थाभिः, स्वयं प्रयुक्ताभिः शकुन्तलाराजदारिकाभिः, चित्तहारिणीभिरन्याभिरनुरागयुक्ताभिः ॥ १७ ॥
विस्मयेषु प्रसज्यमानामिन्द्रजालैः प्रयोगैर्विस्मापयेत्, कलासु
कौतुकिनीं तत्कौशलेन, गीतप्रियां श्रुतिहरैर्गीतैः, आश्वयुज्यामष्ट-
मीचन्द्रके कौमुद्यामुत्सवेषु यात्रायां ग्रहणे गृहाचारे वा विचित्रै-
रापीडैः कर्णपत्रभङ्गैः सिक्तकप्रघानैर्वस्त्राङ्गुलीयकभूषणदानैश्च नो
चेद्दोषकराणि मन्येत ॥ १८ ॥
विस्मयेषु प्रसज्यमानामिति । आश्चर्य्येषु प्रसक्तिं यान्तीं, कलासु पत्रच्छेद्यादिषु, गीतप्रियामिति । कलान्तर्गतमपि पुनर्गीतग्रहणं प्राधान्यार्थम्, प्रायेण हि गीतप्रियो लोकः, आश्वयुज्यां कौजागरे, अष्टमीचन्द्रके, मार्गशीर्षबहुलाष्टम्यां, तत्र हि दिनमुपोष्योदिते चन्द्रमसि भुज्यते, कौमुद्यामिति । सामान्योपादानेऽपि यत्र कन्याभिर्ज्योत्स्नामण्डलपूजा क्रियते साऽत्र द्रष्टव्या सा कार्त्तिक्यां भवति, उत्सवेषु इन्द्रमहादिषु, यात्रायां देवतायाः, ग्रहणे सूर्य्याचन्द्रमसोः, गृहाचारे गृहमागतायाम्, आपीडादिभिर्विस्मापयेदिति सम्बन्धः, नो चेद्दोषकराणीति । तद्दाने यद्यात्मनोऽपार्थं न पश्येत् ॥ १८ ॥
अन्यपुरुषविशेषाभिज्ञतया धात्रेयिकाऽस्याः पुरुषप्रवृत्तां चा-
तुःषष्ठिकान्योगांग्राहयेत् ॥ १९ ॥
अन्यपुरुषविशेषाभिज्ञतयेति । अन्येभ्यः पुरुषेभ्यो मम विशेषं धात्रेयिका जानात्विति पुरुषप्रवृत्तां जातसंप्रयोगाम्, अन्यथा कथं विशेषमवैति ॥ १९ ॥
तद्ग्रहणोपदेशेन च प्रयोऽज्यायां रतिकौशलमात्मनः प्रकाश-
येत् ॥ २० ॥
तद्ग्रहणोपदेशेनेति । धात्रेयिकोपदेशद्वारेण, रतिकौशलमिति । तज्ज्ञताम् ॥ २० ॥
उदारवेषश्च स्वयमनुपहतदर्शनश्च स्यात् ॥ २१ ॥
अनुपहतदर्शन इति । अस्योपाय उदारवेषत्वम् ॥ २१ ॥
भावं च कुर्वतीमिङ्गिताकारैः सूचयेत् ॥ २२ ॥
बालायामुपक्रमाः षड्विंशं प्रकरणम् ॥
१८२ सटीके कामसूत्रे [ ३ अधिकरणे,
तथाभूतं तं च दृष्ट्वा, भावं कुर्वतीमनुरागं चेतसि जनयन्तीमिङ्गिताकारलिङ्गैर्विद्यात् ॥ २२ ॥
किमित्यनुपहतदर्शनः स्यादित्याह--
युवतयो हि संसृष्टमभीक्ष्णदर्शनं च पुरुषं प्रथमं कामयन्ते कामयमाना अपि तु नाभियुञ्जत इति प्रायोवाद इति बालायामुपक्रमाः ॥ २३ ॥
युवतय इति। जातयौवनाः, संसृष्टं जातपरिचयम्, अभीक्ष्णदर्शनं सदा दृश्यमानं, कामयन्त इति। इच्छन्ति, नाभियुञ्जते कया चिल्लज्जाऽऽश्चर्ययुक्त्या ॥ २३ ॥
बालायामुपक्रमाः षड्विंशं प्रकरणम् ॥
भावं च कुर्वतीमिङ्गिताकारैः सूचयेदित्युकं, तेषां सूचनं प्रकाशनमुच्यते, यदाह--
तानिङ्गिताकारान्वक्ष्यामः ॥ २४ ॥
तानिति। तत्रेङ्गितमन्यथा वृत्तिः, आकारो मुखनयनरागः, तदुभयमुत्तरत्र यथायोगं योज्यम् ॥ २४ ॥
संमुखं न वीक्षते, तं तु वीक्षिता व्रीडां दर्शयति ॥ २५ ॥
संमुखं न वीक्षत इति। लज्जया पराङ्मुखी, तं तु नायकं, वीक्षितेति। नायकेन, व्रीडां दर्शयति, अधोमुखी भूत्वा ॥ २५ ॥
रुच्यमात्मनोऽङ्गमपदेशेन प्रकाशयति ॥ २६ ॥
रुच्यमतिमनोहरम्, आत्मनोऽङ्गं स्तनबाहुमूलादि, अपदेशेनेति। प्रावरणव्याजेन ॥ २६ ॥
प्रमत्तं प्रच्छन्नं नायकमतिक्रान्तं च वीक्षते ॥ २७ ॥
प्रमत्तमन्वहितम्, प्रच्छन्नमेकाकिनम्, अतिक्रान्तं दूरगतम् ॥ २७ ॥
पृष्टा च किञ्चित्सस्मितमव्यक्ताक्षरमन्त्रासितार्थं च मन्दं मन्दमधोमुखी कथयति ॥ २८ ॥
पृष्टा च किञ्चिदिति। नायकेन, सस्मितमित्यादिनाऽनुरागोन्मुखता व्रीडा चाख्यायते ॥ २८ ॥
तत्त्समीपे चिरं स्थानमभिनन्दति ॥ २९ ॥
तत्त्समीप इति। नायकसमीपे ॥ २९ ॥
दूरे स्थिता पश्यतु मामिति मन्यमाना परिजनं सवदनवि·
३ अध्याये ] इङ्गिताकारसूचनप्रकरणम् । १८३
कारमाभाषते तं देशं न मुञ्चति ॥ ३० ॥
परिजनमिति । आत्मीयं, सवदनविकारमिति । सभ्रूभङ्गकटाक्षं,- तं देशमिति । यत्र स्थिता तं पश्यति ॥३०॥
यत्किञ्चिद् दृष्ट्वा विहसितं करोति तत्र कथामवस्थानार्थमनुबध्नाति ॥ ३१ ॥
तत्रैव यत्किञ्चिद् दृष्ट्वा विहसितं करोति तिर्यक्पश्यन्ती, तत्र कथामनुबध्नाति सखीं प्रोत्साह्य ॥ ३१ ॥
बालस्याङ्कगतस्यालिङ्गनं चुम्बनं च करोति, परिचारिकायास्तिलकं च रचयति ॥ ३२ ॥
बालस्येति । लाडीकस्य स्वाङ्कमारोपितस्य, चुम्बनावगूहनं च संक्रान्तकम्, परिचारिकायाः स्वस्यास्तिलकं रचयति नायकं पश्यन्ती ३२
परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति ॥ ३३ ॥
परिजनानवष्टभ्येति । परिजनक्रोडापाश्रया, तास्ताश्चेति । केशविरचनाङ्गवलनविजृम्भिकाः ॥ ३३ ॥
तन्मित्रेषु विश्वसिति वचनं चैषां बहुमन्यते करोति च ॥ ३४ ॥
तन्मित्रेषु=नायकमित्रेषु, विश्वसिति स्वभावं प्रकटयति, वचनं चैषां बहुमानं कुरुते तदनुरूपाद्यनुष्ठानात् ॥ ३४ ॥
तत्परिचारकैः सह प्रीतिं संकथां द्यूतमिति च करोति ॥३५॥
तत्परिचारकैरिति । नायकपरिचारकैः ॥ ३५ ॥
स्वकर्मसु च प्रभविष्णुरिवैतानियुङ्क्ते ॥ ३६ ॥
एतानिति । नायकपरिचारकान् ॥ ३६ ॥
तेषु च नायकसंकथामन्यस्य कथयत्स्ववहिता तां शृणोति ३७॥
तेष्विति । परिचारकेषु, कस्य चिदन्यस्य कथयत्सु, तां संकथाम् ३७
धात्रेयिकया चोदिता नायकस्योदवसितं प्रविशति ॥ ३८ ॥
धात्रेयिकया चोदिता प्रविशात्र इति, उदवसितं गृहम् ॥ ३८ ॥
तामन्तरा कृत्वा तेन सह द्यूतं क्रीडामालापं चायोजयितुमिच्छति ॥ ३९ ॥
तामन्तरा कृत्वेति । धात्रेयिकां व्यवधानीकृत्य, नायकेन सह द्यूतादि नियोजयितुमिच्छति ॥ ३९ ॥
१८४ सठीके कामसूत्रे [ ३ अधिकरणे,
अनलङ्कृता दर्शनपथं परिहरति ॥ ४० ॥
दर्शनपथमिति । नायकस्य ॥ ४० ॥
कर्णपत्रमङ्गुलीयकं स्रजं वा तेन याचिता सधीरमेव गात्राद- वतार्य सख्या हस्ते ददाति तेन च दत्तं नित्यं धारयति ॥ ४१ ॥
सधीरमवतार्य किं ग्रहीष्यतीति, सख्या हस्त इति । लज्जया न त- द्धस्ते ददाति, नित्यं धारयति श्लाघ्यमाना ॥ ४१ ॥
अन्यवरसंकथासु विषण्णा भवति तत्पक्षकैश्च सह न संसृ- ज्यत इति ॥ ४२ ॥
तत्पक्षैरिति । अन्यवरपक्षैः ॥ ४२ ॥
प्रकरणद्वयमुपसंहरन्नाह—
दृष्ट्वैतान्भावसंयुक्तानाकारानिङ्गितानि च । कन्यायाः संप्रयोगार्थं तांस्तान्योगान्विचिन्तयेत् ॥ ४३ ॥
दृष्ट्वेति । एतानिति । आकारान्, इङ्गितानि चेति लिङ्गविपरिणामेन योज्यम्, भावसंयुक्तानीति । अनुरागसङ्गतान्, संप्रयोगार्थमिति । सं- प्रयोगोऽत्र समागमलक्षणो गान्धर्वो ज्ञेयः, योगानिति । अभियो- गान् ॥ ४३ ॥
त्रिविधा कन्या-बाला तरुणी प्रौढा चेति, यथाक्रममुपक्रममाह—
बालक्रोडनकैर्बाला कलाभियोंवने स्थिता । वत्सला चापि संग्राह्या विश्वास्यजनसंग्रहात् ॥ ४४ ॥
इति श्रीवात्स्यायनीये कामसूत्रे तृतीयेऽधिकरणे बालोपक्रमा- इङ्गिताकारसूचनं च तृतीयोऽध्यायः ।
बालक्रीडनकैरिति । कलाभिरनुरागिणी, वत्सला प्रौढा, यस्तस्या- विश्वास्यस्तदुपग्रहात्स्वीकर्तव्या ॥ ४४ ॥
इङ्गिताकारसूचनं सप्तविंशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां कन्यासं- प्रयुक्तके तृतीयेऽधिकरणे बालोपक्रमा इङ्गिताकारसूचनं च तृतीयोऽध्यायः ।