भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 190, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 190

३ अध्याये ] इङ्गिताकारसूचनप्रकरणम् । १८३

कारमाभाषते तं देशं न मुञ्चति ॥ ३० ॥

परिजनमिति । आत्मीयं, सवदनविकारमिति । सभ्रूभङ्गकटाक्षं,- तं देशमिति । यत्र स्थिता तं पश्यति ॥३०॥

यत्किञ्चिद् दृष्ट्वा विहसितं करोति तत्र कथामवस्थानार्थमनुबध्नाति ॥ ३१ ॥

तत्रैव यत्किञ्चिद् दृष्ट्वा विहसितं करोति तिर्यक्पश्यन्ती, तत्र कथामनुबध्नाति सखीं प्रोत्साह्य ॥ ३१ ॥

बालस्याङ्कगतस्यालिङ्गनं चुम्बनं च करोति, परिचारिकायास्तिलकं च रचयति ॥ ३२ ॥

बालस्येति । लाडीकस्य स्वाङ्कमारोपितस्य, चुम्बनावगूहनं च संक्रान्तकम्, परिचारिकायाः स्वस्यास्तिलकं रचयति नायकं पश्यन्ती ३२

परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति ॥ ३३ ॥

परिजनानवष्टभ्येति । परिजनक्रोडापाश्रया, तास्ताश्चेति । केशविरचनाङ्गवलनविजृम्भिकाः ॥ ३३ ॥

तन्मित्रेषु विश्वसिति वचनं चैषां बहुमन्यते करोति च ॥ ३४ ॥

तन्मित्रेषु=नायकमित्रेषु, विश्वसिति स्वभावं प्रकटयति, वचनं चैषां बहुमानं कुरुते तदनुरूपाद्यनुष्ठानात् ॥ ३४ ॥

तत्परिचारकैः सह प्रीतिं संकथां द्यूतमिति च करोति ॥३५॥

तत्परिचारकैरिति । नायकपरिचारकैः ॥ ३५ ॥

स्वकर्मसु च प्रभविष्णुरिवैतानियुङ्क्ते ॥ ३६ ॥

एतानिति । नायकपरिचारकान् ॥ ३६ ॥

तेषु च नायकसंकथामन्यस्य कथयत्स्ववहिता तां शृणोति ३७॥

तेष्विति । परिचारकेषु, कस्य चिदन्यस्य कथयत्सु, तां संकथाम् ३७

धात्रेयिकया चोदिता नायकस्योदवसितं प्रविशति ॥ ३८ ॥

धात्रेयिकया चोदिता प्रविशात्र इति, उदवसितं गृहम् ॥ ३८ ॥

तामन्तरा कृत्वा तेन सह द्यूतं क्रीडामालापं चायोजयितुमिच्छति ॥ ३९ ॥

तामन्तरा कृत्वेति । धात्रेयिकां व्यवधानीकृत्य, नायकेन सह द्यूतादि नियोजयितुमिच्छति ॥ ३९ ॥