भारतकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

९ अध्याये ] रतारम्भावसानिकप्रकरणम् । १६१

९ अध्याये ] रतारम्भावसानिकप्रकरणम् । १६१

अर्थस्येति । औपरिष्टकस्य रहसि भवत्वात् चित्तस्यास्थिरत्वात्, विशेषतो रागसंयुक्तस्य, कः कुर्याद् विद्वानितरो वेति, कदा किंमत्तावस्थायामितरस्यां वेति, किं कुर्यात् साधारणमसाधारणं लौकिकं वा सम्प्रयोगमिति, कुतो हेतोः किं रागाद्देशप्रवृत्तेर्वेति, को ज्ञातुमर्हति नैवेत्यर्थः ॥ ४ ॥ औपरिष्टकमेकोनविंशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां साम्प्रयोगिके द्वितीयेऽधिकरण औपरिष्टकं नवमोऽध्यायः ।


दशमोऽध्यायः ।

एवमौपरिष्टकान्तं रतमुक्तं, तस्यारम्भेऽवसाने च किं प्रतिपत्तव्यमिति तदुद्भवं रतारम्भावसानिकमुच्यते, तत्र यद्यपि प्रीतिविशेषानन्तरं रतारम्भिकं युक्तं रतावसानिकं चेहैव तथाभूतत्वादनुष्ठानक्रमस्येति, तथाऽपि प्रतीतिसम्भवत्वादालिङ्गनादीनां तदभिधानं तदनन्तरं च प्रतीकन्यायेन सर्वशेषतया रतारम्भः, तत्प्रतिबद्धत्वाच्चावसानिकम् ।

तत्र पूर्वमधिकृत्याह—

नागरकः सह मित्रजनेन परिचारकैश्च कृतपुष्पोपहारः सञ्चारितसुरभिधूपे रत्यावासे प्रसाधिते वासगृहे कृतस्नानप्रसाधनां युक्त्या पीतां स्त्रियं सान्त्वनैः पुनः पानेन चोपक्रमेत ॥ १ ॥

दक्षिणतश्चास्या उपवेशनम् ॥ २ ॥

केशहस्ते वस्त्रान्ते नीव्यामित्यवलम्बनम् ॥ ३ ॥

रत्यर्थं सव्येन बाहुनाऽनुद्धतः परिष्वङ्गः ॥ ४ ॥

पूर्वप्रकरणसंबद्धैः परिहासाऽनुरागैर्वचोभिरनुवृत्तिः ॥ ५ ॥

गूढाश्लीलानां च वस्तूनां समस्यया परिभाषणम् ॥ ६ ॥

सनृत्तमन्नृत्तं वा गीतं वादित्रम् ॥ ७ ॥

कलासु संकथाः ॥ ८ ॥

पुनः पानेनोपच्छन्दनम् ॥ ९ ॥

जातानुरागायां कुसुमानुलेपनताम्बूलदानेन च शेषजनविसृष्टिः ॥ १० ॥

१५२ सटीक कामसूत्रे [ २ अधिकरणे,

विजने च यथोक्तैरालिङ्गनादिभिरेनामुद्धर्षयेत् ॥ ११ ॥ ततो नीवीविश्लेषणादि यथोक्तमुपक्रमेतेत्ययं रतारम्भः॥१२॥

नागरक इति । नागरकवृत्ताधिकृतः, तत्र मित्रजनेन पीठमर्दादिना परिचारकैस्ताम्बूलदायकसंरक्षकर्मान्तकारिभिः सहोपक्रमेतेति सम्बन्धः, पुष्पोपहारः पुष्पप्रकारः, रत्यावास इति। रत्यर्थो य आवासोबाह्यं वासगृहं, तत्र हि शयनीयं प्रकल्पेतेत्ययं वासगृहसंस्कारः, स्त्रिया द्विविधः—स्नानं नेपथ्यग्रहणं चेति शरीरसंस्कारः, असंस्कृतायादर्शनमपि प्रतिषिद्धं, युक्त्या पीतामिति । मनःसंस्कारः, नातिपीतांविभ्रमकरत्वात्, पीतमस्या विद्यत इति मत्वर्थो द्रष्टव्यः, यथा पीता गावः, प्रथमं सान्त्वनैः प्रियवाक्यैः कुशलप्रश्नादिभिरुपक्रमेत, पुनः पानेन सरकः पीयतामिति, तत्र दक्षिणे पार्श्वेऽस्या उपवेशनं, स्त्री वामपार्श्वे उपविशेद्, येन दक्षिणहस्तेन चषको वामेन च बाहुना परिष्वङ्गः, तत्र प्रथमं केशहस्तादिष्ववलम्बनं संस्पर्शनं, ततः सव्येन वामेन परिष्वङ्गः, अनुद्धत इति । यथा नोद्विजते, पूर्वप्रकरणसम्बद्धैरिति । अतिक्रान्तेन प्रस्तावेन युक्तैः 'स्मरसि सुभगे यदावयोस्रत्र तत्र परिहासाेऽनुरागश्चासीद्' इत्येवं वचोभिरनुवर्तनं गूढाश्लीलानां चेति । यद्गूढं दुर्बोधमश्लीलं ग्राम्यं लोकप्रतीतं वस्तु गाथास्कन्धकादिषु निबद्धं तस्योभयस्यापि बुभुत्सायां समस्यया संक्षेपेण परिभाषणम्, परिकथनमित्यर्थः, सनृत्तमन्नृत्तं वा गीतमिति । या नृत्ताभिज्ञा तत्समक्षं गीतार्थमाङ्गिकाद्यभिनयेन प्रकाशयेद्, आसीननृत्तं स्याद्, इतरस्या गीतमेव केवलं, वादित्रमिति । नागदन्तावसक्तां वीणामादाय; तत्रान्यस्यासम्भवात्, कलासु सङ्कथाः, शेषास्वालेख्यादिषु कौशलख्यापनार्थम्, एवमावर्ज्य पुनः पानेनोपच्छन्दनं प्रोत्साहननं, जातरागायां च यथोक्तांनुष्ठानेन ताम्बूलदानसम्प्रेषणोपायः, शेषजना मित्रपरिचारकादयः, यथोक्तैरिति । रतात्प्रागुक्तानि यानि, उद्धर्षयेदुत्कृष्टेन हर्षेण योजयेद्, यथा शयनीयं प्रतिपद्यते, तत इति । उत्तरकाले शयनीयगतायां नीवीविश्लेषणायाेपक्रमेत, इतः प्रभृति बाह्यं पुरुषोपसृप्तमिति ॥ १ ॥ २ ॥ ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ ९ ॥ १० ॥ ११ ॥ १२ ॥

रतावसानिकं रागमतिवाह्यासंस्तुतयोरिव सब्रीडयोः परस्परमपश्यतोः पृथक्पृथगाचारभूमिगमनम् ॥ १३ ॥ प्रतिनिवृत्य च व्रीडायमानयोरुचितदेशोपविष्टयोस्ताम्बूल-

१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १५३

१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १५३

ग्रहणमच्छीकृतं चन्दनमन्यद्वाऽनुलंपने तस्या गात्रे स्वयमेव निवेशयेत् ॥ १४ ॥

सव्येन बाहुना चैनां परिरभ्य चषकहस्तः सान्त्वयन्पाययेत् ॥१५॥

जलानुपानं वा खण्डखाद्यकमन्यद्वा प्रकृतिसात्म्ययुक्तमुभावप्युपयुञ्जीयाताम् ॥ १६ ॥

अच्छरसरसयूषमम्लयवागूं भृष्टमांसोपदेशानि पानकानि चूतफलानि शुष्कमांसं मातुलुङ्गचक्रकाणि सशर्कराणि च यथादेशसात्म्यं च ॥ १७ ॥

तत्र मधुरमिदं मृदु विशदमिति च विदश्य विदश्य तत्तदुपाहरेत् १८

हर्म्यतलस्थितयोर्वा चन्द्रिकासेवनार्थमासनम् ॥ १९ ॥

तत्रानुकूलाभिः कथाभिरनुवर्तेत ॥ २० ॥

तदङ्कसंलीनायाश्चन्द्रमसं पश्यन्त्या नक्षत्रपङ्क्तिव्यक्तीकरणम् ॥२१॥

अरुन्धतीध्रुवसप्तर्षिमालादर्शनं चेति रतावसानिकम् ॥ २२ ॥

रतावसानिकमिति । वक्ष्यत इति शेषः, रागमतिवाह्य=रतिमनुभूय, असंस्तुतयोरिवेति । अपरिचितयोर्य्रथा व्रीडा तद्वत्सव्रीडयोरविनयाचरणाद्, एवं परस्परमपश्यतोः, तदवस्थदर्शनाद्वैराग्यमपि स्यादतः पृथक्पृथगाचारभूमिगमनं, नैकत्र शौचभूमौ शौचं कार्यमित्यर्थः, प्रतिनिवृत्त्याचारभूमेर्व्रीडायमानयोः, एकान्तेनापरित्यक्तलज्जत्वाद्, उचितदेशस्तदानीं शयनीयमपास्थान्यदेशः, ताम्बूलस्य ग्रहणं भक्षणं, तदानीं मुखस्याश्रीकत्वाद्वैरस्याच्च, तत्र क्षीणप्रधानधातुत्वाच्छरीरस्य बृंहणं बाह्यमाभ्यन्तरं च, तत्र बाह्यं ग्रीष्मकाले, अच्छीकृतं चन्दनमन्यद्वाऽनुलेपनं कालेपयिकं, स्वयमित्यनुरागख्यापनार्थं, निवेशयेत् पश्चादात्मन इत्यर्थः, आभ्यन्तरं पानादि, तत्रापि परिरभ्यालिङ्ग्य, चषको मद्यभाजनं, सान्त्वयन्प्रियाणि ब्रुवन् पाययेद्, जलानुपानं वा खण्डखाद्यकं बृंहणीयत्वाद्, अन्यद्वा तिलगर्भोत्करादिप्रकृतिसात्म्ययुक्तमुभावप्युपयुञ्जीयाताम्, अच्छरसरसयूषमिति, यूषं द्विविधं-मांसनिर्यूहं-व्रीहिनिर्यूहं च, बृंहणीयत्वान्मांसनिर्यूहं रसयूषमच्छमुपयुञ्जीयाताम्, अम्लयवागूं मांससिद्धाम्, बृंहणीयत्वात्, भृष्टं भर्जितं मांसं तदेवोप- दंशो येषां पानकानां, चूतफलानि पक्वानि, 'शुष्कमांसं बलवृंहणत्वाद्, मातुलुङ्गचक्रकाणीति । बीजपूरमीषदपनीतत्वकं खण्डशः कृत्तं श-

२० का० सू०

१५४सटीके कामसूत्रे[ २ अधिकरणे,

कंशायुक्तं, हृद्यत्वाद्, यथादेशसात्म्यमिति । यस्मिन्देशे येन सात्म्यं तत्रेति । भक्ष्यद्युपयोगेऽनुरागख्यापनार्थो विधिः, विदश्य विदश्येति । उपलक्षणं चैतत्, इदं मृष्टमिदं वृष्यमित्यास्वाद्यास्वाद्य पानमपि तत्तदुपाहरेदु, हर्म्यतलस्थितयोर्वेति । यदि वासगृहस्थितयोरासने तापश्चन्द्रिका चोदिता, तदा तदुपरि सौधस्थितयोरूर्ध्वमासनं, तत्सेवनं च तापापनयनार्थं, यदि च तापेन न तत्र ताम्बूलग्रहणाद्यनुष्ठितं तदानीमिहानुष्ठेयं, तत्रेति । हर्म्यतले, भुक्तविरसत्वात्कामस्य बृंहणानन्तरं कामजननार्थं तदनुकूलाभिः कथामिरनुवर्तेत, तदङ्कसंलीनायाश्चेति । आसीनस्य नायकस्याङ्के न्यस्तदेहाया नियतं गगनतले दृष्टिः, तत्र चन्द्रमसं नयनानन्दजननम् पश्यन्त्याः प्रसङ्गान्नक्षत्रपङ्क्तिव्यक्तीकरणं, प्रायशः स्त्रीणां नक्षत्रपङ्क्तिष्वपरिचयात्, इयमरुन्धती भगवती सूक्ष्मा य एनां न पश्यति स षण्मासान्म्प्रियते, अयं ध्रुवः पञ्चदशतारकः, यद्दर्शनाद्दिवसगतं पापमपैति, एते च सप्तर्षयः पङ्क्त्या स्थिता इति सन्ददर्शयेत् ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥

द्वयमप्यधिकृत्याह—

तत्रैतद्भवति--

अवसानेऽपि च प्रीतिरूपचारैरुपस्कृता ।
सविस्रम्भकथायोगै रतिं जनयते पराम् ॥ २३ ॥
परस्परप्रीतिकरैरात्मभावानुवर्तनैः ।
क्षणात्क्रोधपरावृत्तैः क्षणात्प्रीतिविलोकितैः ॥ २४ ॥
हल्लीसकक्रीडनकैर्गायनैर्नाट्यरासकैः ।
रागलोलार्द्रनयनैश्चन्द्रमण्डलवीक्षणैः ॥ २५ ॥
आद्ये संदर्शने जाते पूर्वं ये स्युर्मनोरथाः ।
पुनर्वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः ॥ २६ ॥
कीर्तनान्ते च रागेण परिष्वङ्गैः सचुम्बनैः ।
तैस्तैश्च भावैः संयुक्तो यूनो रागो विवर्धते ॥ २७ ॥

तत्रेति । आरम्भेऽवसाने चोभयत्राप्येतद्वक्ष्यमाणकं भवति, अवसानेऽपीति । अपिशब्दादारम्भेऽपीति, प्रीतिः, स्त्रियाः पुंसश्च स्नेहः, उपचारैः स्रग्गन्धादिभिः पानादिभिश्च, उपस्कृतेत्यभिवर्धिता, सविस्रम्भकथायोगैरिति । सविश्वासाभिः कथाभिः सविशवासैश्च योगैः, रतिं वि-

रतारम्भावसानिकमेकोनविंशं प्रकरणम् ॥

१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १५५

सृष्टिलक्षणां परामुत्कृष्टां जनयते, कारणस्य तथाविधत्वात्, तत्र विस्रम्भ- योगमधिकृत्याह—परस्परप्रीतिकरिति। स्त्रीपुंसयोस्तदन्ते सुखकरैः, कैरित्याह-आत्मभावानुवर्तनैरिति। आत्माभिप्रayeण यान्यनुवर्तनान्या- लिङ्गनादीनि, अनुवर्त्यन्ते एभिरिति कृत्वा, क्षणात्क्रोधपरावृत्तैः क्षणात्प्री- तिविलोकनैरिति। अन्तरा प्रणयकलहात्क्षणक्रोधेन यानि परावर्तनानि पुनः प्रसादात्क्षणं प्रीत्या यानि विलोकनानि तैः, स्नेहो विवर्धत इति प्र- तिपदं योज्यं, हल्लीसकक्रीडनकैरिति। हल्लीसकक्रीडनं येषु गीतेषु, य- थोक्तम्।

'मण्डलेन च यत्स्त्रीणां नृत्तं हल्लीसकं तु तत् ।
नेता तत्र भवेदेको गोपस्त्रीणां यथा हरिः ॥'

नाट्यरासकैरन्योन्यदेशीयैः, तेषां श्राव्यत्वाद्रीतविशेषणमेतद्, राग- लोलार्द्रनयनैरिति। रागेण चञ्चलानि सबाष्पाणि च नयनानि येषु गी- तकेषु, अनेन रक्तकण्ठत्वं दर्शयति, चन्द्रमण्डलवीक्षणैरिति। मनोहरित्व- स्तूपलक्षणम्, एतेऽनुवर्तनादयो विस्रम्भयोगाः, विश्वासेन प्रयुज्यमान- त्वाद्, विस्रम्भकथामधिकृत्याह—आद्य इति। प्रथमे मनोरथाः कदाऽ- नेन वा सङ्गमोऽस्त्वित्यादयः, पुनर्वियोगे सन्तप्तयोर्दुःखमस्वास्थ्यं की- र्तनान्ते चेति। पुनर्विस्रम्भयोगस्यावर्तनमिति दर्शयति, तैस्तैरितिअ- न्यैरपि विस्रम्भयोगैर्भावसंयुक्तैः, यून इत्येकशेषनिर्देशाद्, यूनो युवत्याश्च ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥

रतारम्भावसानिकमेकोनविंशं प्रकरणम् ॥

आरम्भावसानयो रतावयवत्वात्तद्ग्रहणे यथा रतं त्र्यवस्थं तथा व्यवस्था स्वाभाविकादिरागभेदादपि विशिष्यत इत्यतो रतविशेषा उ- च्यन्ते—

रागवदाहार्यरागं कृत्रिमरागं व्यवहितरागं पोटारतं खलरत- मयन्त्रितरतमिति रतविशेषाः ॥ २८ ॥

रागवदित्यादिना स्वभाविक आहार्यः कृत्रिमो दर्पजो विस्रम्भज- श्चेति रागविशेषाः, तद्भेदाद्रागवदाद्यंाऽपि रतविशेषाः ॥ २८ ॥

एषां लक्षणमुपचारं चाह—

संदर्शनात्प्रभृत्युभयोरपि प्रबुद्धरागयोः प्रयत्नकृते समागमे प्रवासप्रत्यागमने वा कलहवियोगयोगे तद्रागवत् ॥ २९ ॥

सन्दर्शनादिति। प्रथमदर्शनात्प्रभृति चक्षुःप्रीत्याद्यवस्थावशात्प्र- बुद्धरागयोर्दू तसम्प्रेषणादिप्रयत्नात्कृते समागमे यद्रतं, यच्च प्रवा-

१५६ सटीक कामसूत्रे [ २ अधिकरणे,

सात्प्रत्यागमने विरहिणोरुत्कण्ठितयोः, यच्च प्रणयकलहे प्रशान्ते प्रसन्नयो रतं तद्रागवत्, स्वाभाविकस्य रागस्यातिशयेन योगात् ॥ २९ ॥

तत्रात्माभिप्रायाद्यावदर्थं च प्रवृत्तिः ॥ ३० ॥

यावदर्थमिति । प्रवृद्धरागत्वान्न किञ्चित्क्षमते, केवलं स्वाभिप्रायवशात्तयोर्यावद्रति प्रवृत्तिः ॥ ३० ॥

मध्यस्थरागयोरारब्धं यदनुरज्यते तदाहार्यरागम् ॥ ३१ ॥

मध्यस्थरागयोरिति । इच्छामात्रस्योत्पन्नत्वाच्चक्षुःप्रीतिरेव न मनःसम्प्रयोगादयोऽवस्था इत्यतो मध्यस्थो रागः, तयोर्यदारब्धरतमारम्भकेण विधिनाऽनुरज्यत इति पश्चाद्रागेण संश्लिष्यते कारणेन कार्योपचारान्मिथुनमेव रतमित्युक्तम्, आहार्यरागं तत्र रागस्योत्पाद्यमानत्वात् ॥ ३१ ॥

तत्र चतुःषष्टिकैर्योगैः सात्म्यानुविद्धैः संधुक्ष्य संधुक्ष्य रागं प्रवर्तेत तत्कार्यहेतोरन्यत्र सक्तयोर्वा कृत्रिमरागम् ॥ ३२ ॥

तत्र चतुःषष्टिकैरिति । आलिङ्गनादिभिर्योगैः, सात्म्यानुविद्धैर्यस्य यैः सात्म्यं तद्युक्तैः, रागमिच्छामात्रमात्मनः स्त्रियाश्च सन्दीष्य प्रवर्तेत, कार्यहेतोरिति । अर्थदानादनर्थप्रतीकाराद्वा न रागाद्, अन्यत्र सक्तयोर्वेति । अन्यस्मिन्पुंसि स्त्री सक्ता, पुमानप्यन्यस्यां स्त्रियां तयोर्यदनुरोधाद्रतं कृत्रिमरागम्, उभयत्रापि स्वाभाविकरागस्यानुत्पत्तेः ॥ ३२ ॥

तत्र समुच्चयेन योगाञ्शास्त्रतः पश्येत् ॥ ३३ ॥

समुच्चयेनेति । न विकल्पेन द्वयोर्योगयोरन्यतरयोगे स्वाभाविकरागस्यानुत्पत्तेः, यस्मात्समुच्चयेन सर्वानैवालिङ्गनादिप्रयोगान् प्रयागकाले पश्येत्, तत्रापि शास्त्रतः, तत्रापि स्थानकालस्वभावानामपेक्ष्येत्यर्थः ॥ ३३ ॥

पुरुषस्तु हृदयप्रियामन्यां मनसि निधाय व्यवहरेत् संप्रयोगात्प्रभृति रतिं यावदतस्तद्व्यवहितरागम् ॥ ३४ ॥

पुरुष इति । योऽन्यप्रसक्तोऽप्यभावितसन्तानस्तस्यापरस्यामपि राग उत्पद्यत एवास्वाभाविकत्वात्कृत्रिम इत्युच्यते, यस्तु सम्भावितसन्तानः सोऽन्यस्यां न रमते रागाभावाद्, यदा तु तामेव हृदयप्रियामिष्टां मनसाऽभिध्याय, चेतसि रागमुत्पाद्य, सम्प्रयोगात्प्रभृति रतिं यावद्व्यवहरेत्प्रवर्त्तेत तदा तद्व्यवहितरागमित्युच्यते हृदयप्रियया रागस्य व्यवहितत्वाद्, एवं योषिदपि हृदये प्रियं निधायेति योज्यम्, अत्र स-

१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १५७

मुच्चयेन योगानित्ययमेवोपचारः ॥ ३४ ॥

स्वाभाविकाहार्य्यकृत्रिमभेदात्त्रयो नायका नायिकाश्च, तत्र सदृश-संयोगे त्रीणि शुद्धानि, विपर्यये षट् सङ्कीर्णानि, तत्र सङ्कीर्णैनेवोपचा-रान्योजयेद्, एतत् सर्वं समानप्रतिपत्त्योः स्त्रीपुंसयोः, हीनाधिकयोई-पंज्ञाद्विशेषमाह—

न्यूनायां कुम्भदास्यां परिचारिकायां वा यावदर्थं सम्प्रयो-गस्तत्पोटारतम् ॥ ३५ ॥

न्यूनायां कुम्भदास्यामिति । अधमायां परिचारिकायां वा न्यूना-यां न समायां चन्द्रापीडस्येव पत्रलेखायां यावद्रति, पोटारतमिति । उभयव्यञ्जना पोटा नपुंसकम् ॥ ३५ ॥

तत्रोपचारान्नाद्रियेत ॥ ३६ ॥

तस्यामुपचारानालिङ्गनादोन्नाद्रियेत, अरञ्जनीयत्वात्, केवलं दर्पा-दुत्पन्नो रागोऽपनेयः ॥ ३७ ॥

तथा वेश्याया ग्रामीणेन सह यावदर्थं खलरतम् ॥ ३७ ॥

तथेति । यथा नायकस्यासादृश्यात् सम्प्रयोगः, वेश्याया इति । गणि-काया रूपाजीवायाः न कुम्भदास्याः, अभिप्रेतमलभमानाया दर्पाद्ग्रामी-णेन कर्षकादिना सम्प्रयोगः खलरतं, ग्रामीणस्य खलत्वेन विगोपन-करत्वात् ॥ ३७ ॥

ग्रामव्रजप्रत्यन्तयोषिद्भिश्च नागरकस्य ॥ ३८ ॥

तथा ग्रामादियोषिद्भिर्नागरकस्य पत्तनवासिनो दर्पाद्यावदर्थं सम्प्र-योगः खलरतं, न पोटारतं विगोपनस्यापि तत्र सम्भवात्, तत्र, ग्रामयोषितः = कर्षकादित्रियः, व्रजयोषितः गोप्यः, प्रत्यन्तयोषितः=श-बर्यादयः ॥ ३८ ॥

विस्रम्भरागाद्विशेषमाह—

उत्पन्नविस्रम्भयोश्च परस्परानुकूल्यादयन्त्रितरतमिति रतानि ॥ ३९ ॥

उत्पन्नविस्रम्भयोश्चेति । चिरकालसम्प्रयोगाज्जातविश्वासयोः पर-स्परानुकूल्यादिति । स्त्रिया आनुकूल्येन पुमानारभेत, तदानुकूल्येन च स्त्री, अयन्त्रितरतं यन्त्रणाऽभावात्, तच्च चित्ररतं पुरुषायितादिभेदाद-नेकविधमिति बहुवचनेन दर्शयति — रतानीति ॥ ३९ ॥

इति रतविशेषा एकविंशतितमं प्रकरणम् ।

प्रणयकलहं वक्ष्यामः —

१५८ सटीक कामसूत्रे [ २ अधिकरणे,

यथा जातविस्रम्भयोरयन्त्रितरतं तथा प्रणयात्कलहोऽपीति प्रणयकलह उच्यते, तत्र कलहकारणमाह—

वर्धमानप्रणया तु नायिका सपत्नीनामग्रहणं तदाश्रयमालापं- वा गोत्रस्खलितं वा न मर्षयेद् नायकव्यलीकं च ॥ ४० ॥

वर्धमानप्रणया त्विति । यथा यथा विश्वासो वर्धते तथा तथा मृदुमध्याधिमात्रेण न मर्षयेदित्यर्थः, प्रायशश्च नायको विप्रियकारी तन्मूलश्च कलह इति दर्शयन्नाह—नायिकेति । नायकस्य विप्रियकरणं-वाचा क्रियया वा, तत्र वाचा सपत्नीनामग्रहणं, तदाश्रयमिति । अगृहीतैव नाम सपत्नीसम्बद्धं गुणसूचकमालापं गोत्रस्खलितं-तन्नाम्ना नायिकाऽऽह्वानं, नायकव्यलीकमिति । सपत्न्या गृहगमनं ताम्बूलादिप्रेषणं संयोगादिकं नायकस्यापराधं न मर्षयेत्, क्रियया विप्रियकरणमेतत् ॥ ४० ॥

अमर्षेण वाऽनुष्ठानादित्याह —

तत्र सुभृशः कलहो रुदितमायासाः शिरोरुहाणामवक्षोदनं- प्रहणनमासनाच्छयनाद्वा मह्यां पतनं माल्यभूषणावमोक्षो भूमौ शय्या च ॥ ४१ ॥

तत्रेति । सपत्नीनामग्रहणादिषु, अनुष्ठानं वाचा क्रियया च, तत्र वाचा कलहः सुभृशोऽतीव महान् पुनर्नैवं कार्षीरिति, क्रियया रुदितादि, आयासः शरीरवेदना कम्पादिजः, अवक्षोदनं विधूननम्, प्रहणनमात्मनः, अन्ये नायकस्य शिरोरुहावलम्बनं प्रहणनं चेत्याहुः, मह्यामिति । आसनादिति । यतः पतिताया न दुःखोत्पत्तिः, माल्यभूषणयोरपिनद्धयोर्मोक्षणं त्यागः, भूमौ शय्या, न तेन सह शयनम् ॥ ४१ ॥

स नायकोऽपि सापराधत्वात्किं प्रतिपद्येतेत्याह—

तत्र युक्तरूपेण साम्ना पादपतनेन वा प्रसन्नमनास्तामनुनय- न्नुपक्रम्य शयनमारोहयेत् ॥ ४२ ॥

तत्रेति । तस्मिन्ननुष्ठाने, साम्नेति । प्रियंवचनेन; तस्य युक्तरूपताऽपराधविशेषात्, पादपतनं नायकविशेषात् , प्रसन्नमना इति । अप्रदर्शितविकारः, मा मूर्च्छते क्षार इति, तामिति । भूमौ सुप्ताम् , अनुनयन् प्रसादयन् , उपक्रम्योत्थापयितुं , शयनमारोहयेत् , प्रिये ! प्रसीदोत्तिष्ठ शयनमध्यास्यतामिति ॥ ४२ ॥

तस्य च वचनमुत्तरेण योजयन्ती विवृद्धक्रोधा सकचग्रहम-

१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १९६

१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १९६

स्यास्यमुन्नमय्य पादेन बाहौ शिरसि वक्षसि पृष्ठे वा सकृद्विस्त्रिर- वहन्यात् ॥ ४३ ॥ द्वारदेशं गच्छेत्तत्रचोपविश्याश्रुकरणमिति ॥ ४४ ॥ अतिक्रुद्धाऽपि तु न द्वारदेशाद् भूयो गच्छेद दोषवत्त्वादिति दत्तकः ॥ ४५ ॥

तस्य चेति । अनुनयतः, वचनमुत्तरेण योजयन्ती तत्कालोचितेन, विवृद्धक्रोधा पुनःपुनरपराधस्मरणात्, सकचग्रहमस्यास्यं मुखमुन्नमय्य, किंचिद्भावितचेष्टितो नेति ज्ञातुं सकृदवहृत्य, द्विस्त्रिरिति । क्रोधवशात्, तदानीं शिरसि पादताडनमपि न दोषाय, सौभाग्यचिह्नं तदिति नागरकवृद्धाः, तत्र चेति । द्वारदेशे, अश्रुकरणमश्रुविमोचनं, न भूयो न बहिः, दोषवत्त्वाद् भूयोगमनस्य कोपव्याजेनान्यत्र गमनाशङ्कोत्पत्तेः, दत्तकग्रहणं पूजार्थं, तन्मतस्याप्रतिषिद्धत्वात् ॥ ४३ ॥ ४४ ॥ ४५ ॥

तत्र युक्तितोऽनुनीयमाना प्रसादमाकाङ्केत प्रसन्नाऽपि तु सकषायैरेव वाक्यैरेनं तुदतीव प्रसन्ना रतिकाङ्क्षिणी नायकेन परिरभ्येत ॥ ४६ ॥

तत्रेति । अश्रुकरणे पादताडनं क्रोधस्यावधिरिति मन्यमानो नायकः पुनस्तां युक्त्याऽनुनयेत्, सा तेन युक्तितोऽनुनीयमाना पादपतनंप्रसादनोपायस्यावधिरिति मन्यमाना प्रसादमाकाङ्क्षेत, ततः प्रसन्ना नायकेनालिङ्ग्यते तत्रापि सकलुषैः सासूयैर्वाक्यैरेनं नायकं तुदती व्यथयन्ती, प्रसन्ना रतिकाङ्क्षिणी प्रसन्ना रतिमाकाङ्क्षमाणा, अन्यथा न यदि परिरभ्येत तदाऽतिभूमिं गतात्कोपान्नायकोऽप्यप्रसन्न इति मतोऽयं कुलयुवत्याः पुनर्भ्वाश्च विधिः ॥ ४६ ॥

वेश्यायाः परपरिगृहीतायाश्च विशेषमाह—

स्वभवनस्था तु निमित्तात्कलहिता तथाविधचेष्टैव नायकमभिगच्छेत् ॥ ४७ ॥

स्वभवनस्था त्विति । निमित्तात्पूर्वोक्तात्, कलहितेति । कलहः संजातो यस्याः, कृतकलहेत्यर्थः, वाचिकममर्षणमेतत्, कायिकमाह—तथाविधचेष्टैवेति । असूयासूचकैर्दुरीक्षणभ्रूभङ्गादिभिः, नायकमभिगच्छेदिति, तस्य समीपे ढौकेतेत्यर्थः ॥ ४७ ॥

तत्र पीठमर्दविटविदूषकैर्नायकप्रयुक्तैरुपशमितरोषा तैरेवा-

१६० सटीक कामसूत्रे [ २ अधिकरणे,

नुनीता तैः सहैव तद्भवनमधिगच्छेत्तत्र च वसेदिति प्रणय- कलहः ॥ ४८

तत्र तस्मिन्कोपानुष्ठाने, नायकप्रयुक्तैस्तस्याः प्रत्यानयने, उपशमि- तरोषा साङ्गा तैरैवानुनीता, अपादपतनेन नायकेन बहिः स्त्रीषु पादप- तनस्य प्रतिषिद्धत्वात्, सहैव गच्छेत् स्वगौरवोत्पादनार्थं, तत्रैव च वसेद् नायकभवने तां रात्रिं रागसंधुक्षणार्थम् ॥ ४८ ॥

अधिकरणार्थमुपसंहरति—

भवन्ति चात्र श्लोकाः

एवमेतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम् । प्रयुञ्जानो वरस्त्रीषु सिद्धिं गच्छति नायकः ॥ ४९ ॥

एवमिति । चतुःषष्टिमालिङ्गनादिकाम्, बाभ्रव्येण पाञ्चालेन, वर- स्त्रीषु तद्विज्ञासु, सिद्धिं गच्छति सौभाग्यमाप्नोति, तस्माच्चतुःषष्टिरा- लिङ्गनादीनां ज्ञातव्या, अन्यथा ह्यपरिज्ञानेऽन्यशास्त्रपरिज्ञानेऽपि न केव- लं सिद्धिं नाधिगच्छति, अन्यत्रापि नात्यर्थं पूज्यते ॥ ४९ ॥

अस्यास्तु परिज्ञानेऽन्यशास्त्रापरिज्ञानेऽपि केवलं सिद्धः पूज्यश्चान्य- त्राप्यग्रणीः स्यादिति दर्शयन्नाह—

ब्रुवन्नप्यन्यशास्त्राणि चतुःषष्टिविवर्जितः । विद्वत्संसदि नात्यर्थं कथासु परिपूज्यते ॥ ५० ॥

ब्रुवन्नपीति । अर्थतः प्रयोगतश्च कथयन्, विद्वत्संसदीति । त्रिवर्गप्र- तिपत्तौ येऽधिकृतास्ते विद्वांसः, तत्सभायां, कथासु त्रिवर्गस्य ॥ ५० ॥

वर्जितोऽप्यन्यविज्ञानैरेतया यस्त्वलंकृतः । स गोष्ठ्यां नरनारीणां कथास्वग्रं विगाहते ॥ ५१ ॥

अन्यविज्ञानैर्व्याकरणादिशास्त्रपरिज्ञानैः, एतयेति । चतुःषष्ट्या, अलंकृतः प्रयोगतोऽर्थतश्च ज्ञातत्वाद्, गोष्ठ्यां नरनारीणामासनबन्धे- ऽन्यशास्त्रं नाधिक्रियते, कथासु कामसूत्रस्य, अग्रं विगाहते, अग्र- णीर्भवतीत्यर्थः ॥ ५१ ॥

ननु चतुःषष्टेरपूज्यत्वात्कथं ज्ञाता विद्वत्संसदि पूज्यत इति चेदाह—

विद्वद्भिः पूजितामेनां खलैरपि सुपूजिताम् । पूजितां गणिकासङ्घैर्नन्दिनीं को न पूजयेत् ॥ ५२ ॥

विद्वद्भिरिति । त्रिवर्गवेदिभिः स्त्रीसंरक्षणोपायत्वात्पूजितां, खलैरपि सुपूजितां, वस्तुतस्तथाविधत्वात्, पूजितां गणिकासङ्घैः, जीविकोपा-

प्रणयकलहो द्वाविंशं प्रकरणम् ।

१० अध्याये ] प्रणयकलहप्रकरणम् । १६१

यत्वाह, एवं च कृत्वा नन्दिनीत्युच्यत इत्याह-नन्दिनीमिति । नन्दनं- नन्दः पूजा, सा विद्यते यस्या इति ॥ ५२ ॥ यथेयमनुगतार्था संज्ञा तथाऽन्याऽपीत्याह—

नन्दिनी सुभगा सिद्धा सुभगङ्करणीति च । नारीप्रियेति चाचार्यैः शास्त्रेष्वेषा निरुच्यते ॥ ५३ ॥

नन्दिनीति । सुभगा सर्वैर्गृहिभिरनुष्ठीयमानत्वात्, सिद्धा विद्येव वशङ्करणी, सुभगङ्करणी स्त्रीपुंसयोः सौभाग्यकरणाद्, नारीप्रिया विशेषतस्तत्सुखकरणाद्, एवमनेकार्थसाधिका, कस्तां न पूज- येत् ॥ ५३ ॥

अतो ज्ञाताऽपि तद्योगात्पूज्यः, विशेषतो नायिकानामित्याह—

कन्याभिः परयोषिद्भिर्गणिकाभिश्च भावतः । वीक्ष्यते बहुमानेन चतुःषष्टिविचक्षणः ॥ ५४ ॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे रता- रम्भावसानिकं रतविशेषाः प्रणयकलहश्च दशमोऽध्यायः ।

आदितः पञ्चदश ।

कन्याभिरिति । पुनर्भूः परयोषित्त्येवान्तर्भूता, सैव हि विधवा पुन- र्भवतीति, वेश्येति वक्तव्ये गणिकाग्रहणं योषिदपि चतुःषष्टिविचक्षणेति दर्शनार्थम् , भावत इति । भावेन हेतुना, बहुमानेन गौरवेण ॥ ५४ ॥

प्रणयकलहो द्वाविंशं प्रकरणम् ।

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे रतारम्भावसानिकं रतविशेषाः प्रणयकलहश्च दशमोऽध्यायः ।

समाप्तमिदं सांप्रयोगिकं द्वितीयमधिकरणम्।

२१ का० सू०

कन्यासम्प्रयुक्तकं नाम तृतीयमधिकरणम् ।

प्रथमोऽध्यायः।

चतुःषष्टिविचक्षणः कन्याभिर्भावतो वीक्ष्यमाणोऽपि न समागमं विना सम्प्रयुज्यत इति तत्समागमोपाय आवाप उच्यते, समन्तादावाप्यन्ते स्त्रियोऽनेनेति, तत्र कन्यायाः प्रधानत्वात्कन्यासम्प्रयुक्तकमुच्यते, तत्रोद्वापा अष्टौ विवाहाः—ब्राह्मः प्राजापत्य आर्षो दैवो गान्धर्व आसुरः पैशाचो राक्षस इति, तत्र पूर्वे चत्वारो धर्म्या इति तदर्थं वरणसंविधानं प्रकरणमुच्यते, किमर्थमेवमनुष्ठीयत इति चेद् ? आह—

सवर्णायामनन्यपूर्वायां शास्त्रतोऽधिगतायां धर्मोऽर्थः पुत्राः सम्बन्धः पक्षवृद्धिरनुपस्कृता रतिश्च ॥ १ ॥

सवर्णायामिति । ब्राह्मणादीनां यथास्वं सवर्णायाम् , अनन्यपूर्वायामिति । मनसा कर्मणा वचसा वाऽन्यस्मै या न दत्ता, तत्र हि प्रगूढमपत्यं तदस्यैवेति स्मृत्यर्थः, शास्त्रत इति । शास्त्रोक्तेन वरणपूर्वेण परिणयविधिनाऽधिगतायां स्वीकृतायां सत्यां धर्मः पत्नीसंयोगाद्य इत्यादिप्रवर्तनं च, अर्थो यौतुकलाभाद् गार्हस्थ्यानुष्ठानाच्च, पुत्रा दृष्टादृष्टार्थाः, सम्बन्धः सहैकभोजनादिहेतुः, पक्षवृद्धिरिति । स्वपक्षस्य वृद्धिः पक्षान्तरलाभाद्, अनुपस्कृता रतिरकृत्रिमा विश्वासातिशययोगात् ॥ १ ॥

यतश्चैवम्—

तस्मात्कन्यामभिजनोपेतां मातापितृमतीं त्रिवर्षात्प्रभृति न्यूनवयसं श्लाघ्याचारे धनवति पक्षवति कुले सम्बन्धिप्रिये सम्बन्धिभिराकुले प्रसूतां प्रभूतमातापितृपक्षां रूपशीललक्षणसम्पन्नामन्यूनानधिकाविनष्टदन्तनखकर्णकेशाक्षिकस्तनीमरोगिप्रकृतिशरीरां तथाविध एव श्रुतवाञ्छीलयेत् ॥ २ ॥

तस्मात्कन्यां शीलयेदिति सम्बन्धः, अशीलितायां वरणासम्भवात् , तत्र शीलनमभिजनतः सनाथतो वयसः कुलाचारतो द्रव्यतोऽनुरागतो रूपतः शीलतो बाह्यलक्षणत आरोग्यतश्चेति, यथाक्रममाह–अभिजनः कुलम् , मातापितृमतीं सनाथत्वात् , त्रिवर्षादिति । वर्षत्रयात्प्रभृति न्यूनवयसं, नैकेन द्वाभ्यां वाऽपि समवयसमधिकव-

१ अध्याये ] वरणविधानप्रकरणम् । १६३

१ अध्याये ] वरणविधानप्रकरणम् । १६३

यसं वा, श्लाघ्यः स्पृहणीय आचारो यस्मिन्कुले, धनवति धनधान्याढ्ये, सम्बन्धिप्रियेऽनुरागिणि, पक्षवति, सम्बन्धिभिराकुले, प्रभूतमातापितृपक्षामित्यनेनातिसनाथतां दर्शयति, रूपं शरीरस्य शोभनो यो वर्णः संस्थानं च, शीलं सुस्वभावता, लक्षणमवैधव्यादिसूचकम्, अन्यूनेति । तत्प्रत्येकं योज्यं, यथासम्भवमन्यूनमनधिकमनष्टं च दन्तादि यस्याः, अवयवरूपेणापि युक्तमित्यर्थः, कन्यायां दन्तादीनां प्रधानावयवत्वाद्, अरोगिप्रकृतिशरीरामिति । स्वभावतो न रोगवच्छरीरं यस्या इत्यर्थः, तथाविध एवेति । अभिDefaultनाद्युपेतोऽन्यथा ह्यगम्य एव स्याद् , विशेषमाह—श्रुतवानिति । गृहीतविद्य इत्यर्थः, शीलयन्मनसि समादध्याद्, शील समाधाविति धातुपाठात् ॥ २ ॥

यां गृहीत्वा कृतिनमात्मानं मन्येत न च समानैर्निन्द्येत तस्यां- प्रवृत्तिरिति घोटकमुखः ॥ ३ ॥

गृहीत्वा परिणीय, कृतिनं कृतार्थं, न च समानैर्निन्द्येत, कुत्साजनकं कृतमनेनेति, प्रवृत्तिर्वरणसंविधानं, घोटकमुखग्रहणमधिकरणप्रावीण्यख्यापनार्थम् ॥ ३ ॥

वरणं द्विविधम्—पौरुषेण दैवेन च विधिना, तत्र पूर्वमधिकृत्याह—

तस्या वरणे मातापितरौ संबन्धिनश्च प्रयतेरन् मित्राणि च गृहीतवाक्यान्युभयसंबद्धानि ॥ ४ ॥

तस्या इति । शीलितायाः, वरणे=याचने, मातापितरौ नायकेन मित्रजनमभिधाय प्रेरितौ प्रयतेतां, वरयितृपुरुषप्रेरणेन संबन्धिनो ये नायककुले संबन्धं कृतवन्तः, मित्राणि च नायकस्य प्रयतेरन्नित्येव, गृहीतवाक्यानि, तद्वचनस्यानतिक्रमणीयत्वाद्, उभयकुलसंबद्धानि मातृसम्बन्धेन पितृसम्बन्धेन च ॥ ४ ॥

तान्यन्येषां वरयितॄणां दोषान्प्रत्यक्षानागमिकांश्च श्रावयेयुः ॥५॥ कौलान्पौरुषेयानाभिप्रायसंबर्धकांश्च नायकगुणान् विशेष तश्च कन्यामातुरनुकूलांस्तदात्वाप्रायितियुक्तान्दर्शयेयुः ॥ ६ ॥

तानीति । मित्राणि, अन्येषामिति । नायकादन्ये ये वरयितारः, वर ईप्सायामदन्तश्चौरादिकः, प्रत्यक्षान्दोषान्विरूपकान्धकुब्जत्वादीन् , आगमिकान्सामुद्रोक्तान्, आगामिकानिति पाठान्तरम्, भाविन इत्य-

१६४ सटीके कामसूत्रे [ ३ अधिकरणे,

र्थः, श्रावयेयुः, तस्याः पितरावित्यर्थात्,

कौलान्कुले भवान्, शीलशौण्डीर्यादीन् नायकगुणान्, पौरुषेयान् पुरुषकारनिष्पन्नाञ् शास्त्रकलाग्रहणादीन्, अभिप्रायसंवर्धकांश्चेति । पित्रोः कन्यादानाभिप्रायं संवर्धयन्ति ये, विशेषतः कन्यामातुर्येऽनुक्कूला भवन्ति ते बाह्यवयस्तवादयः, तदात्वायतियुक्तानिति । वर्तमानेनानागतेन च कालेन फलदानात्संयुतान्, 'तत्कालस्तु तदात्वं स्यादायतिः काल उत्तरः' इत्यमरः, दर्शयेयुः, मित्राणीत्येव ॥ ५-६ ॥

दैवमधिकृत्याह—

दैवचिन्तकरूपश्च शकुननिमित्तग्रहलग्नबललक्षणदर्शनेन नायकस्य भविष्यन्तमर्थसंयोगं कल्याणमनुवर्णयेत् ॥ ७ ॥

दैवचिन्तरूपश्चेति। सांवत्सरव्यञ्जनो नायकप्रहितः, शान्तायां दिशि रटतः काकादेः शकुनस्य निमित्तस्य तज्जात्यादेः, शुभग्रहाणां लग्नादुपचयस्थानेषु स्थितानां यद् बलं दिक्कालस्थानस्वभावैस्तस्य दर्शनेन, लक्षणस्य शङ्खचक्रादेर्दर्शनेन भविष्यन्तमनागतमर्थसंयोगं सेनापत्याध्यक्ष्यपत्तनादिलाभं, कल्याणमिति । कल्याणहेतुत्वाद्, अर्थानुबन्धमित्यर्थः ॥ ७ ॥

अपरे पुनरस्यान्यतो विशिष्टेन कन्यालाभेन कन्यामातरमुन्मादयेयुः ॥ ८ ॥

अपर इति। दैवचिन्तरूपाः, अस्य नायकस्य, अन्यत इति। यतो व्रियते कन्या ततोऽन्यस्माद्, विशिष्टेनेति । अमुष्य सेनापतेर्थंरूपवती दुहिताऽस्मै दातुमिष्यते; येन वयं ह्यस्तने नक्षत्रसंयोगं पृष्टा इत्यनेन कन्यामातरमुन्मादयेयुरनुरञ्जयेयुः, येनानुरक्ता दुहितरं दद्यात् ॥ ८ ॥

दैवनििमत्तशकुनोपश्रुतीनामानुलोम्येन कन्यां वरयेद्दद्याच्च ॥९॥

दैवनििमत्तशकुनोपश्रुतीनामिति । पूर्वजन्मकृतं शुभमशुभं वा कर्म दैवं, तस्याभिव्यञ्जकत्वान्नक्षत्रग्रहा अपि दैवमुच्यते, अस्यानुकूल्येन षट्काष्टकादियोगाभावात् , किमियमूढा कल्याणकरी नेति ? शास्त्रोक्तं निमित्तं; शुकुनपृच्छा च कार्या; निशीथे चोपश्रुतिर्ग्राह्या, तेषामानुकूल्येन वरयेद् दीयमानामीप्सेत, दद्याच्च कन्यापक्षः ॥ ९ ॥

न यदृच्छया केवलमानुषयेति घोटकमुखः ॥ १० ॥

केवलमानुषयेति । केवलं मानुषं कर्म यस्यां यदृच्छायामभिजन-

१ अध्याये ] वरणविधानप्रकरणम् । १६५

सामर्थ्यादिकमस्ति तया, नैवान्येच्छया वरयेद्याच्चेत्यर्थः, घोटकमुख इति । परमतमभिमतमप्रतिषिद्धत्वात् ॥ १० ॥

वरणकाले कन्यां दृष्ट्वा निमित्तं पश्येदिति दर्शयन्नाह—

सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत् ॥ ११ ॥

सुप्तामिति । शयनमल्पायुषं सूचयति, रुदतीं दुःखभागिनीं, निष्क्रान्तां गृहान्निष्क्रामन्तीं गृहत्यागिनीं दृष्ट्वा, वरणकाले वरयिता वर्जयेत् ॥ ११ ॥

अप्रशस्तनामधेयां च गुप्तां दत्तां घोनां पृषतामृषभां विनतां-
विकटां विमुण्डां शुचिदूषितां सांकरिकीं राकां फलिनीं मित्रां-
स्वनुजां वर्षकरीं च वर्जयेत् ॥ १२ ॥

अप्रशस्तनामधेयामिति । भङ्गिका विन्नादिकेति, गुप्तामप्रदर्शितामाशङ्क्यमानदोषां, दत्तामित्यनन्यपूर्वामित्यस्य, घोनादयश्च लक्षणसम्पन्नामित्यस्य प्रपञ्चोऽवश्यत्यागार्थः, तत्र घोनां कपिलां पतिघ्नीम्, पृषतां शुक्लविन्दुयुतामर्थहानिकरीं पतिघ्नीं च, ऋषभां पुरुषसंस्थानां दुःशीलां, विनतां स्कन्धदेशावनतां दुःशीलां, विकटामसंहतोरूं दुःखभागिनीं, विमुण्डां बृहल्ललाटां पतिघ्नीं, शुचिदूषितां पितुर्मृतस्य दत्तोल्कां क्रियया न प्रशस्तां, सांकरिकीं पुरुषदूषितां, तस्यां-पत्नीयोगो न धर्मः, राकां जातरजसं रजसा क्षतयोनित्वाद्, फलिनीं-मूर्कां संव्यवहारबाह्याम्, मित्रां मित्रत्वेन गृहीतामगम्यां, स्वनुजामिति । त्रिवर्षात्प्रभृति न्यूनवयसमित्यस्य शेषः, सुष्ठु पश्चाज्जातामित्यर्थः, यथोक्तम्—

'चतुर्थादष्टमं यावत्कनिष्ठा वत्सरे वरात् ।
कन्यां परिणयेच्छुस्तां नेतरोऽतिवयाश्च या' ॥

वर्षकरीं स्विद्यत्करचरणां पतिघ्नीम् ॥ १२ ॥

नक्षत्राख्यां नदीनाम्नीं वृक्षनाम्नीं च गर्हिताम् ।
लकाररेफोपान्तां च वरणे परिवर्जयेत् ॥ १३ ॥

नक्षत्राख्यां श्रवणां विशाखामित्येवमादि, नदीनाम गङ्गायमुनेत्यादि, वृक्षनाम जम्बूः प्रियङ्गुरित्यादि, लकाररेफोपान्तां चेति । लकाररेफावन्ताक्षरसमीपे नाम्नि यस्याः, कमलू विमलू चारू तारू चेति ॥१३॥

यस्यां मनश्चक्षुषोर्निबन्धनं तस्यामृद्धिर्नेतरामाद्रियेतेत्येके ॥१४॥

मनश्चक्षुषोर्निबन्धनमिति केषाञ्चिन्मतं, यस्यामभिजनादिसद्भावे-

१६६ सटीक कामसूत्रे [ ३ अधिकरणे,

ऽपि मनःसङ्गश्चक्षुःप्रीतिश्चोभयमप्यस्ति, तस्यां पत्न्यां सत्यां सिद्धिस्त्रिवर्गप्राप्तिरित्ययमुत्तमः पक्षः, नेतरमिति । यस्यां नास्ति न तामाद्रियेतेत्यधमः पक्षः, केवलमभिजनाद्यपेक्षां वरयेत्, पूर्वामादरेणेति विशेषः, दोषेषु तु मनश्चक्षुर्निबन्धनेऽप्युपेक्षां, तत्रापि दोषाणां गौरवलाघवं परीक्ष्यमिति ॥ १४ ॥

कन्यापक्षे वरणनिमित्तं संविधानमाह—

तस्मात्प्रदानसमये कन्यामुदारवेषां स्थापयेयुरापराहिकञ्च ॥ १५॥

तस्मादिति । यतः सुप्ताद्यनिमित्तात्कन्या न व्रियते तस्मात्, प्रदानसमय इति । उपलक्षणार्थत्वाद्वरणकालेऽपि प्रसाधितां स्थापयेयुः कन्योपक्षीयाः, आपराह्निकमिति । प्रदानात्प्रागपराह्नभवं विधिं स्थापयेयुरित्येव ॥ १५ ॥

तमाह—

नित्यं प्रसाधितायाः सखीभिः सह क्रीडा यज्ञविवाहादिषु जनसन्द्रावेषु प्रायत्निकं दर्शनं तथोत्सवेषु च पण्यसधर्मत्वात् ॥ १६ ॥

नित्यमिति । सखीभिः सह क्रीडा रथ्याचत्वरादिषु, यज्ञविवाहादिषु चान्यदीयेषु, जनसन्द्रावेष्विति । जनाः संभूय द्रवन्ति येषु, प्रायत्निकमिति । प्रयत्नसाध्यम्, परिवाराधिष्ठितत्वात्कौतुकेन लोको यत्नेन पश्यति, तथोत्सवेषु च वसन्तकादिषु जनसन्द्रावेषु प्रायत्निकम्, पण्यसधर्मत्वादिति । विक्रेतव्यतुल्यं कौतुकेन हि लोको यत्नेन पश्यति, न दृश्यमाना पण्यवद् ध्रियेत ॥ १६ ॥

वरयितॄणां च लक्षणमुपचारं चाह—

वरणार्थमुपगतांश्च भद्रदर्शनान्प्रदक्षिणवाचश्च तत्सम्बन्धिसङ्गतान्पुरुषान्मङ्गलैः प्रतिगृह्णीयुः ॥ १७ ॥

वरणार्थमिति । अहीनाङ्गत्वान् मङ्गलाचारयुक्तत्वात्, प्रदक्षिणवाचइति । अनुकूलवाचः, तत्सम्बन्धिसंगतानिति । यत्प्रागुक्तं मित्राणि सम्बन्धिनश्चेति तैः सहेत्यर्थः, मङ्गलैर्दध्यक्षतादिभिः प्रतिगृह्णीयुः कन्यापक्षीयाः ॥ १७ ॥

कन्यां चैषामलंकृतामन्यापदेशेन दर्शयेयुः ॥ १८ ॥

अन्यापदेशेनेति । अन्यकार्यमपदिश्य न तूपेत्य दर्शयेद्, दानस्यानिश्चितत्वात् ॥ १८ ॥

दैवं परीक्षणं चावधिं स्थापयेयुराप्रदाननिश्चयात् ॥ १९ ॥

वरणसंविधानं त्रयोविंशं प्रकरणम् ॥

१ अध्याये ] वरणविधानप्रकरणम् । १६७

दैवं परीक्षणं चेति । यावत्प्रदानं न निश्चीयते तावद् दैवं प्रजापत्यधीनमिति, परीक्षणं च मित्रस्वजनैः सह निरूपयाम इत्यवधिं स्थापयेयुः,

अन्यस्त्वाह—

'गोष्ठसीताह्रदवृक्षश्मशानेरिणदेवतः । चतुष्पथाच्च मृत्पिण्डैः कुर्याद् दैवपरीक्षणम्' ॥ १९ ॥

स्नानादिषु नियुज्यमाना वरयितारः सर्वं भविष्यतीत्युक्त्वा न तदहरेवाभ्युपगच्छेयुः ॥ २० ॥

स्नानादिषु नियुज्यमानाः कन्यापक्षीयाः, वरयितार इति । वृण्वन्ति ये, सर्वमिति । स्नानादिकम्, भविष्यति प्रजापतावन्ुकूले, न तदहरेवेति । तं दिवसं स्नानादिभिर्नाङ्गीकुर्युः ॥ २० ॥

देशप्रवृत्तिसात्म्याद्वा ब्राह्मप्राजापत्यार्षदैवानामन्यतमेन विवाहेन शास्त्रतः परिणयेदिति वरणविधानम् ॥ २१ ॥

देशप्रवृत्तिसात्म्याद्वेति । यस्मिन्देशे या प्रवृत्तिस्तदानुकूल्यादित्यर्थः, ब्राह्मप्राजापत्यार्षदैवानामिति । एषां धर्म्यत्वाद्, अन्यतमेन,

तथा चोक्तम्—

'सकृदाहूय कन्यां तु ब्राह्मे दद्यात्स्वलंकृताम् । सह धर्मं चरेत्येवं प्राजापत्योऽभिधीयते ॥ वसुगोमिथुनं दत्त्वा विवाहस्त्वार्ष उच्यते । अन्तर्वेद्यां तु दैवः स्यादृृत्विजे कर्म कुर्वते' ॥

शास्त्रत इति । गृह्योक्तेन विधिना ॥ २१ ॥

वरणसंविधानं त्रयोविंशं प्रकरणम् ॥

अभिजनादिभिः शीलितायामप्यनिश्चिते सम्बन्धे वरणाभावात्सम्बन्धनिश्चय उच्यते—

भवन्ति चात्र श्लोकाः—

समस्याद्याः सहक्रीडा विवाहाः सङ्गतानि च । तादृशैरेव कार्याणि नोत्तमैर्नापि वाऽधमैः ॥ २२ ॥

समस्याद्या इति । सम्भूय क्रीडामादिं कृत्वा क्रीडाः, सङ्गतानि सख्यानि, तादृशैरिति । समानैः तुल्यजात्यभिजनद्रव्यायत्तिव्तात् ॥ २२ ॥

तेन समानाधमोत्तमसम्बन्धिभेदात्सम्बन्धस्त्रिविधः, तस्य कार्यद्वा-

सम्बन्धनिश्चयश्चतुर्विंशं प्रकरणम् ॥

१६८ सतीके कामसूत्रे [ ३ अधिकरणे,

रेण लक्षणमाह—

कन्यां गृहीत्वा वर्तेत प्रेष्यवद्यत्र नायकः ।
तं विद्यादुच्चसम्बन्धं परित्यक्तं मनस्विभिः ॥ २३ ॥

कन्यामिति । गृहीत्वा=परिणीय, प्रेष्यवद्=भृत्यवद्, द्रव्यायत्यभावाद्, उच्चसम्बन्धमिति । अधिकेन सम्बन्धिना, परित्यक्तं मनस्विभिः, ये तु नैवं ते कुर्वन्त्येव ॥ २३ ॥

स्वामिवद्विचरेद्यत्र बान्धवैः स्वैः पुरस्कृतः ।
अश्लाघ्यो हीनसम्बन्धः सोऽपि सद्भिर्विनिन्द्यते ॥ २४ ॥

स्वामिवदिति । कन्यां गृहीत्वा प्रभुवद्विचरेद्, द्रव्यायतिमत्त्वाद्, बान्धवैः श्वशुरश्यालकादिभिः प्रेष्यभूतैः परिवृतः, अश्लाघ्य इति । अश्लाघनीयस्तदनुरूपलोकाचाराभावात्, सद्भिरिति । लोकव्यवहारज्ञैः ॥ २४ ॥

परस्परसुखास्वादा क्रीडा यत्र प्रयुज्यते ।
विशेषयन्ती चान्योन्यं सम्बन्धः स विधीयते ॥ २५ ॥

परस्परसुखास्वादेति । वरपक्षस्य कन्यापक्षस्य च सुखानुभवो यस्यां परस्परप्रयुक्तायां क्रीडायां, विशेषयन्ती चान्योन्यं प्रयुज्यते यस्मिन्सः; सम्बन्धो विधीयत इति । सद्भिः क्रियत इत्यर्थः, पूर्वौ तु न विधीयेते इत्यर्थोक्तम् ॥ २५ ॥

तयोरपि कः श्रेयानित्याह—

कृत्वाऽपि चोच्चसम्बन्धं पश्चाज्ज्ञातिषु संनमेत् ।
न त्वेव हीनसम्बन्धं कुर्यात्सद्भिर्विनिन्दितम् ॥ २६ ॥

इति श्रीवात्स्यायनीये कामसूत्रे कन्यासं प्रयुक्तके तृतीयेऽधिकरणे वरणविधानं सम्बन्ध निश्चयश्च प्रथमोऽध्यायः ।

कृत्वाऽपीति । ज्ञातिषु संनमेदिति । ज्ञातिगृहे स्वयं यायाद्, न श्वशुरगृह इत्यर्थः, न त्वेवेत्येकान्तेनैव प्रतिषेधः ॥ २६ ॥

सम्बन्धनिश्चयश्चतुर्विंशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां कन्या सम्प्रयुक्तके तृतीयेऽधिकरणे वरणविधानं सम्बन्धनिश्चयश्च प्रथमोऽध्यायः ।

२ अध्याये ] कन्याविस्रम्भणप्रकरणम् । १६९

द्वितीयोऽध्यायः ।

एवमधिगताऽप्यविश्वासिता न संप्रयोगाहैति; कन्याविस्रम्भणमुच्यते, तत्र विवाहानन्तरं मङ्गलाचारमाह—

संगतयोस्त्रिरात्रमधःशय्या ब्रह्मचर्यं क्षारलवणवर्जमाहारस्तथा सप्ताहं सतूर्यमङ्गलस्नानं प्रसाधनं सहभोजनं च प्रेक्षा संबन्धिनां च पूजनमिति सार्ववर्णिकम् ॥ १ ॥

संगतयोरिति । परिणयात्प्राप्तसमागमयोः, त्रिरात्रमिति । रात्रिग्रहणं रात्रिकर्मप्रदर्शनार्थम्, अधःशय्या भूमौ शयनं, न खट्वायाम्, ब्रह्मचर्यं यावच्चतुर्थिकाहोमो न क्रियते दिवामैथुनस्य प्रतिषिद्धत्वात्, क्षारः फाणितगुडादिः, लवणं सैन्धवादि, तद्वर्जं भोजनं मधुक्षीरघृतसंस्कृतप्रायं, तच्च नक्तं स्याद्, रात्रिकर्मवर्गे पठितत्वात्, तथा सप्ताहम् इति । यथा त्र्यहं, तदूर्ध्वमपराणि सप्ता‍हानीत्यर्थः, अहर्ग्रहणं दिनकर्मप्रदर्शनार्थं, सवाद्यं समङ्गलं सगीतं स्नानं च, प्रसाधनं मण्डनं, सहभोजनं चेति । एकस्मिन्स्थाने, पूर्वत्रापि सहभोजनं किं तु व्रतस्थत्वात्क्षारलवणवर्जं नक्तं च तदिति, प्रेक्षा संबन्धिनां नटादीनां च दर्शनम्, पूजनं च गन्धमाल्यादिभिः, सार्ववर्णिकमिति । चतुर्ष्वपि ब्राह्मणादिवर्णेषु भवमविरुद्धत्वाद् , एतच्च लोके दशरात्रिकमित्युच्यते, तथा चोक्तं--

‘कन्यावेश्मनि निर्वर्त्य राजवद्दशरात्रिकम् ।
सभार्यः स्वगृहं यायात्स्थित्वेर्वा कुलदेशयोः’ इति ॥ १ ॥

विस्रम्भणोपायमाह—

तस्मिन्नेतां निशि विजने मृदुभिरुपचारैरुपक्रमेत ॥ ३ ॥

तस्मिन्निति । दशरात्रिके, कन्या द्विविधा, संसर्गयोग्या; इतरा च, पूर्वस्या विस्रम्भणं रतापेक्षया, द्वितीयाया भयलज्जाऽपगमापेक्षया, निशि मन्दसाध्वसत्त्वाद् , विजने कौतुकगृहे लज्जाऽपगमाद्, मृदुभिरुपचारैरिति । अनुद्वेगकरैरालापस्पर्शनादिभिः ॥ ३ ॥

किमर्थमुपक्रम्यत इत्याह—

त्रिरात्रमवचनं हि स्तम्भमिव नायकं पश्यन्ती कन्या निर्विद्येत परिभवेच्च तृतीयामिव प्रकृतिमिति बाभ्रवीयाः ॥ ४ ॥

त्रिरात्रमिति । स्तम्भमिव मूकं निश्चेष्टं तत्र निर्वचनं पश्यन्ती निर्विद्येत, मूकेन ग्राम्येण चाहमूढेति खिद्येत्, परिभवेच्चेति । निश्चेष्टत्वा-

२२ का० सू०

१७० सटीक कामसूत्रे [ ३ अधिकरणे,

नपुंसकमिति, तिरस्कारबुद्धिं तत्र कुर्यात् ॥ ४ ॥

अस्मिन्पक्षे सर्वस्याविशङ्कया करणे प्राप्ते प्रतिषेधमाह—

उपक्रमेत विस्रम्भयेच्च, न तु ब्रह्मचर्यमतिवर्तेतेति वात्स्यायनः॥५॥

उपक्रमेत यथा न निर्विद्येत, विस्रम्भयेच्च यथा सम्प्रयोगेऽनुकूला भवति न तु ब्रह्मचर्यमतिवर्तेत; अनुकूलायामप्यकाले व्रतखण्डनस्याधर्मत्वात् ॥ ५ ॥

उपक्रममाणश्च न प्रसह्म किञ्चिदाचरेत् ॥ ६ ॥

उपक्रममाणश्चेत्यादिना मृदुभिरुपचारैरित्यस्य प्रपञ्चः, न प्रसह्म किञ्चिदिति । स्पर्शनमपि नाभिभूय कुर्यादित्यर्थः ॥ ६ ॥

किमर्थमित्याह—

कुसुमसाधर्माणो हि योषितः सुकुमारोपक्रमाः, तास्त्वनधिगतविश्वासैः प्रसभमुपक्रम्यमाणाः सम्प्रयोगद्वेषिण्यो भवन्ति तस्मात्साम्नैवोपचरेत् ॥ ६ ॥

कुसुमसाधर्माण इति । कुसुमतुल्याः, योषित इति । सर्वा एव, विशेषतः कन्याः, सुकुमारोपक्रमा इति । मृदुरुपक्रमः स्पर्शनादिलक्षणो यासु, अनधिगतविश्वासैरिति । लब्धविश्वासैस्तु प्रसहोपक्रमो न दोषाय, सम्प्रयोगद्वेषिण्यो जातानिच्छकत्वात्, तस्मात्साम्नेति । मृदुना, सर्वोपचाराणामयं प्राथमिको विधिः ॥ ६ ॥

तत्रालब्धप्रसरस्योपचारयोगासम्भवात्तदुपायमाह—

युक्त्याऽपि तु यतः प्रसरमुपलभेत तेनैवानुप्रविशेत् ॥ ७ ॥

युक्त्येति । कया चिदर्थयुक्त्या तत्कालभाविन्या, यतः प्रसरमिति । तत्सख्या सह सम्भाषणे क्रीडने वाऽऽत्मनोऽवकाशमुपलभेत, तेनैव सम्भाषणेन क्रीडनेन वा द्वारेण तामनुप्रविशेत् ॥ ७ ॥

ततो लब्धप्रसरस्य प्रथममुपगूहनेनोपक्रम इत्याह—

तत्प्रियेणालिङ्गनेनाचरितेन नातिकालत्वात् ॥ ८ ॥

तत्प्रियेणेति । कथं तत्प्रियमित्याह—नातिकालत्वादिति । यद्धृष्ट्वाऽनन्तरमेवापनीयते तस्यानुद्वेजनकत्वात् ॥ ८ ॥

पूर्वकायेन चोपक्रमेत विषह्यत्वात् ॥ ९ ॥

पूर्वकायेन चेति । तस्या यो नाभेरूर्ध्वभागस्तेन प्रथममुपक्रमेत, विषह्यत्वादिति । तेनोपक्रमः शक्यते सोढुं नाधरकायेनोद्वेजनकत्वात्॥९॥

दीपालोके विगाढयौवनायाः पूर्वसंस्तुतायाः, बालाया अपू-